________________
तिलकमञ्जरी
मामिह स्थितम् , निर्वक्ष्यति वचनवृत्त्या स्वयं प्रतिपन्नमर्थम्, नेष्यति तदीक्षणगोचरप्रापणेन मत्प्रतिकृति कृतार्थताम् , कथयिष्यत्यतिशयेन मां गुणवन्तम् । सापि शशिमुखी तथेति प्रतिपत्स्यते तद्वचनम् , भविष्यति मदीयदर्शनाभिलाषिणी, प्रेषयिष्यति तमात्मानुरागप्रकटनाय मत्पार्श्वम्' इत्यनेकसंकल्पपर्याकुलचेतसः प्रबन्धवर्धमानारतेरनवरतमुक्तायतोष्णनिःश्वासस्य मुहुर्मुहुः पर्यङ्कपरिवर्तनैस्तरङ्गितोत्तरच्छदपटस्य प्रभातागमनपर्युत्सुकतया प्रदोषेऽपि नष्टनिद्रस्य निशीथेऽपि देवतार्चनाय परिचारकानुद्यमयतः शतयामेव कथमपि क्षपा विराममभजत [फ।
प्रभातायां च शर्वर्यामुत्थाय निर्वर्तितप्राहेतनावश्यकविधिः प्रतिपद्य सविशेषसंपादितशोभमभिनवं सर्वाङ्गीणमाकल्पमल्पपदातिबलपरिवृतस्तदेवोद्यानमगमत् । तत्र चातिबहलपादपच्छाये हंसपदपङ्किलाञ्छितस्वच्छसुकुमारसैकते संततापतत्कमलरेणुकषायशीतलमरुति मकरध्वजायतनदीर्घिकातीरपरिसरे निषण्णः
टिप्पनकम्-आकल्पः-वेषः । कषायः-सुरभिः [ब]।
शशिमुखी
नाभिलाषण, प्रेषयिष्या चेतः हृदयं यस
आगतपूर्वः, विद्याधरदारकः विद्याधरात्मजः एष्यति पुनरागमिष्यति परिचयं मया साकमालापजन्यसम्बन्धं, न विस्मरिष्यति स्मृतिपथात् प्रच्यावयिष्यति; पक्षपातं परिचयजन्यं मत्पक्षग्रहण, करिष्यति; इह अस्मिन् स्थाने, स्थितं, मां द्रक्ष्यति दृष्टिगोचरीकरिष्यतिः वचनवृत्त्या वाक्यप्रयोगेन, स्वयं खेन. प्रतिपन्नम स्वीकृतम. अर्थ विषयं. करिष्यति तदीक्षणगोचरप्रापणेन तस्याः-तिलकमञ्जर्याः, दृष्टिपथारोपणेन, मत्प्रतिकृति मदीयचित्रं, कृतार्थतां सफलतां, नेष्यति प्रापयिष्यति; माम् , अतिशयेन अत्यन्त, गुणवन्तं रूपलावण्यादिगुणशालिन, कथयिष्यति तां वक्ष्यति । शशिमुखी चन्द्रवदना, साऽपि तिलकमञ्जयपि, तद्वचनं तदीयं मद्गुणवर्णनवाक्यं, तथा सत्यम्, इति, प्रतिपत्स्यते विश्वसिष्यति; मदीयदर्शनाभिलाषिणी मद्दर्शनाकाङ्गिणी. भविष्यति सम्पत्स्यते; आत्मानुरागप्रकटनाय स्वप्रीतिप्रकाशनाय, मत्पार्श्व मन्निकट, तं गन्धर्वकं, प्रेषयिष्यति प्रस्थापयिष्यति। इत्यनेकसंकल्पपर्याकुलचेतसः इति-ईदृशैः, अनेकैः-बहुभिः, संकल्पैः-मनोव्यापारः, पर्याकुलं-व्याप्तं, चेतः-हृदयं यस्य तादृशस्य; पुनः प्रबन्धवर्धमानारतेः