________________
टिप्पनक-परागविवृतिसंवलिता । प्रकृतिकर्कशास्तदङ्गसंस्पर्शयोग्यानिव कर्तुमात्मनः करानन्तःसलिलेषु जलमुचां कुक्षिषु निचिक्षेप चण्डभानुः । तस्मिन्नसकृदुत्सृष्टबाणविसरं निवारयितुमिव मकरकेतुमाबद्धकुसुमाञ्जलिपुटान्यजायन्त केतकीकाननानि । विनोदयितुमिव तस्यारतिमनारतोदीरितमधुरकेकागीतिभिः समारम्भि ताण्डवमुद्दण्डबर्हमण्डलैर्गृह शिखण्डिभिः [श]। एवं च विकसिताकुण्ठकलकण्ठचातककलकले कठोरदर्दुरारटितदारितश्रवसि विश्रुतापारवाहिनीपूरघूत्कारे घोरघनगर्जितारावजर्जरितरोदसि द्योतमानविद्युद्दामदारुणे विततवारिधाराधोरणिध्वस्तधीरकामुकमनसि सान्द्रकुटजद्रुमामोदमूछितागच्छदुच्छन्नकल्पाध्वगकलापे समन्ताद्विजृम्भितेऽम्बुधरदुर्दिने विधुरीभूतमनसः कोशलाधिपसुतस्य [प], । पङ्कपटलाविलेषु साकेतपुरपरिसरेष्वरम्यतलकुट्टिमेषु लीलालतामण्डपेषु तृणनिरुद्धाध्वसंचारेषु कृत्रिमाचलशिखरेषु पूरानीतकण्टककिलिञ्जककश्मलेषु नगरनिम्नगाकूलेषु खण्डित
टिप्पनकम्-द्यावाभूमी-रोदः, दुर्दिनं-मेघतिमिरम् [प] ।
विसरं जलकणात्मकाथुराशिम् , अजस्रं निरन्तरम् , असृजन् अमुञ्चन् । पुनः चण्डभानुः चण्डा:-तीवाः, भानवः- किरणा यस्य सः, सूर्य इत्यर्थः, प्रकृतिकर्कशान् स्वभावतः कठोरान्, आत्मनः स्वस्य, करान् किरणान् , तदङ्गस्पर्शयोग्यान् तस्य-हरिवाहनस्य, अङ्गाश्लेषार्हान , कर्तुमिव सम्पादयितुमिव, अन्तःसलिलेषु अन्तःस्थितजलेषु, पयोमुचां मेघानां, कुक्षिषु उदरेषु, निचिक्षेप निवेशितवान्। पुनः केतकीकाननानि केतक्याख्यकुसुमलतिकावनानि, तस्मिन् हरिवाहने उत्सृष्टबाणविसरं मुक्तबाणगणं, मकरकेतुं कामदेवं, निवारयितुमिव बाणमोचनान्निवर्तयितुमिव, आबद्धकुसुमाअलिपुटानि रचितपुष्पपूर्णाञ्जलिरूपवृन्तात्मककरपुटानि, अजायन्त समपद्यन्त । पुनः उद्दण्डवहमण्डलैः उद्दण्डम्-उन्नतं, बर्हमण्डलं-शिखामण्डलं येषां तादृशैः, शिखण्डिभिः मयूरैः, तस्य हरिवाहनस्य, अरतिं कामवेदनां, विनोदयितुमिव अपनेतुमिव, अनारतोदीरितमधुरकेकागीतिभिः अनारत-सततम् , उदीरिता-उच्चारिता, मेघागमप्रमोदप्रवर्तितेति यावत् , मधुरा-श्रुतिप्रिया, केका-मयूरवाणीरूपा, गीतिः-गानं यैस्तादृशैः सद्भिः, ताण्डवं नृत्यं, समारम्भि प्रारम्भि [श] । एवं च इत्थं च, विकसिताकुण्ठकलकण्ठचातककलकले