________________
टिप्पनक - परागविवृतिसंवलिता ।
परिणाहस्य विमृशति न देहनिःसारतायाः, हृदयवासिभिः सङ्गो दुःखहेतुरित्यलब्धविवरं तत्पयोधरद्वन्द्वमवधारयति न कलत्रपुत्रादिवर्गम् ; मध्यस्थां तन्नाभिमुद्रामभिनन्दति न भावनाम, मधुरं मुखे तदधरप्रवालं ध्यायति न भोगसौख्यम्, युगान्तविलुलितक्षीरसागरसमं तद क्षिविस्तारमुत्प्रेक्षते न संसारम्, आरोपितानङ्गचापभङ्गुरं तद्भूलताललितमध्येति न विधेर्विलसितम् [ न ] | अन्या अपि प्रकृष्टरूपलावण्यवत्यः प्राप्तयौवना दृष्टाः क्षितिपकन्याः, अन्यासामपि श्रुतस्तत्त्ववेदिभिरनेकधा निवेद्यमानो विलासक्रमः, न तु कयापि क्वाप्यपहृतं चेतो यथाऽनया । कथमिदानीमासितव्यम्, किं प्रतिपत्तव्यम्, केन विधिना विनोदनीयेयमनुदिनं प्रवर्धमाना तद्दर्शनोत्कठा, कस्यावेदनीयमिदमात्मीयं दुःखम्, केन सार्धमालोचनीयं कर्तव्यम्, कस्य क्रमि - ष्यते तदेशगमनोपायेषु बुद्धिः कस्य साहायकेन सेत्स्यति तया सह समागमप्राप्तिः [ प ] | अपि न दैवमनुगणं स्यादेष्यति स विद्याधरदारकः, न विस्मरिष्यति परिचयम्, करिष्यति पक्षपातम्, द्रक्ष्यति
२४
विचारयति, किन्तु रागिणः शृङ्गारिणः, प्राणिजातस्य प्राणिवर्गस्य, अधोगतिं नरकगमनं, न, आलोचयति; पुनः तद्गुरुपरिणाहस्य तस्याः-तिलकमञ्जर्याः, ऊरुपरिणाहस्य - जानूपरितनभागविस्तारस्य, कदलीस्तम्भतुल्यतां वृत्ताकारतया कदलीकाण्डोपमां, विमृशति विचारयति, किन्तु देहनिस्सारतायाः शरीरासारतायाः, तदनित्यताया इति यावत्, तत्तुल्यतां कदलीस्तम्भासारतासादृश्यं न विमृशति; पुनः हृदयवासिभिः वक्षःस्थलवर्तिभिः स्तनादिभिः, पक्षे मनोवर्तिभिः, कलत्रादिभिः सङ्गः सम्बन्धः, पक्षे प्रीतिः, दुःखहेतुः भारेण दुःखहेतुः, पक्षे वियोगजन्यक्लेशहेतु:, इति इत्थम्, अलब्धविवरं निश्छिद्रं परस्परं मिलितमिति यावत्, तत्पयोधरद्वन्द्वं तस्याः- तिलकमञ्जर्याः, कुचद्वयम् अवधारयति निश्चिनोति, किन्तु कलत्रपुत्रादिवर्ग भार्यापुत्रादिगणं, तथात्वेन न निश्चिनोति; पुनः मध्यस्थां शरीरमध्यवर्तिनीं, तन्नाभिमुद्रां तस्याः -- तिलकमञ्जर्याः, नाभिमण्डलम् अभिनन्दयति प्रशंसति, किन्तु मध्यस्थां हृदयस्थां, भावनां कामिनीसङ्गवर्जनवासनां यद्वा रागद्वेषपरिहाररूपमाध्यस्थ्ययुक्तविचारणाम्, न अभिनन्दयति; पुनः तद्धरप्रवालं तस्याः - तिलकम अर्याः, ओष्ठ विद्रुमं, विद्रुमवदरुण मोष्टमित्यर्थः, मुखे मुखमध्ये, मधुरं मधुरत्वेन, ध्यायति आलोचयति, किन्तु भोगसौख्यं कामिनीविलाससुखं; मुखे आरम्भ एव, न