________________
तिलकमञ्जरी गाहमानामुदधिरोधोवनेषु स्वेच्छया संचरन्ती श्रवणागतस्य प्रेयसो विद्याधरराजकन्याजनस्य सरहस्यमखिलं कलाकलापमुपदिशन्ती तामन्वहं पश्यति । अधन्यः खेचरगणो यः प्रकाममनुरक्तोऽपि दूरवर्ती तदृष्टिपातामृतरसस्य रूपमात्रदर्शनतरलितो वृथैव मन्मथव्यथामहमिवोद्वहति [द ] । अहो मे मूढता, यदसावायतेक्षणा भूमिगोचरनृपाधिपात्मजप्रणयिनी भविष्यतीति वार्तयापि श्रुतया हर्षमुद्वहामि । सत्स्वपि रूपलावण्ययौवनशालिष्वपरेषु भूपालदारकेषु कालान्तरभुवस्तदनुरागस्यात्मानमेव लक्ष्यीकरोमि; काऽहं क सा ?, क भूमिगोचरस्य निकेतनं साकेतनगरं क दिव्यसङ्गसमुचिताचलप्रस्थसंस्थं रथनूपुरचक्रवालम् ? । अपिच विवेकिना विचारणीयं वस्तुतत्त्वम् , नोज्झितव्यो निजावष्टम्भः, स्तम्भनीयं मनः प्रसरदपथे, न देयमग्रणीत्वमिन्द्रियगणस्येत्यपि न गणयामि [ध] । असौ पुनरपरा विडम्बना-यदयमात्मा मदनदाहोपशमाय प्रशममार्गमवतारितोऽप्यधोगति रागिणस्तदनियुगलस्यालोचयति न प्राणिजातस्य, कदलीस्तम्भतुल्यतां तदूरु
टिप्पनकम्-अधोगतिम् अधस्तात् स्थिति नरकगमनं च । कदली-रम्भा । हृदयवासिभिः हृदयं-चित्तं वक्षश्च, अलब्धविवरं निश्छिद्रम् । मध्यस्थां मध्यस्थां मध्यस्थं रूपं च। मुखे वक्त्रे प्रारम्भे च। क्षीरसागरसम धवलं चञ्चलमतिचञ्चलं वा [न]।
वर्ती तन्निकटवर्ती सन् , तां तिलकमञ्जरीम् , अन्वहं प्रतिदिनं, पश्यति साक्षात् करोति, कीदृशीम् ? स्वास्थानभवनस्थितां खसभामण्डपनिषण्णाम् पुनः विमाननिवहेन आकाशयानसमूहेन, गगनम् आकाशं, गाहमानाम् आरोहन्तीम् , पुनः उदधिरोधोवनेषु समुद्रतटवर्तिवनेषु, स्वेच्छया यथेच्छं, सञ्चरन्तीं विहरन्तीम् , पुनः श्रवणागतस्य श्रोतुमुपस्थितस्य, प्रेयसः प्रियतमस्य, विद्याधरराजकन्यकाजनस्य विद्याधरेन्द्रकुमारिकाजनस्य, सरहस्यं रहस्येन-गूढतत्त्वेन सहितम् , अखिलं समग्रं, कलाकलापं शिल्पसमूहम् ; उपदिशन्तीं शिक्षयन्तीम्। खेचरगणः आकाशगामिजनविशेषगणः, अधन्यः अश्लाघ्यः, अस्तीति शेषः, यः, अहमिव, प्रकामम् अत्यन्तम् , अनुरक्तोऽपि तदनुरागवानपि, तल्लोलुपोऽपीत्यर्थः, तदृष्टि
तरसस्य तदीयदृष्टिसञ्चाररूपामृतस्यन्दस्य, दरवर्ती दूरे स्थितः, रूपमात्रदर्शनतरलितः रूपमात्रस्य-आकारमात्रस्य, पक्षे प्रतिकृतिमात्रस्य, दर्शनेन, तरलितः-व्याकुलितः सन् , वृथैव व्यर्थमेव, मन्मथव्यथां कामदेववेदनाम् , उद्वहति अनुभवति [द]। मे मम, मूढता मूर्खता, अहो खेदावहा, यत् यतः, असौ प्रकृता, आयतेक्षणा दीर्धनयना, भूमिगोचरनृपाधिपात्मजप्रणयिनी भूमिवासिनृपेन्द्रकुमारपत्नी, भविष्यति सम्पत्स्यते, इति अनया, वार्तया वृत्तान्तेन श्रुतयापि श्रवणगोचरीकृतयापि, हर्षम् आनन्दम् , उद्वहामि प्रामोमि। पुनः रूपलावण्ययौवनशालिषु आकारसौन्दर्ययुवत्वशोभिषु, अपरेषु अन्येषु, भूपालदारकेषु नृपकुमारेषु, सत्स्वपि विद्यमानेष्वपि, आत्मानमेव खमेव, कालान्तरभुवः उत्तरकालभाविनः, तदनुरागस्य तस्नेहस्य, लक्ष्यीकरोमि लक्ष्यत्वेन प्रत्येमि। अहं क कुत्र, सा तिलकमञ्जरी, व कुत्र, आक्योर्महदन्तरमित्यर्थः । भूमिगोचरस्य भूमिवासिनः, निकेतनं निवासस्थानं, साकेतनगरम् अयोध्याख्यनगर, क्व कुत्र, पुनः दिव्यसङ्गसमुचिताचलप्रस्थसंस्थं दिव्यसङ्गस्य-दिवि-स्वर्गे भवा दिव्या देवाः, तत्सङ्गस्य, समुचितः-योग्यो यः, अचल:-पर्वतः, तस्य प्रस्थे-समभूमिभागे, संस्था-अवस्थितिर्यस्य तादृशं, रथनपुरचक्रवालं तदाख्यनगर, व कुत्र, तयोस्तन्निवासास्पदयोरपि महत्तारतम्यमित्यर्थः । अपिच किञ्च, विवेकिना तत्त्वातत्त्वविवेचनशालिना, वस्तुतत्त्वं वस्तुनो याथार्थ्य, विचारणीयम् आलोचनीयम् , पुनः निजावष्टम्भः स्वकीयमर्यादा, न, उज्झितव्यः अतिक्रमणीयः, यद्वा स्वमानं न त्यजनीयमित्यर्थः, पुनः अपथे उन्मार्गे, प्रसरत् प्रवर्तमानं, मनः, स्तम्भनीयं निरोधनीयम् , पुनः इन्द्रियगणस्य इन्द्रियवर्गस्य, अग्रणीत्वं मुख्यत्वं, न, देयं विधेयम् , इत्यपि एतदपि, न, गणयामि आद्रिये [ध]। पुनः असौ वक्ष्यमाणा, विडम्बना वैगुण्यम् , कष्टमित्यर्थः, अपरा अन्या, वर्तत इति शेषः, यत् यस्मात् , अयं मदीयः, आत्मा, मदनदाहोपशमाय कामाग्निदाहशान्तये, प्रशममार्ग तन्निवृत्तिमार्गम् , अवतारितोऽपि आरोपितोऽपि, रागिणः रक्तस्य, तदङ्कियुगलस्य तिलकमञ्जरीचरणद्वयस्य, अधोगतिम् अधस्ताद् गमनम् , निधुवनकेलौ अधःस्थितिमिति यावत् , आलोचयति
"Aho Shrutgyanam"