________________
तिलकमञ्जरी
३३
परिगतोपरिस्थनगरः स्थवीयसा प्राकारवलयेन बन्दीकृतानामरिनरेन्द्राणामेकमन्दिरं मन्दरकाख्यो दुर्गगिरिः, असावनेकनिकटग्रामपरिसरविसारिसारणिजला शरावती नाम किमपि सेव्यकूला सरित्, एतदुन्मदचक्रवाकवक्राङ्गकुररकारण्डवाकुलमुद्दण्डकमलिनीखण्डमण्डिततीरमंशावतार इव क्षीरजलधेः पुरा दिग्विजयागतेन देवेन खानितं सरः, एष दशसीरसहस्रसंमितसीमा सूर्यग्रहणपर्वणि पूर्वमपवर्जितो मदिरावतीदेव्या सर्वमण्डलग्रामाणामग्रिमो देवाग्रहारः, इदमतिस्निग्धसान्द्रसकलद्रुमगहनमुन्मुखैर्मुनिभिरनुदिनमुदीक्ष्यमाणमार्गापतदतिथिवर्गमनादरप्राप्यसुन्दरस्वादुफलमूलकन्दं मत्रिणा सुरानन्देन निर्मापितं धर्मारण्यम् [ज्ञ], इह करालकरिकुम्भास्थिकूटस्थपुटिततलायामचलपरिसरप्रान्तसीमनि समारब्धसमरकर्मणा प्रापितः प्रेतनगरमुत्तरदिगन्तदण्डनायकेन नीतिवर्मणा हूणपतिः, इमामविच्छिन्नकुङ्कुमकच्छलाञ्छिततीरदेशां तरङ्गिणीमुत्तीर्य
टिप्पनकम्-अपवर्जितः दत्तः [३] ।
परिगतोपरिस्थनगरः परिगतानि, व्याप्तानि, उपरिस्थानि-ऊर्चलोकसम्बन्धीनि नगराणि यैरतादृशः, पुनः बन्दीकृतानां निगृहीतानाम् , अरिनरेन्द्राणां शत्रुभूतनरेन्द्राणाम् , एकमन्दिरं प्रधानकारागारम् । पुनः अनेकनिकटग्रामपरिसरविसारिसारणिजला अनेकेषां-बहूनां, निकटग्रामाणां-प्रत्यासन्नग्रामाणां, परिसरेषु-प्रान्तेषु, विसारिण्यः-निःष्यन्दिन्यः, सारणयः-कुल्या येषां तादृशानि जलानि यस्यां तादृशी, असौ किञ्चिदूरस्था, शरावती नाम तन्नानी, सरित् पूर्वपश्चिमदेशविभाजिका नदी, अस्तीति शेषः । पुनः उन्मदचक्रवाक-वक्राङ्ग-कुरर-कारण्डवाकुलम् उन्मदैः-मदान्वितैः, चक्रवाकैःनिशि प्रियाविश्लिष्टपक्षिभेदैः, वक्राङ्गैः-कुटिलाङ्गः, बकैरिति यावत्, कुररैः-उत्क्रोशजातीयपक्षिभिः, कारण्डवैः-हंसविशेषः, आकुलं-संकीर्णम् , पुनः उहण्डकमलिनीखण्डमण्डिततीरम् उद्दण्डैः-उन्नतैः, कमलिनीखण्डै:-कमलिनीकाननैः, मण्डितम्अलङ्कतं, तीरं यस्य तादृशम् , पुनः क्षीरजलधेः क्षीरसमुद्रस्य, अंशावतार इव अंशात्मना अवतीर्ण इवेत्युत्प्रेक्षा, पुरा पूर्व, दिग्विजयागतेन दिग्विजयोद्देशेनागतेन, देवेन राज्ञा, मेघवाहनेनेत्यर्थः, खानितं खाननयोद्गमितम् , एतत् प्रत्यक्षं, सरः कासारः, अस्तीति शेषः । पुनः दशसीरसहस्रसम्मितसीमा दशसीरसहस्रैः-दशसहस्रसंख्यकहलदण्डैः, सम्मिता-परिच्छिन्ना, सीमा यस्य तादृशः, सर्वमण्डलग्रामाणां सम्पूर्णराष्ट्रग्रामाणाम् , अग्रिमः अग्रेसरः, श्रेष्ठ इति यावत् , पूर्व, सूर्यग्रहणपर्वणि सूर्यग्रहणोत्सवे, मदिरावतीदेव्या तदाख्यपट्टराज्या, अपवर्जितः दानकर्मीकृतः, एषः अयं, देवाग्रहारः देवसेवार्थ दत्तः क्षेत्रादिप्रदेशः, अस्तीति शेषः, पुनः मन्त्रिणा मेघवाहननृपसचिवेन, सुरानन्देन तदाख्यधार्मिकपुरुषेण, निर्मापितम् , इदं प्रत्यक्षं, धर्मारण्यं तपोवनम् , अस्तीति शेषः, कीदृशम् ? अतिस्निग्धसान्द्रसकलद्रुमगहनम् अतिस्निग्धैः-अत्यन्तमनोहरैः, सान्दैः-निबिडैः, सकलै:-अशेषैः, द्रुमैः-वृक्षैः, गहनं-व्याप्तम् , पुनः उन्मुखैः ऊर्ध्वमुखैः, उन्नमितनेत्रैरिति यावत्, मुनिभिः तपखिभिः, अनुदिनं प्रतिदिनम् , उदीक्ष्यमाणमार्गापतदतिथिवर्गम् उदीक्ष्यमाणः-ऊर्ध्वमवलोक्यमानः, मार्गापततां-मार्गागच्छताम् , अतिथीना, वर्ग:-समूहो यस्मिंस्तादृशम् , पुनः अनादरप्राप्यसुन्दरस्वादुफलमूलकन्दम् अनादरप्राप्याणि-अनायासलभ्यानि, सुन्दराणि-दृष्टिप्रियाणि, स्वादूनि-रसनाप्रियाणि च, फलानि-कन्दल्यादीनि, मूलानि-शिफाः, कन्दानि-शूरणादीनि यस्मिंस्तादृशम् [३] ।
करालकरिकुम्भास्थिकूटस्थपुटिततलायां करालैः-भीषणैः, करिकुम्भास्थिकूटैः-हस्तिमस्तकास्थिराशिभिः, स्थपुटितं-विषमोन्नतप्रदेशीकृतं, तलम्-अधःस्थलं यस्यास्तादृश्याम् , इह अस्याम् , अचलपरिसरप्रान्तसीमनि अचलस्य-पर्वतस्य, यः परिसरः-सीमाप्रदेशः, तत्प्रान्तसीमनि-तनिकटसीमनि, समारब्धसमरकर्मणा प्रवर्तितसंग्रामरूपकार्येण, उत्तरदिगन्तदण्डनायकेन उत्तरस्या दिशो यः, अन्तः-अवसानं, तत्र दण्डनायकेन-सेनापतिना, नीतिवर्मणा तन्नाम्ना क्षत्रियेण, हणपतिः म्लेच्छजातिविशेषाधिपतिः, प्रेतनगरं यमपुरी, प्रापितः प्रेषितः, व्यापादित इति यावत् । अविच्छिन्नकुङ्कमकच्छलाञ्छिततीरदेशाम् अविच्छिन्ना:-निरन्तराः, कुश्माः-काश्मीरजौषधिविशेषा येषु तादृशैः, कच्छै;-जलपायप्रदेशः, लाञ्छिताः
५तिलक.
"Aho Shrutgyanam"