तु परिणतावित्यर्थः, मधुरं प्रियं, यद्वा प्रान्ते विरसतया दुःखहेतुतया च मधुरमिव- विषमिव न ध्यायतिः पुनः तदक्षिविस्तारं तस्याः - तिलकमञ्जर्याः, नेत्रविस्तारं युगान्तविलुलितक्षीरसागरसमं युगान्ते - प्रलयकाले, विलुलितः - परितस्तरङ्गितः, यः क्षीरसागरः, तत्समं-तरङ्गायमाणधवलिमा कूलतया विस्तारेण च क्षीरसमुद्रसदृशम्, उत्प्रेक्षते सम्भावयतिः, किन्तु संसारं जगत्, , तत्समं - तादृशसागरवदल्पकालिकत्वेन दृष्टपर्यन्तत्वेनातिचञ्चलत्वेन, न उत्प्रेक्षते; पुनः तद्ब्रूलताललितं तस्याः - तिलकमञ्जर्याः, भ्रूलताविलसितं-लताकारनेत्रोपरितनरोमलेखाविलसितम् आरोपितानङ्गचापभङ्गुरम् आरोपितः - मौर्वी मधिरोपितः, आकृष्ट इति यावत् यः, अनङ्गचापः कामदेवधनुः, तद्वत् भङ्गुरम्-अस्थिरम्, अध्येति ध्यायति, किन्तु विधेः दैवस्य, विलसितं चेष्टितं, तादृशत्वेन वक्रत्वेनेत्यर्थः, न अध्येतिः अत्र सर्वत्र क्रियासु कर्तृत्वेनात्माऽन्वेति [ न ] | प्रकृष्टरूपलावण्यवत्यः उत्कृष्टाकृति सौन्दर्यक्त्यः, प्राप्तयौवनाः तारुण्यापन्नाः, अन्या अपि तिलकमञ्जरीव्यतिरिक्ता अपि, क्षितिकन्याः नृपकुमारिकाः, दृष्टाः दृष्टिगोचरीकृताः; अन्यासामपि तद्भिन्नानामपि, कन्यकानां विलासक्रमः विलासरीतिः, तत्त्ववेदिभिः यथार्थज्ञैः, निवेद्यमानः विज्ञाप्यमानः सन्, वर्ण्यमानः सन्निति यावत्, अनेकधा अनेकवारं श्रुतः श्रवणगोचरीकृतः; तु किन्तु, यथा येन प्रकारेण, अनया मनोगतया तिलकमञ्जर्या, चेतः मनः, अपहृतम् आकृष्टं, तथा तेन प्रकारेण, कयापि राजकुमारिकया, क्वापि कुत्रापि स्थाने, न अपहृतम् । इदानीम् अधुना, कथं केन प्रकारेण, आसितव्यम् उपवेष्टव्यम्; किं कार्यं, प्रतिपत्तव्यं कर्तव्याकर्तव्यतया निरूपयितव्यम्; अनुदिनं प्रतिदिनं, प्रवर्धमाना प्रसरन्ती, इयं वर्तमाना, तद्दर्शनोत्कण्ठा तिलकमञ्जरीदर्शनलालसा, केन विधिना प्रकारेण, विनोदनीया निवर्तनीया; इदम् अनुभूयमानम्, आत्मीयं स्वकीयं दुःखं, कस्य के प्रति, आवेदनीयं प्रकटनीयम्; कर्तव्यं कर्तुमुचितं कर्म, केन सार्धं सह, आलोचनीयं विवेचनीयं; तद्देशगमनोपायेषु तस्याः - तिलकमञ्जर्याः, देशः- स्थानं, तत्र गमनसाधनेषु तदालोचनेष्वित्यर्थः कस्य बुद्धिः प्रज्ञा, क्रमिष्यते प्रसरिष्यति तया तिलकमञ्जर्या, सह, समागमप्राप्तिः सङ्गमसौभाग्यलाभः कस्य साहायकेन साहाय्येन, सेत्स्यति सम्पत्स्यते [प]। नामेति वाक्यालङ्कारे, अपि यदि, दैवं विधिः, अनुगुणम् अनुकूलं स्यात् तर्हि सः
"Aho Shrutgyanam"