प्रबन्धेन-दृढ़बन्धन, प्रकृष्टाधिना वा, वर्धमाना-वृद्धिं गच्छन्ती, अरतिः-चित्तोद्वेगो यस्य तादृशस्य पुनः अनवरतमुक्तायतोष्णनिःश्वासस्य अनवरतं-निरन्तरं, मुक्तः-निर्गमितः, आयतः-दीर्घः, उष्णश्च, निश्वासः-नासिकापवनो येन तादृशस्यः पुनः मुहर्महः अनेकवारं, पर्यङ्कपरिवर्तनैः पर्यके-विशिष्टखट्टोपरि, पार्श्वपरिवर्तनैः, तरङ्गितोत्तरच्छदपटस्य तरङ्गितः-विलोलितः, उत्तरच्छदपट:पर्यकोपरितनास्तरणवस्त्रं यस्य तादृशस्य; पुनः प्रभातागमनपर्युत्सुकतया प्रातःकालोपस्थितिनितान्तोत्कण्ठया, प्रदोषेऽपि निशारम्भेऽपि, नष्टनिद्रस्य क्षीणनिद्राकस्य; निशीथेऽपि मध्यरात्रेऽपि, देवतार्चनाय देवाराधनाय, परिचारकान् सेवकान्, उद्यमयतः प्रवर्तयतः, हरिवाहनस्येति शेषः, शतयामेव शतं - यामा:-प्रहरा यस्यां तादृशीव, द्राधीयसीवेत्यर्थः, क्षपा त्रियामापि रात्रिः, कथमपि केनापि प्रकारेण, विरामम् अवसानम् , अभजत प्राप्तवती [फ]
__ च पुनः, शर्वर्या रात्रौ, प्रभातायां प्रभातावस्थामापन्नायाम् , उत्थाय शय्यामुत्सृज्य, निर्वर्तितप्रालेतनावश्यकविधिः निर्वर्तितः-सम्पादितः, प्राढेतनः-पूर्वाह्नसम्बन्धी, आवश्यकः-अवश्यकर्तव्यः, विधिः-क्रिया येन तादृशः सन् , सविशेषसम्पादितशोभं सविशेषम्-अत्यन्तं, सम्पादिता, शोभा-सौन्दर्य यस्य तादृशम् , अभिनवं नवीनं, सर्वाङ्गीणं सर्वाङ्गव्यापकम् , आकल्पं वेषरचनां अलङ्करणं वा, प्रतिपद्य स्वीकृत्य, अल्पपदातिबलपरिवृतः अल्पेन-कतिपयेन, पदातिनापादगामिना, बलेन-सैन्येन, परिवेष्टितः सन् , तदेव अधिष्ठितपूर्वमेव, उद्यानं क्रीडाकाननम् , अगमत् गतवान् । च पुनः, तत्र तस्मिन्नुद्याने, अतिबहलपादपच्छाये अतिबलम्-अत्यधिकं, पादपच्छायं-पादपानां-वृक्षाणां छाया यस्मिंस्तादृशे, पुनः हंसपदपतिलाञ्छितस्वच्छसुकुमारसैकते हंसपदपतिभिः-हंसपादाकारपरम्पराभिः, लाञ्छितं-चिह्नितं, खच्छम्-अतिशुभ्रम् , सुकुमार-कोमलं च, सैकतं-सिकतामयं स्थलं यस्मिंस्तादृशे, पुनः सन्ततापतत्कमलरेणुकषायशीतलमरुति सन्ततम्-अनवरतम् , आपतन्-सञ्चरन् , कमलरेणुभिः-कमलपरागैः, कषायः-सुरभिः, शीतलश्च, मरुत्-पवनो यस्मिंस्तादृशे, मकरध्वजायतनदीर्घिकापरिसरे कामदेवमन्दिरवापिकाप्रान्ते, निषण्णः उपविष्टः, सन्निधानवर्तिभिः निकटवर्तिभिः,
४ तिलक.
"Aho Shrutgyanam"