विकसिताः-आविर्भूताः, आकुण्ठाः-अप्रतिहताः, कलकण्ठानांकोकिलादीनां, चातकानां-स्वनामप्रसिद्धपक्षिविशेषाणां च, कलकलाः- कोलाहला यस्मिंस्तादृशे, पुनः कठोरदर्दुरारटितदारित श्रवसि कठोरैः-श्रुतिकटुभिः, दर्दुराणां-मण्डूकानाम् , आरटितैः-दुनिनादैः, दारित-पाटितं, श्रवः-कर्णो यस्मिंस्तादृशे, विश्रुतापारवाहिनीपूरघूत्कारे विश्रुताः-विशेषेण श्रुताः, यद्वा प्रसिद्धाः, अपाराणां-पाररहितानां, वाहिनीनां-नदीनां, पूरघूत्काराःजलप्रवाहध्वनिभेदा यस्मिंस्तादृशे, पुनः घोरघनगर्जितारावजर्जरितरोदसि घोरैः-भयानकैः, घनगर्जितारावैः-मेघगर्जनात्मकतीव्रनादैः, जर्जरिते-विदारिते, रोदसी-द्यावा-पृथिव्यौ यस्मिंस्तादृशे, पुनः द्योतमानविद्युद्दामदारुणे द्योतमानया-उद्भासमानया, विद्युद्दाम्ना-तडिन्मालया, दारुणे-भीषणे, पुनः विततवारिधाराधोरणिध्वस्तधीरकामुकमनसि वितताभिःविस्तृताभिः, वारिधाराधोरणीभिः-जलधारावलीभिः, ध्वस्तं-नष्टधैर्य, धीरकामुकानां-धैर्यशालिकामिनां, मनो यस्मिंस्तादृशे, सान्द्रकुटजद्रुमामोदमूछितागच्छदुच्छन्नकल्पाध्वगकलापेसान्द्रः-निबिडैः, कुटजद्रुमाणां-गिरिमहिकावृक्षाणाम् ,आमोदैःगन्धैः, मृच्छितानां मूर्छा प्राप्तानाम् , आगच्छताम्-आगमनं कुर्वताम् , उच्छन्नकल्पानां-नष्टप्रायाणाम् , अश्वगानां-पथिकानां, कलापः-गणो यस्मिंस्तादृशे, अम्बुधरदुर्दिने मेघाच्छन्नदिने, समन्तात् सर्वतः, विजृम्भिते प्रादुर्भूते सति, विधुरीभूतमनसः विप्रलम्भवेदनाव्याकुलीभूतहृदयस्य, कोशलाधिपसुतस्य कोशलस्य-तदाख्यदेशस्य, अधिपः-नृपः, मेघवाहनः, तत्सुतस्यतत्कुमारस्य, हरिवाहनस्य, वर्षासमारम्भः वर्षागमः, ग्रीष्मकालात् उष्णसमयात् , अधिकदुस्सहः अतिकृच्छ्रेण सोढव्यः, बभूव अभूत् [ष] । कीदृशस्य ? पङ्कपटलाविलेषु कर्दमकलापकलुषितेषु, साकेतपुरपरिसरेषु अयोध्यानगरप्रान्तेषु; पुनः अरम्यतलकुट्टिमेषु अरम्यम्-अमनोज्ञं, तल-स्वरूपं यस्य तादृशं, कुट्टिमं-बद्धभूमिर्येषु तादृशेषु, लीलालतामण्डपेषु केलिकुजेषुः पुनः तृणनिरुद्धाध्वसञ्चारेषु तृणैः-तृणराशिभिः, निरुद्धः-निवारितः, अध्वसञ्चारः-मार्गसञ्चारो येषु तादृशेषु, कृत्रिमाचलशिखरेषु कृत्रिमपर्वतशृङ्गेषु; पुनः पूरानीतकण्टककिलिञ्जककश्मलेषु पूरैः-प्रवाहैः।
"Aho Shrutgyanam"