________________
२६
टिप्पनक-परागविवृतिसंवलिता । संनिधानवर्तिभिश्चित्रविद्योपाध्यायैरन्यैश्च जनपरम्पराजनितकुतूहलैश्चित्रमवलोकयितुमागतैरालेख्यशास्त्रविद्भिनगरलोकैः सह विचारयन्नविचार्यचारुत्वतत्त्वं तस्याश्चित्रपटपुत्रिकाया रूपमपसारितापरविनोदः पूर्वाह्नमनयत [ब] । उपस्थिते च मध्याह्नसमये यथाविधि विसर्जितायातमान्यलोकः सखेदमुत्थाय चिरनिरोधमन्थरैश्चरणविन्यासैरितस्ततो बभ्राम। गत्वा च सुघटितसोपानसुगमावतारे सरसवानीरवीरुधि समासन्ननीरे पुरःसरैरागत्य किङ्करैः समन्ततो विस्तारितरुचिरपरिवस्त्रांशुके शुचिनि सारवे रोधसि, पुरोधसा संनिधापितप्राज्यपूजोपकरणः समाहितेनान्तःकरणेन कृत्वा देवतार्चनम् , उत्थाय गत्वा विविक्ततरमुद्देशं, समनन्तरमेव सत्वरमागतैर्माहानसिकपुरुषैरुपनीतमतिहृद्यवर्णगन्धरसमुत्कृष्टमूल्यसंपद्भिः सूपकारशास्त्रोपलब्धैर्यथावसरमुपकल्पितैरनल्पबहुभिर्नवैर्द्रव्यविशेषैरुपस्कृतानेकभक्ष्यलेह्यपेयप्रकारमास्वादयाञ्चकार परिवृतो राजपुत्रैरुपवने तत्रैवाहारम् [भ] । उपस्पृश्य चाघ्रातधूपधूमवर्तिरुद्वर्तितवदनकरतलः कुरङ्गमदकर्पूरामोदिना चन्दनद्रवेण
टिप्पनकम्-परिवस्त्रा-यवनिका [भ] । उपस्पृश्य आचम्य [ म] ।
चित्रविद्योपाध्यायैः चित्रशास्त्रशिक्षकैः, च पुनः, जनपरम्पराजनितकुतूहलैः जनपरम्परोद्भावितचित्रदिदृक्षोत्कषैः, चित्रम् , आलोकयितुं द्रष्टुम् , आगतैः उपस्थितैः, आलेख्यशास्त्रविद्भिः चित्रशास्त्राभिज्ञैः, अन्यैः चित्रविद्योपाध्यायव्यतिरिक्तैः, नगरलोकैः नगरवासिजनैः, सह अविचार्यचारुत्वतत्त्वम् अविचार्य-विस्पष्टत्वाद् विचारयितुं-विवेक्तुम् , अयोग्य, चारुत्वस्य-सौन्दयेस्य, तत्त्वं याथायेय स्मिंस्तादृशं, तस्याः, चित्रपटपत्रिकाया: चित्राधारपटगतपुत्तलिकायाः, रूपम आकृति, विचारयन् विशिष्य निरूपयन् , अपसारितापरविनोदः निवारितान्यविनोदः, पूर्वालम् अहः-दिनस्य पूर्वभागम् , अनयत् व्यतीतवान् [व] । च पुनः, मध्याह्नसमये दिनमध्यसमये, उपस्थिते प्राप्ते सति, यथाविधि विधानपुरस्सरं, सत्कारपूर्वकमित्यर्थः, विसर्जितायातमान्यलोकः विसर्जिताः-त्यक्ताः, आयाताः-आगताः, मान्याः-मानार्हाः, लोकाःजना येन तादृशः, सखेदं सक्लेशम् , उत्थाय आसनं त्यक्त्वा, चिरनिरोधमन्थरैः चिरनिरोधेन-दीघेकालं