________________
तिलकमञ्जरी यदृच्छाविहारकौतुकस्य, कालवशाच्च विश्रान्तेषु यत्रधारागृहप्रवेशेषु मुद्रितेष्वचिरेण चन्दनचर्चाविधिषु अक्रियमाणेषु कमलकुमुदकुवलयशयनेष्वधार्यमाणेषु हारकेयूरमेखलादिषु मृणालाभरणेष्वनारोप्यमाणासु हृदि जलार्द्रास्वसंचार्यमाणेषु ससलिलतालवृन्तकदलीपत्रवातेष्वदीयमानेषु करचरणयोरिन्दुमणिदर्पणेष्वनुद्घाट्यमानेषु भवनवलभीगवाक्षेषु द्विगुणदीप्यमानविरहदाहज्वरोष्मणः [स], स्वभावधीरत्वादनवधीरितयथारब्धकार्यस्य, लज्जया निपुणनिगूहितेङ्गिताकारस्य, द्वेष्यमपि वेणुवीणाविनोदमादरेण विदधतः, प्रस्तुतामपि विद्याधरविलासवार्तामनावर्तयतः, प्रेष्ठमपि नाम गन्धर्वकस्यागृह्णतो, रहस्यपि तदर्पितं चित्रपटमप्रेक्षमाणस्य, रूक्षामपि कुबेरदिशि दृष्टिमक्षिपतः, समरकेतोरपि निजावस्थामप्रथयतः, श्रमेऽप्यायतोष्णान् पुनः पुनः श्वासपवनानमुञ्चतः, परमचिन्तायासजन्मना प्रचीयमानेनानुदिनमप्रतिविधेयेन देहक्रशिम्ना कदर्यमानस्य ग्रीष्मकालादधिकदुःसहो बभूव वर्षासमारम्भः [ह] ।
टिप्पनकम् तदर्पितं गन्धर्वकार्पितम् [स]।
आनीतैः-उपस्थापितैः, कण्टकैः, किलिञ्जकैः-हस्वैर्वंशविकारैः, कश्मलेषु-दूषितेषु, नगरनिम्नगाकूलेषु नगरासन्ननदीतीरेषु; खण्डितयदृच्छाविहारकौतुकस्य निवृत्तयथेच्छभ्रमणौत्सुक्यस्य । च पुनः, कालवशात् प्रकृतकालागमनकारणात्, यन्त्रधारागृहप्रवेशेषु यन्त्रनिस्सारिजलधारालयप्रवेशेषु, विश्रान्तेषु प्रयोजनाभावानिवृत्तेषु पुनः चन्दनचर्चाविधिषु चन्दनलेपनकर्मसु, अचिरेण शीघ्रं, मुद्रितेषु निरुद्धेषुः पुनः कमल-कुमुद-कुवलयशयनेषु कमलानि, कुमुदानि-चन्द्रविकस्वरकमलविशेषाः, कुवलयानि-नीलकमलानि, तदधिकरणकेषु, शयनेषु-शयन क्रियासु, अक्रियमाणेषु असम्पाद्यमानेषुः पुनः हारकेयरमेखलादिषु हारः-कण्ठालङ्कारः, केयूरः-बाहुभूषणम् , मेखला-कटिवेष्टनं, तत्प्रभृतिषु, मृणालाभरणेषु कमलकाण्डमयालङ्करणेषु, अधार्यमाणेषु व्यर्थधिया तत्तदङ्गेषु अनिवेश्यमानेषुः पुनः जलार्दासु जलाप्लुतवस्त्रेषु, हृदि वक्षसि, अनारोग्यमाणासु असंस्थाप्यमानासुः पुनः ससलिलतालवृन्तकदलीपत्रवातेषु ससलिलानां-जलाप्लुताना, तालवृन्तानां-तालव्यजनानां, कदलीपत्राणां च, वातेषु-पवनेषु, असञ्चार्यमाणेषु अवाह्यमानेषु; पुनः इन्दुमणिदर्पणेषु चन्द्रकान्तमणिरूपदर्पणेषु, कर-चरणयोः हस्तपादयोः, अदीयमानेषु अस्थाप्यमानेषुः पुनः भवनवलभीगवाक्षेषु प्रासादोर्ध्वगृहवातायनेषु, अनुद्धाट्यमानेषु अमुच्यमानावरणेषु, द्विगुणदीप्यमानविरहदाहज्वरोष्मणः द्विगुणः, दीप्यमानेनज्वलता, विरहदाहज्वरेण-विरहाग्निकर्तृकदाहरूपज्वरेण, ऊष्मा-तापो यस्य, यद्वा द्विगुणं यथा स्यात् तथा, दीप्यमानो विरहदाहरूपज्वरतापो यस्मिन् तादृशस्य [स]। पुनः स्वभावधीरत्वात् स्वाभाविकधैर्यशालित्वात्, अनवधीरितयथारब्ध. कार्यस्य अनवधीरितानि-अनुपेक्षितानि, यथारब्धकार्याणि-यथाप्रवर्तितकर्माणि येन तादृशस्य । पुनः लज्जया, निपुणनिगृहितेगिताकारस्य निपुणं-सम्यक् , निगूहितं-संवृत्तम्, इङ्गितं-खाभिप्रायानुसारिचेष्टा यस्य तादृशः, आकारः-आकृतिर्यस्य तादृशस्य; द्वेष्यमपि अप्रियमपि, वेणुवीणाविनोदं वंशी-वीणाख्यवाद्यविशेषवादनानन्दम् , आदरेण प्रीत्या, विदधतः कुर्वतः पुनः प्रस्तुतामपि प्रवर्तितामपि, विद्याधरविलासवार्ता तद्विलासकथाम् , अनावर्तयतः अपुनरुदीरयतः; पुनः प्रेष्ठमपि अतिप्रियमपि, गन्धर्वकस्य तदाख्यस्य प्रकृतस्य विद्याधरकुमारस्य, नाम संज्ञाम् , अगृह्णतः अनुच्चारयतः; पुनः तदर्पितं तेन-गन्धर्वकेन, उपहृतं, चित्रपटं चित्राधिष्ठितवस्त्र, रहस्यपि एकान्तेऽपि, अप्रेक्षमाणस्य अपश्यतः; पुनः कुबेरदिशि उत्तरदिशि, रुक्षामपि प्रीतिशून्यामपि, दृष्टिम. अक्षिपतः अप्रेरयतः: पुनः समरकेतोरपि तदाख्यं स्वपरमपि प्रत्यपि, निजावस्थां स्वकीयदुरावस्थाम् , अप्रथयतः अप्रकटयतः, पुनः श्रमेऽपि श्रमे सत्यपि, आयतोष्णान् आयतान्दीर्घान् , उष्णांश्च, श्वासपवनान् नासामारुतान् , पुनः पुनः वारं वारम् , अमुञ्चतः अनिस्सारयतः; परमचिन्तायासजन्मना अत्यन्तचिन्ताप्रयत्नजन्येन, अनुदिनं प्रतिदिनं, प्रचीयमानेन प्रवर्धमानेन, अप्रतिविधेयेन अप्रतिकार्येण, देहकांशम्ना शरीरकाश्येन, कदथ्यमानस्य अभिभूयमानस्य [ह] ।
"Aho Shrutgyanam"