________________
२२
टिप्पनक-परागविवृतिसंवलिता। दूरमपसारितो निःसारताप्रवादो निजः संसारेण, प्राप्तमवधिमवलारूपकल्पनाशिल्पवैदग्ध्यं विधेः, स्तम्भितो रम्भादिसुरविलासिनीवर्गस्य सौभाग्यगर्वः, निवृत्ता लावण्यगुणगणगणना रतेः, प्रवृत्तः सप्तलोकीलोकलोचनानामचिन्तितो महोत्सवः, प्रकटितः प्रलयकालविप्लवः क्षुभितेन सर्वतो रागजलराशिना शृङ्गारिजनस्य, भ्रान्ता चतुर्दशस्वपि भवनेषु भगवतो मकरकेतनस्याज्ञा [त]। न जाने-कस्य सुकृतकर्मणः सत्वरपलायमानतिमिरमार्गप्रधावितशशिप्रभाप्रवाहधवला पतिष्यति वपुषि तरलायता तस्याः कटाक्षदृष्टिः ?, कस्य सञ्चिताकुण्ठतपसः कण्ठकाण्डे करिष्यति पतिष्यन्त्यास्तद्भुजलतायाःप्रथमसूत्रपातमम्लानमालतीकुसुमकोमला स्वयंवरस्रक ?, कः सुजन्मा जन्मफलभूतानि प्रस्थितः सह तया राजपथवर्तिनः सरागं पुरजनस्य श्रोष्यति श्रुतिसुखानि प्रशंसावचनानि ?, कस्त्रिभुवनश्लाघ्यचरितस्तदध्यासितमधिष्ठितो गजस्कन्धपीठमाकण्ठमुत्तानिततरलतारैः पीयमानवदनलावण्यो नगरनारीलोचनैरवतरिष्यति विवाहमण्डपे वेदिबन्धम् ?, कस्य कन्दर्पबान्धवस्य तत्क्षणाबद्धकम्पस्विन्नसरलाङ्गुलौ तदीयकरपल्लवे लगिष्यति श्लाघ्यशतपत्रशङ्खातपत्रलक्षणो दक्षिणपाणिः [थ]। पुण्यकारी तत्परिजनो यः सर्वदा सविधवर्ती स्वास्थानभवनस्थितां विमाननिवहेन गगनं
प्राप्तः; पुनः संसारेण जगता, निजः खकीयः, निस्सारताप्रवादः असारताप्रसिद्धिः, दूरम् , अपसारितः त्यक्तः; पुनः विधेः विधातुः, अबलारूपकल्पनाशिल्पवैदग्ध्यं स्त्रीरूपसृष्टिकलाकौशलम् , अवधिं सीमानं प्राप्तम् ; पुनः रम्भादिसुरविलासिनीवर्गस्य रम्भाप्रभृतिदेवाङ्गनागणस्य, सौभाग्यगर्वः सौन्दर्याभिमान; स्तम्भितः प्रतिहतः; पुनः रतेः कामदेवप्रियायाः, लावण्यगुणगणगणना सौन्दर्यात्मकगुणराशिसंख्यानं, निवृत्ता विरता; पुनः सप्तलोकीलोकलोचनानां सप्तोर्श्वभुवनवर्तिजननेत्राणां, महोत्सवः तदवलोकनपरमोत्सवः, प्रवृत्तः प्रादुर्भूतः; पुनः सर्वतः समन्ततः, क्षुभितेन संस्यन्दितेन, शृङ्गारिजनस्य शृङ्गाररसिकजनस्य, रागजलराशिना शृङ्गाररससिन्धुना, प्रलयकालविप्लवः कल्पान्तकालिकोपद्रवः, उन्मर्यादस्यन्दनमित्यर्थः, प्रकटितः प्रदर्शितः; पुनः चतुर्दशस्वपि चतुर्दशसंख्यकेष्वपि, भुवनेषु लोकेषु, भगवतः परमैश्वर्यशालिनः, मकरकेतनस्य