________________
२७
तिलकमञ्जरी स्पर्शसंवेदनानन्दमन्दीकृतभुजपरिस्पन्दाभिरविरतस्यन्दमानहस्तारविन्दसंपादितान्तःप्रीतिभिः प्रसाधिकाभिरधिगात्रमतिचिरेण निर्वर्तितकुङ्कामोद्वर्तनक्रमः शिरसि घटितपाटलाकुसुमसारस्मेरमल्लिकामुकुलमुण्डमालो यथासन्नमुपनीतताम्बूलकुसुममालानुलेपनैः प्रणयिलोकैः सहारब्धविविधसंकथस्तस्थौ काञ्चिदपि वेलाम् । गते च विरलतां विलीनतापे तपनतेजसि तरलितस्तिलकमञ्जरीसंगमाभिलाषेण तत्काल समुपस्थितावधेर्गन्धर्वकस्यागमनमार्गमवलोकयितुमभ्यग्रवर्तिनः शिखाप्रचुम्बिताम्बरकोडमाक्रीडशैलस्य शिखरमारुरोह [म]।
___ तत्र चोर्ध्वस्थितः पुरस्तादवस्थितस्य प्रेयसोऽन्यतमभृत्यस्य प्रत्यंसमर्पिताङ्गभारो निवारितातपः त्र्यस्रीकृतातपत्रेण छत्रधारेण तत्काललब्धावसरैरवारितैः प्रतीहारलोकेन प्रविश्य पार्श्वतः स्थितैः प्रणयवाचालैरुद्यानपालैरावेद्यमानरामणीयकेषु लतामण्डपेषु तरुखण्डेषु सारणिस्रोतस्सु कृत्रिमनदीसेतुबन्धेषु केलिवापीकूलजलयात्रेषु चाभिनवकृतसंस्कारेष्वन्तरान्तरानिक्षिप्तचक्षुरीक्षमाणो दक्षिणाशां तावदास्त यावदस्तशिखर
www
उद्वर्तितवदनकरतलः उद्वर्तितं-विलेपनेन सुगन्धीकृतं, वदन-मुखं करतलं च येन तादृशः, पुनः प्रसाधिकाभिः अङ्गालङ्कारिकाभिः स्त्रीभिः, अधिगात्रं शरीरे, अतिचिरेण अतिदीर्घकालेन, निर्वर्तितकुङ्कुमोद्वर्तनक्रमः निर्वर्तितः-सम्पादितः, कुङ्कुमेन-कुङ्कुमद्रवेण, उद्धर्तनक्रमः-विलेपनविधिर्यस्य तादृशः, कीदृशीभिः? स्पर्शसंवेदनानन्दमन्दीकृतभुजपरिस्पन्दाभिः स्पर्शसंवेदनानन्देन-दरीरस्पर्शानुभवजन्यानन्देन, मन्दीकृतः-शिथिलीकृतः, भुजपरिस्पन्दः-बाहुसञ्चारो याभिस्तादृशीभिः, पुनः अविरतस्यन्दमानहस्तारविन्दसंपादितान्तःप्रीतिभिः अविरतं-सन्ततं, स्यन्दमानेन-खेदमानेन, हस्तारविन्देन-करकमलेन, जनिता-उत्पादिता, अन्तःप्रीतिः-तत्स्यन्दनसूचितमदनोद्गमेनान्तःप्रसादो याभिस्तादृशीभिः, पुनः कीदृशः ? शिरसि मस्तके, घटितपाटलाकुसुमसारस्मेरमल्लिकामुकुलमुण्डमालः घटिता-ताभिनिवेशिता, पाटलाकुसुमैः पाटलासंज्ञकलतापुष्पैः, साराणा-शबलवर्णानां, स्मेरमल्लिकामुकुलानां-किचिद्विकसितमल्लीकुड्मलानां, मुण्डमाला-शिरोमाला यस्य तादृशः, पुनः यथाऽऽसन्नं यथानिकटम् , उपनीतताम्बूलकुसुममाल्यानुलेपनैः उपनीतानि-उपस्थापितानि, ताम्बूलानि-सोपकरणानि नागवल्लीदलानि, कुसुममालाः-पुष्पमालाः, अनुलेपनानि-चन्दनादिविलेपनानि यैस्तादृशैः, प्रणयिलोकैः सुहृजनैः सह, आरब्धविविधसंकथः प्रवर्तितनानाप्रकारकालापः, काश्चिदपि कतिपयामपि, वेलां कालं, तस्थौ स्थितवान्।