________________
२८
टिप्पनक-परागविवृतिसंवलिता। मगादशिशिरगभस्तिः [य] । स्तोकावशेषे च दिवसकरधामनि श्यामायमानेषु दिग्भागेष्वनागमनेन गन्धर्वकस्य किञ्चिन्म्लानमुखकमलशोभो दिवस इव नभसः क्रमेण क्रीडाचलादवततार, जगाम च स्वावासम् । आसीनश्च शयने चिन्तयन् मुहूर्तमात्रेण चेतसा तस्य विलम्बकरणानि कृच्छ्राप्तनिद्रो निशामनयत् । अपरेधुरपि तेनैव क्रमेणोद्यानमगमत् , तेनैव विधिना तत्र सर्वाः क्रियाश्चकार, तथैव तस्यागमनमीक्षमाणो दिवसमनयत् [र]। अकृतागतौ च तत्र क्रमादतिक्रामत्सु दिवसेषु शिथिलीभूततिलकमञ्जरीसमागमाशाबन्धस्य प्रबन्धविस्तारितोदग्रसंतापसंपद् यथोत्तरप्रथितदिवसायामदुस्तरो निरन्तरप्रवर्तितोष्णबाष्पसंततिरपर इव निदाघसमयो जजम्भे जनितनिर्भरव्यथस्तस्य दवथुः । अविरतं सस्मार सस्मरेण चेतसा चित्रपटपुत्रिकानुसारपरिकल्पितस्य चक्रसेनतनयातनुलतालावण्यस्य । सततमन्वचिन्तयच्चारुतामनुदिनोपचीयमानस्य तस्याः
टिप्पनकम्-विस्तारितोदग्रतापसम्पत् तापः-संताप उष्णं च, उष्णबाप्पः-नेत्रजलमुष्णोष्मा च, दवथुःउपतापः [ ल]।
अस्तशिखरम् अस्ताचलशिखरम् , अगात् गतवान् , अस्तमगादित्यर्थः [य]। च पुनः, दिवसकरधामनि सूर्यकिरणे, स्तोकावशेषे किञ्चिदवशिष्टे सति, पुनः दिग्भागेषु दिशामशेषु, श्यामायमानेषु श्यामतामापाद्यमानेषु, गन्धर्वकस्य, अनागमनेन आगमनाभावेन, किञ्चिन्मलानमुखकमलशोभः किञ्चिन्म्लाना-ईषन्मलिना, मुखरूपकमल स्य शोभा-कान्तिर्यस्य तादृशः, हरिवाहन इति शेषः, नभसः आकाशात् , दिवस इव दिनमिव, क्रीडाचलात् क्रीडापर्वतात, क्रमेण शनैः, अवततार अधस्तादाजगाम । च पुनः, स्ववासं स्ववासभवन, जगाम गतवान् । च पुनः, शयने शय्यायाम् , आसीन: उपविशन , आर्तेन व्यथितेन, चेतसा हृदयेन, तस्य गन्धर्वकस्य, विलम्बकारणानि आगमनविलम्बहेतून् , मुहर्त क्षणं, चिन्तयन् आलोचयन् , कृच्छ्राप्तनिद्रः कृच्छ्रेण- आयासेन, आप्ता-लब्धा, निद्रा येन तादृशः सन् , निशां रात्रिम् , अनयत् व्यतीतवान् । अपरेधुरपि उत्तरदिनेऽपि, तेनैव अनुपदोक्तेनैव, क्रमेण विधिना, उद्यानं क्रीडाकाननम् , अगमत् गतवान् , तत्र तस्मिन्नुद्याने, तेनैव अनुपदवर्णितेनैव, विधिना क्रमेण, सर्वाः समस्ताः, क्रियाः कर्माणि, चकार कृतवान् । तथैव अनुपदोक्तप्रकारेणैव, तस्य गन्धर्वकस्य, आगमनम् आगमनमार्गम् , ईक्षमाणः पश्यन् , दिवसं दिनम् , अनयत् व्यतीतवान् [र]। तत्र तस्मिन् गन्धर्वके, अकृतागतौ अकृतागमने सति, क्रमात् पर्यायेण, दिवसेषु दिनेषु, अतिकामत्सु व्यतिगच्छत्सु, शिथिलीभूततिलकमञ्जरीसमागमाशाबन्धस्य शिथिलीभूतः-शैथिल्यमापन्नः, तिलकमञ्जरीसमागमस्य-तत्सङ्गमस्य, या आशा-सम्भावना, तद्रूपः, बन्धः-प्राणबन्धनं यस्य तादृशस्य, तस्य हरिवाहनस्य, जनितनिर्भरव्यथः उत्पादितातिदुःखः, दवथुः संतापः गात्रादिदाहो वा, अपरः अन्यः, निदाघसमयः ग्रीष्मकाल इव, जज़म्मे प्रादुर्बभूव, कीदृशः प्रबन्धविस्तारितोदग्रसन्तापसम्पत् प्रबन्धेन-सान्द्रभावेन प्रकृष्टाधिना वा, विस्तारिता-वर्धिता, उदग्राणाम्-उत्पन्नानां, सन्तापानां-मदनोद्गमजन्यान्तवराणां, पक्षे बाह्योष्मणां, सम्पत्-समृद्धिर्यन तादृशः, पुनः यथोत्तरप्रथितदिवसायामदुस्तरः यथोत्तरम्-उत्तरोत्तरं, प्रथितेन-विस्तृतेन, दिवसायामेन-दिनदैर्येण प्रातिभासिकेन, पक्षे प्रास्तविकेन, दुस्तरः-दुरतिक्रमः, पुनःनिरन्तरप्रवर्तितोष्णबाष्पसन्ततिः निरन्तरम् -अविरतं, प्रवर्तिता-प्रादुर्भाविता, उष्णबाष्पसन्ततिःउष्णाश्रुजलप्रवाहः, पक्षे उष्णतापपरम्परा येन तादृशः, पुनः सस्मरेण स्मरः-कामः, तत्सहितेन, तदाविष्टेनेत्यर्थः, चेतसा हृदयेन, चित्रपटपुत्रिकानुसारपरिकल्पितस्य चित्रपटचित्रितकन्यकाप्रतिकृत्यनुगुणमुत्प्रेक्षितस्य, चक्रसेनतनयातनुलतालावण्यस्य चक्रसेनाख्यनृपकुमारिकाशरीरलतासौन्दर्यस्य, अविरतं निरन्तरं, सस्मार स्मृतवान् । पुनः अनुदिनोपचीयमानस्य अनुदिन-प्रतिदिनम् , उपचीयमानस्य-वर्धमानस्य, तस्याः तिलकमञ्जर्याः, प्रथमयौवनस्य नवतारुण्यस्य, चारुतां मनोहरताम् , अन्वचिन्तयत् आलोचितवान् । पुनः अनवेदनोच्छेदनायेव कामदेववेदनोत्कर्तनार्थमिव, यौवनोपचय परिमण्डलस्तनं यौवनोपचयेन-यौवनावस्थावृद्धया, परिमण्डलो वर्तुलाकारौ, स्तनौ यस्य तादृशं, तद्रूपं तस्याः-तिलकमञ्जर्याः, रूपम्-आकारं, सर्वदा सर्वकालं, हृदयगतं हृदयस्थितं यथा स्यात् तथा, अधत्त धृतवान् । पुनः आविष्कृतानेकभाव
"Aho Shrutgyanam"