कामदेवस्य, आज्ञा विलासादेशः, भ्रान्ता प्रसृता [त]। न जाने न निर्णेतुं पारयामि, तस्याः तिलकमञ्जर्याः, तरलायता चञ्चला दीर्घा च, पुनः सत्वरपलायमानतिमिरमार्गप्रधावितशशिप्रभाप्रवाहधवला सत्वरं-शीघ्रं, पलायमानानाम्-अपसरतां, तिमिराणाम्-अन्धकाराणां मार्गे, प्रधावितः-शीघ्र गमितः, शशिप्रभाप्रवाह इव चन्द्रकान्तिधारेव, धवला-निर्मला, कटाक्षदृष्टिः कटाक्षपूर्णदृष्टिः, सुकृतकर्मणः पुण्यकर्मणः, कस्य, वपुषि शरीरे, पति- । ष्यति सञ्चरिष्यति; पुनः अम्लानमालतीकुसुमकोमला अभिनवमालयाख्यपुष्पकोमला, स्वयंवरत्रक स्वयंपतिवरणार्थमाला, कस्य, सश्चिताकुण्ठतपसः संगृहीतसफलतपस्याकस्य, नृपकुमारस्य, कण्ठकाण्डे कण्डनाले, पतिष्यन्त्याः लम्बिष्यमाणायाः, तद्धजलतायाः तिलकमञ्जरीबाहुलतायाः, प्रथमसूत्रपातं प्रथमप्रवृत्ति, करिष्यति जनयिष्यति; पुनः कः सुजन्मा सफलजन्मा, तया तिलकमार्या पल्या सह, प्रस्थितः प्रयातः सन् , जन्मफलभूतानि जन्मफलरूपाणि, श्रतिसुखावहानि कर्णानन्दजनकानि, राजपथवर्तिनः राजमार्गवर्तिनः, पुरजनस्य पुरवासिजनस्य, प्रशंसावचनानि तद्दाम्पत्याभिनन्दनवाक्यानि, सरागं सस्नेह,श्रोष्यति श्रवणगोचरीकरिष्यति; पुनः कः त्रिभुवनश्लाघ्यचरितः भुवनत्रयाभिनन्दनीयचरितः, तदध्यासितं तया-तिलकमञ्जर्या, अधिष्ठितं, गजस्कन्धपीठ हस्तिस्कन्धरूपमासनम् , आकण्ठं कण्ठमभिव्याप्य, अधिष्ठितः अध्यासितः सन् , उत्तानिततरलतारैः उन्नमितचपलकनीनिकैः, नगरनारीलोचनैः नगरस्थवधूनयनैः, पीयमानवदनलावण्यः सस्नेहावलोक्यमानमुखसौन्दर्यः, विवाहमण्डपे विवाहालये, वेदिबन्धं वेद्याख्यबद्धभूमिम् , अवतरिष्यति अधस्तादागमिष्यति; कस्य कन्दर्पबान्धवस्य कामदेवसमसुन्दरस्य, श्लाघ्यशतपत्रशङ्खातपत्रलक्षणः श्लाघ्यानि-प्रशंसनीयानि, शतपत्रं-कमलं, शङ्ख:-प्रसिद्धः, आतपत्रं-छत्रं, तद्रूपाणि लक्षणानि-भाग्यचिह्नानि यस्मिंस्तादृशः, दक्षिणपाणिः दक्षिणहस्तः, तत्क्षणाबद्धकम्पखिन्नसरलाङ्गुलौ तत्क्षणाबद्धेन-तत्कालप्राप्तेन कम्पेन-सात्त्विककामविकारभूतेन, खिन्नाः-खेदााः , सरलाः-ऋजवः, अङ्गुलयो यस्मिंस्तादृशे, तदीयकरपल्लवे तिलकमञ्जरीपल्लवकोमलकरे, लगिष्यति संगस्यते [थ]। तत्परिजन: तिलकमञ्जरीपरिवारः, पुण्यकारी पुण्यकर्मा, अस्तीति शेषः, यः सर्वदा सर्वकाले, सविध
"Aho Shrutgyanam"