________________
३२
टिप्पनक-परागविवृतिसंवलिता। अथ प्रोषिते जलदसमये तद्वियोगादनुदिवसमाविर्भवत्प्रबलातपायामभिनवपतिप्रवासदुःखितस्य विरहिणीजनस्य सदृशावस्थमात्मानमिव दर्शयितुमागतायां शरदि हरिवाहनः सर्वथा गन्धर्वकागमननिष्प्रत्याशस्तिलकमञ्जरीसंततस्मरणजन्मना विक्लवीकृतो गाढमतिदारुणावेगेनोद्वेगेन कथञ्चनाप्यशक्नुवन् गृहेऽवस्थातुम् , एकदा खमण्डलावलोकनविषयमात्मनः कुतूहलमुद्दिश्य प्रधानमत्रिमुखेन पितरं व्यजिज्ञपत् । अनुज्ञातगमनश्च तेन प्रशस्तेऽहनि समस्तनिजसैन्यपरिवृतो विविधयानवाहनाधिरूढेरुज्ज्वलविदग्धवेषधारिभिः समरकेतुपुरःसरैः सुहृद्भिरनुगम्यमानस्तत्कालशून्येषु नागरिकाजनमनस्सु रक्षणमिव निवेश्य निश्चलं रणरणकमतिभूयसा विभवविच्छर्देन साकेतनगरान्निरगच्छत् , अवहच्च वर्त्मनि प्रतिदिनमविच्छिन्नैः प्रयाणैः [१] । प्रयान्तं च तं यदृच्छया तेषु तेषु जनपदेष्वासन्नयायी तत्रत्यराजलोकस्तत्कालोचितैरालापैरकृतनिर्वेदो विनोदयामास, तथाहि-एष निःशङ्कविचरदरण्यगजयूथव्याप्तकन्दरो दूरदृश्यमानोदयशिखरश्रेणिना
टिप्पनकम्-विच्छर्दः-विस्तारः [क्ष] ।
अथ अनन्तरं, जलदसमये मेघकाले, तद्रूपनायक इति यावत् , प्रोषिते प्रवासमापन्ने, समाप्ते सतीत्यर्थः, तद्वियोगात् तद्विरहात् , अनुदिवसं प्रतिदिनम्, आविर्भवत्प्रबलातपायाम् आविर्भवन्-प्रकटीभवन् , प्रबलः-तीव्रः, आतपः-सूर्यप्रभा यस्यां तादृश्याम् , शरदि शरदृतौ, अतः अभिनवपतिप्रवासदुःखितस्य अचिरोत्पन्नभर्तृपरदेशवासव्यथितस्य, विरहिणीजनस्य वियोगिनीजनस्य, सदृशावस्थं तुल्यदुरवस्थम् , आत्मानं खं, दर्शयितुमिव दृष्टिगोचरतामापादयितु मिव, आगतायां उपस्थितायां, हरिवाहनः, सर्वथा सर्वप्रकारैः, गन्धर्वकागमननिष्प्रत्याशः गन्धर्वकागमनप्रत्याशाशून्यः, तिलकमञ्जरीसन्ततस्मरणजन्मना तन्निरन्तरचिन्तनजन्येन, अतिदारुणावेगेन अतिदारुणःअतिभीषणः, सुदुस्सह इत्यर्थः, आवेगः-तीव्रता यस्य तादृशेन, उद्वेगेन उच्चाटनेन, विक्लवीकृतः-विह्वलीकृतः, गृहे, कथञ्चनापि कथञ्चिदपि, अवस्थातुं वर्तितम् , अशक्तवन् अक्षममाणः, एकदा एकस्मिन् समये, स्वमण्डलावलोकनविषयम् खराष्ट्रनिरीक्षणविषयकम् , आत्मनः खस्य, कुतूहलम् अभिलाषम् , उद्दिश्य अधिकृत्य, प्रधानमन्त्रिमुखेन प्रधानमन्त्रिद्वारा, पितरं मेघवाहनं, व्यजिज्ञपत् विज्ञापितवान् । तेन पित्रा, अनुज्ञातगमनः अनुमतप्रयाणः सन् , प्रशस्ते शुभावहे, अहनि दिने, समस्तनिजसैन्यपरिवृतः अशेषखसैनिकपरिवेष्टितः सन् , विविधयानवाहनाधिरूढ़ः विविधानिनानाप्रकारकाणि, यानानि-रथान्, वाहनानि-हस्त्यश्वादीनि, अधिरूढैः-आरूढः, पुनः उज्वलविदग्धवेषधारिभिः विमलयोग्यवेषशालिभिः, समरकेतुपुरस्सरैः तत्प्रमुखैः, सुहृद्भिः मित्रैः, अनुगम्यमानः अनुस्रियमाणः सन् , तत्कालशून्येषु तत्कालं स्वविरहितेषु, नागरिकाजनमनस्सु नगरनिवासिनीजनहृदयेषु, रक्षण मिव रक्षारूपमिव, निश्चलं स्थिरं, रणरणकं चिन्तां, निवेश्य स्थापित्वा, आतिभूयसा अत्यधिकेन, विभवविच्छदेन धनविस्तारेण, साकेतनगरात अयोध्यानगरात्, निरगच्छत् निर्गतः । च पुनः, प्रतिदिनं प्रत्येक दिनम् , अविच्छिन्नैः विच्छेदरहितः, अविरामैरिति यावत् , प्रयाणैः यात्राभिः, अवहत् व्यतीतवान् [क्ष] । यदृच्छया यथेच्छं, तेषु तेषु मार्गमध्यापतितेषु, जनपदेषु देशेषु, प्रयान्तं गच्छन्तं, तं हरिवाहनम् , आसन्नयायी पार्श्वगामी, तत्रत्यराजलोकः तत्तद्देशस्थनृपजनः, तत्कालोचितालापैः प्रयाणकालयोग्याभाषणैः, अकृतनिर्वेदः अनुत्पादितावज्ञः, विनोदयामास प्रमोदितवान् । विनोदप्रकारमेव दर्शयति-तथाहीति, एषः अयं, मन्दरकाख्यः मन्दरकनामा, दुर्गगिरिः दुःखेन गम्यः पर्वतः, अस्तीति शेषः, कीदृशः ? निःशङ्कविचरदरण्यगजयूथव्याप्तकन्दरः निःशङ्क-निर्भयं यथा स्यात् तथा, विचरता-परिभ्रमता, अरण्यगजयूथेन-वनहस्तिगणेन, व्याप्ता-पूर्णा, कन्दरा-गुहा यस्य तादृशः,पुनः दूरदृश्यमानोदग्रशिखरश्रेणिना दूरात् , दृश्यमाना, उदग्राणाम्उन्नताना, शिखराणाम्-ऊर्श्वभागानां, श्रेणिः-पतिर्यस्य तादृशेन, स्थवीयसा अतिस्थूलेन, प्राकारवलयेन प्राकारमण्डलेन,
"Aho Shrutgyanam"