गमनावरोधेन मन्थरैः-मन्दभूतैः, चरणविन्यासैः पादविक्षेपैः, इतस्ततः अत्र तत्र, बभ्राम विचचार। च पुनः, सुघटितसोपान सुगमावतारे सुघटितेन-सम्यग्निवेशितेन, सोपानेन-अवतरणिकया, सुगमः-सुकरः, अवतारः-अधस्ताद्गमनं यस्मात् तादृशे, पुनः सरसवानीरवीरुधि सरसाः-अन्तःस्थरसाः, अशुष्का इत्यर्थः, वानीरवीरुधः-वञ्जललता यस्मिंस्तादृशे, पुनः समा- . सन्ननीरे समासन्न-सन्निकट, नीरं-जलं यस्य तादृशे, पुनः पुरस्सरैः अग्रेसरैः, किङ्करैः भृत्यैः, आगत्य, विस्तारितरुचिरपरिवस्त्रांशुके विस्तारित-प्रसारितं, रुचिरं-मनोज्ञं, परिवस्त्रांशुकं जवनिकारूपलक्षणसूक्ष्मवत्रं यस्मिंस्तादृशे, पुनः शुचिनि पवित्रे खच्छे वा, सारवे सरयूनदीसम्बन्धिनि, रोधसि तटे, गत्वा; पुरोधसा पुरोहितेन, सन्निधापितप्राज्यप्रजोपकरणः सन्निधापितानि-उपस्थापितानि, प्राज्यानि-प्रचुराणि, पूजोपकरणानि-पूजासामग्री यस्य तादृशः, समाहितेन एकाग्रीकृतेन, अन्तःकरणेन मनसा, देवतार्चनं देवाराधनं, कृत्वा; उत्थाय पूजाऽऽसनं त्यक्त्वा, विविक्ततरम् अतिनिर्जनम्, उद्देशं प्रदेश, गत्वा; समनन्तरमेव अव्यवहितोत्तरकालमेव, सत्वरं ससंभ्रमम् , आगतैः, माहानसिकपुरुषैः पाकालयीयपुरुषैः, उपनीतम् उपस्थापितम् , पुनः अतिहृद्यवर्णगन्धरससमुत्कृष्टमूल्यसम्पद्भिः अतिहृद्येन, वर्णेनरूपेण, गन्धेन-एलाकेशरादिसौरभण, रसेन-मधुराम्ललवणादिरसषट्केन, समुत्कृष्टा-अत्यन्तोत्कृष्टा, मूल्यसम्पत्-आदानाय देया धनसम्पत्तिर्येषां तादृशैः, सूपकारशास्त्रोपलब्धैः पाकशास्त्रावगतैः, यथावसरं यथाकालम, उपकल्पितैः स अनल्पबहुभिः अत्यन्ताधिकः, नवैः नवीनैः, द्रव्यविशेषैः संस्कारकद्रव्यैः, उपस्कृतानेकलेह्यपेयप्रकारम् उपस्कृताःसंस्कृताः, अनेके-बहवः, लेह्याः-आस्वादार्हाः, पेयाः-पानाश्चि, प्रकाराः-भेदा यस्मिंस्तादृशम् , आहारं भक्ष्य, तत्रैव तस्मिन्नेव, उपवने क्रीडावने, राजपुत्रैः नृपकुमारैः, परिवृतः परिवेष्टितः सन् , आस्वादयाञ्चकार भुक्तवान् [भ] । च पुनः, उपस्पृश्य जलस्पर्श कृत्वा, मुखहस्तं प्रक्षाल्येत्यर्थः, आघ्रातधपधमवर्तिः आघ्राता-घ्राणेन्द्रियगृहीता. धूपधूमा सम्बन्धिधूमशिखा येन तादृशः, पुनः कुरङ्गमदकर्पूरामोदिना कस्तूरिकाकर्पूरपरिमलविशिष्टेन, चन्दनद्रवेण चन्दनरसेन,
"Aho Shrutgyanam"