________________
तिलकमञ्जरी
२९ प्रथमयौवनस्य । यौवनोपचयपरिमण्डलस्तनमनङ्गवेदनोच्छेदनायेव सर्वदा हृदयगतमधत्त तद्रूपम् । आविप्कृतानेकभावविभ्रमाणि लिखितानीव केनापि निपुणचित्रकरेण दिग्भित्तिषु दिवानिशं ददर्श तस्याः प्रतिबिम्बानि [ल]।
दृष्ट्वा च तमकाण्डवैरिणा मन्मथेन धर्मर्तुना च युगपदुपताप्यमानमुत्पन्नानुकम्पो निर्वापयितुमिव चक्रे जगत्यामवतारमखिलविश्वोपकारी वारिदागमः । प्रवर्तितप्रबलधारापतयो भङ्गुमिव तस्य धारागृहस्पृहां क्षिप्रमेवान्तरिक्षमाच्छादयाञ्चक्रुः अब्जिनीपलाशप्रकरनीलाः पयोमुचः । सततयामिनीजागरणजडतारका प्रसादयितुमिव तदृष्टिमविरलोद्भिन्नमरकतश्यामशाद्वला बभूव भूतधात्री। प्रथमजलधरासारशिशिरास्तदङ्गतापमिव निर्वापयितुं निर्वातुमारभन्त संततामोदमकरन्दमांसलाः कदम्बमरुतः । मानसस्मरणसञ्जातरणरणकास्तदनुरागमाख्यातुमिव खेचरेन्द्रदुहितुरुत्तरां दिशमभिप्रतस्थिरे राजहंसाः [व] । तद्विरहदाह विच्छेदाक्षमेण पत्रखण्डाडम्बरेण विहितापत्रपाणीव वर्षासलिलपूरितासु विलाससरसीषु निममजुरम्भोजिनीवनानि । घनधाराभिवृष्टमूर्तयस्तदार्तिदर्शनदुःखिता इव दूरविनतैः पल्लवेक्षणैरम्बुकणिकाश्रुविसरमजस्रमसृजन्नुपवनद्रुमाः ।
विभ्रमाणि आविष्कृताः-प्रकटिताः, अनेके-बहवः, भावाः-अभिप्राया यस्तादृशाः, विभ्रमाः-अपाङ्गभङ्ग्यादयो विलासा येषु तादृशानि, पुनः दिभित्तिषु दिकुज्येषु, केनापि अविज्ञातनान्ना, निपुणचित्रकरण कुशलचित्रकारेण, लिखितानीव चित्रितानीवेत्युत्प्रेक्षा, तस्याः तिलकमञ्जर्याः, प्रतिबिम्बानि प्रतिकृतीः, दिवानिशं रात्रिन्दिवं, ददर्श दृष्टिगोचरीचकार [ल]। अकाण्डवैरिणा अनवसरशत्रुणा, मन्मथेन कामदेवेन, च पुनः, घर्मतुना ग्रीष्मर्तुना, तं हरिवाहनं, युगपत् एककालम् , उपताप्यमानं पीड्यमानं, दृष्ट्वा, उत्पन्नानुकम्पः उदितदयः, विश्वोपकारी सर्वोपकारी, वारिदागमः वर्षतुः, निर्वापयितुमिव तदुभयोपतापोपशमनार्थमिव, जगत्यां लोके, अवतारम् आगमनं, चक्रे कृतवान् । पुनः तस्य हरिवाहनस्य, धारागृहस्पृहां जलधारोत्स्यन्दनयन्त्राधिष्ठितगृहाकाङ्क्षा, भक्तमिव निवर्तयितुमिव, प्रवर्तितप्रबलधारापतयः प्रवर्तिताःप्रक्षिप्ताः, प्रबलाः-प्रकृष्टाः, धारापतयः-जलधाराश्रेणयो यैस्तादृशाः, अब्जिनीपलाशप्रकरनीलाः