च पुनः, विलीनतापे निवृत्ततापे, तपनतेजसि सूर्यप्रभायां, विरलताम् अल्पता, गते प्राप्ते सति, तिलकमञ्जरीसङ्गमाभिलाषण तत्सम्मेलनकुतूहलेन, तरलितः चपलितः, तत्कालं तत्क्षणम् , समुपस्थितावधेः प्राप्तागमनावधेः, गन्धर्वकस्य तत्संज्ञकस्य प्रकृतविद्याधरकुमारस्य, आगमनमार्गम् , अवलोकयितुं द्रष्टुम् , अभ्यग्रवर्तिनः अभिमुखम् अग्रं यस्य तदभ्यग्रं-समीपं, तत्र स्थितस्य, आक्रीडशैलस्य उद्यानगिरेः, शिखाग्रचुम्बिताम्बरकोडं शिखाग्रेण-चूडाण, चुम्बितं-स्पृष्टम् , अम्बरकोडं-गगनमध्यं येन तादृशं, शिखरम् उपरिभागम् , आरुरोह आरूढ़वान् [म] | च पुनः, तत्र तस्मिन् शिखरे, ऊर्ध्वस्थितः उपरिस्थितः सन् , पुरस्तात् अग्रे, अवस्थितस्य वर्तमानस्य, प्रेयसः अतिप्रियस्य, अन्यतमभृत्यस्य बहूनां मध्ये एकस्य किङ्करस्य, प्रत्यंसं प्रतिस्कन्धप्रदेशम् , अर्पिताङ्गभारः आरोपितस्वशरीरभारः, पुन: व्यस्त्रीकृतातपत्रेण व्यस्रीकृतं-त्रिकोणीकृतम् , आतपत्रं-छत्रं येन तादृशेन, छत्रधारेण छत्रग्राहिणा, निवारितातपः निवारितः-निवर्तितः, आतपः- सूर्यतेजो यस्मात् तादृशः, पुनः तत्काललब्धावसरैः तस्मिन् काले प्राप्तावसरैः, पुनः प्रतीहारलोकेन द्वारपालजनेन, अवारितैः अनवरुद्धैः, पुनः प्रविश्य तत्सविधे प्रवेशं कृत्वा, पार्श्वतः पार्श्व, स्थितैः, पुनः प्रणयवाचालैः प्रणयेन-प्रीत्या, वाचालैः-कुत्सिताधिकवक्तृभिः, उद्यानपालैः उद्यानरक्षाधिकृतपुरुषैः, आवेद्यमानरामणीयकेषु वर्ण्यमानचारुताकेषु, पुनः अभिनवकृतसंस्कारेषु अचिरसंस्कृतेषु, पुनः लतामण्डपेषु लतापिहितोदरगृहेषु, पुनः तरुखण्डेषु वृक्षपङ्क्तिषु, पुनः सारणिस्रोतस्सु क्षुद्नदीप्रवाहेषु, पुनः कृत्रिमनदीसेतुबन्धेषु क्रियया खननात्मिकया, निर्वृत्ताः कृत्रिमाः, तादृशीनां नदीनां, सेतुबन्धेषु-सेतुसङ्घटनेषु, च पुनः केलिवापीकूलजलयन्त्रेषु क्रीडार्थवापीतटवर्तिजलोद्धाटनयन्त्रेषु, अन्तरा अन्तरा मध्ये मध्ये, निक्षिप्तचक्षुः प्रेरितदृष्टिः, दक्षिणाशां दक्षिणदिशं, तस्या दिशो गन्धर्वकागमनमार्गमित्यर्थः, ईक्षमाणः अवलोकमानः, तावत् तावत्कालपर्यन्तम् , आस्त उपविष्टवान् , यावत् यावत्कालम् , अशिशिरगभस्तिः अशिशिराः-उष्णाः, गभस्तयः-किरणा यस्य स सूर्यः,
"Aho Shrutgyanam"