कमलिनीदलौघवन्नीलवर्णः, पयोमचः मेघाः, क्षिप्रमेव अविलम्बमेव, अन्तरिक्षं गगनमण्डलम्, आच्छादयाञ्चः आच्छादितवन्तः । पुनः सततयामिनीजागरणजडतारकां सततं-निरन्तरं, यामिन्यां-रात्रौ, जागरणेन-निद्रानिरोधेन, जडा-निष्परिस्पन्दा,तारका-कनीनिका यस्यां तादृशीं, तदृष्टिं तस्य-हरिवाहनस्य, दृष्टिं-चक्षुः, प्रसादयितुमिव प्रीणयितुमिव, भूतधात्री पृथ्वी, अविरलोद्भिन्नमरकतश्यामशाला सान्द्रोद्गतेन्द्रनीलमणिसदृशश्यामवर्णनवतृणसंकुला, बभूव सम्पेदे । पुनः प्रथमजलधराऽऽसारशिशिराः प्रथमजलधराऽऽसारैः-नवजलधरधारासम्पातैः, शिशिराः-शीतलाः, पुनः सन्तताऽऽमोदमकरन्दमांसला: सन्ततः-सर्वतो विस्तारितः, आमोदः-उत्कटसौरभ यैस्तादृशैः, मकरन्दैः-पुष्परसैः, मांसलाः स्थूलाः, सम्पृक्ता इत्यर्थः, कदम्बमरुतः कदम्बाश्लिष्टपवनाः, तदङ्गतापं तस्य-हरिवाहनस्य, शरीरतापं, निर्वापयितुमिव प्रशमयितुमिव, निर्वातुं सच्चरितुम् , आरभन्त प्रवृत्ताः। पुनः मानसस्मरणसंजातरणरणकाः मानसस्मरणेन-स्वाभिमतवारिदागमनेन वाश्रयणीयमानसाख्यसरोवरस्मृत्या, संजातम्-उद्भूतं, रणरणकं-तद्गमनौत्सुक्यं येषां तादृशाः, राजहंसाः रक्तचञ्चुचरणा हंसावशेषाः,खेचरेन्द्रदुहितुः विद्याधरेन्द्रकुमारिकामपि, तदनुरागं तस्य-हरिवाहनस्य, अनुराग-प्रीतिम्, आख्यातुमिव कथयितुमिव, उत्तरां दिशं मानससरोवरगमनमार्गमित्यर्थः, अभिप्रतस्थिरे तदभिमुख प्रयाताः [व]। पुनः तद्विरहदाहविच्छेदाक्षमण तस्य-हरिवाहनस्य, यः, विरहदाहः-तिलकमजरीविरहज्वरः, तद्विच्छेदाक्षमेण-तनिवर्तनासमर्थन, पत्रखण्डाडम्बरेण पत्रपुजरूपडम्बरेण, विहितापत्रपाणि विहिता-उत्पादिता, अपत्रपा-लजा येषां तादृशानि, इवेत्युत्प्रेक्षा, अम्भोजिनीवनानि कमलिनीकाननानि, वर्षासलिलपूरितासु वर्षासम्बन्धिजलपूर्णासु, विलाससरसीषु केलिकासारेषु, निममज्जुः निमग्नाः । पुनः धनधाराभिवृष्टमूर्तयः घनस्य-मेघस्य, यद्वा घनाभिः सान्द्राभिः, धाराभिः-जलसन्ततिभिः, अभिवृष्टा-अभिषिक्ता,
शाः. उपवनदमाः केलिकाननवृक्षाः. तदार्तिदर्शनदाखिता इव तस्य-हरिवाहनस्य, या आर्तिःकामव्यथा, तद्दर्शनेन, दुःखिता इव-व्यथिता इव, दूरविनतैः दूरपर्यन्तमवनतैः, पल्लवेक्षणैः नवदललोचनैः, अम्बुकणिकाश्रु
"Aho Shrutgyanam"