________________
तिलकमञ्जरी
नामपि पतङ्गकुलानामप्लोषणेन जनितमुग्धवनिताविस्मयैरकज्जलै लद्भिर्माणिक्यदीपैः समन्तादुत्सारिततमोवितानं वितानकावलम्बिभिरविरलैर्मल्लिकामुकुलदामभिस्तुहिनकरमयूखैरिव शैत्यमादातुमन्तःप्रविष्टैर्जटाली. कृतसकलक्षणमभीक्ष्णमापतता परिमलाकृष्टषट्पदकुलेन पर्यन्तोद्यानमारुतेन विस्तारितगवाक्षविन्यस्तमणिभाजनविलेपनामोदं वासभवनं विवेश [6]।
तस्य चैकदेशे निवेशितमायत विशालं हंसविशदप्रच्छदपटाच्छादितमच्छजललवस्राविणा सुधाधवलेन जाह्नवीपुलिनमिव फेनपुञ्जेन जनितसांनिध्यं निद्राकलशेन शयनमध्यासीनः शयनसंनिहितासनासीनाभिनुवेलमाईण चन्दनद्रवेण सान्द्रीकृतकरपल्लवस्पर्शशैत्या भिरिवनिताभिः संवाह्यमानचरणपल्लवस्तत्कालमव्याकुलेन चेतसा संस्मृत्य गन्धर्वकालापमुपजातविस्मयश्चिन्तितवान्-'अहो काप्यद्भुता तस्याश्चक्रसेनदुहितुः शरीरावयवशोभासंपत्तिर्यस्मात् त्रिभुवनातिशायिरूपापि तत्प्रतिकृतिरियं चित्रपटगता रूपलव इति निवेदिता तेन विद्याधरदारकेण [ण]। यदि च सत्यमेव तस्यास्त्रस्तमृगदृशस्तादृशं रूपं ततो जितं जगति विद्याधरजात्या,
वनितानां-वधूनां, विस्मयः-आश्चर्य यैस्तादृशैः, केन हेतुना ? अनिलसम्पातेऽपि पवनसञ्चारेऽपि, स्थैर्येण निश्चलत्वेन, पुनः शिखायपातिनामपि शिखोपरिसञ्चारिणामपि, पतङ्गकुलानां शलभगणानाम् , अप्लोषणेन अदाहेन; पुनः वितानकावलम्बिभिः उल्लोचाधोऽवनमद्भिः, अविरलैः सान्द्रः, मल्लिकामुकुलदामभिः मल्लिकाख्यकुसुमकोरकमाल्यैः, जटालीकृतसकलक्षणं जटालीकृताः-व्याप्ताः, सकलाः-समस्ताः, क्षणाः-अवसरा मध्यभागा वा यस्मिंस्तादृशम् , कैरिव ? शैत्यं विलक्षणशीतलताम् , आदातुं ग्रहीतुम् , अन्तः अभ्यन्तरे, प्रविष्टैः कृतप्रवेशैः, तुहिनकरमयूखैरिव तुहिनाःशीताः; कराः-किरणा यस्य स तुहिनकरः-चन्द्रः, तस्य मयूखः-किरणैरिवेत्युत्प्रेक्षा; पुनः पर्यन्तोद्यानमारुतेन प्रान्तवर्तिक्रीडाकाननपवनेन, विस्तारितगवाक्षविन्यस्तमणिभाजनविलेपनामोदं विस्तारितः-इतस्ततः प्रसारितो वर्धितो वा गवाक्षविन्यस्तानां-वातायननिवेशितानां, मणिभाजनानां-मणिमयपात्राणां, विलेपनामोदः-विलेपनोत्कटपरिमलो यस्मिंस्तादृशम् , कीशेन ? अभीक्ष्णम् अनवरतम् , आपतता आगच्छता, पुनः परिमलाकृष्टषट्पदकुलेन परिमलाकृष्टं-परिमलेन-सौरभेण, आकृष्ट-हठादानीतं, षट्पदकुलं-भ्रमरराशियस्मिन् येन वा तादृशेन [ढ]।
च पुनः, तस्य वासभवनस्य, एकदेशे एकभागे, निवेशितं स्थापितम् , पुनः आयतविशालं दीर्घबृहदाकारम् , पुनः, हंसविशदप्रच्छदपटाच्छादितं हंसविशदेन-हंससदृशशुभ्रेग, प्रच्छदपटेन-आस्तरणवस्त्रेण, आच्छादितम्-आस्तीर्णम् , पुनः अच्छजललवस्राविणा विमलजलबिन्दुस्यन्दिना, सुधाधवलेन चूर्णद्रवशुभ्रेण, यद्वा अमृतसदृशस्वच्छेन, निद्राकलशेन निद्रोपयोगिघटेन, फेनपुञ्जन फेनराशिना, जाह्नवीपुलिनमिव गङ्गासम्बन्धिजलोद्गतस्थलमिव, कृतसान्निध्यं प्रत्यासन्नं, शयनं शय्याम् , अध्यासीनः अधितिष्ठन् ; पुनः वारवनिताभिः वेश्याभिः, संवाह्यमानचरणपल्लव: संवाह्यमानौ-सेव्यमानौ, चरणपल्लवौ-पल्लवोपमपादौ यस्य तादृशः, कीदृशीभिः ? शयनसन्निहितासनासीनाभिः शय्यासमासन्नासनोपविष्टाभिः, पुनः अनुवेलं प्रतिक्षणम् , आईण सरसेन, चन्दनद्रवेण चन्दनपङ्केन, सान्द्रीकृतकरपल्लवस्पर्शशैत्याभिः सान्द्रीकृतं-विस्तारितं, करपल्लवस्पर्शजन्यं शैत्यं याभिस्तादृशीभिः, तत्कालं तत्क्षणं, गन्धर्वकालापं गन्धर्वकाख्यप्रकृतबालकाभाषणम् , अव्याकुलेन शान्तेन, चेतसा हृदयेन, संस्मृत्य सम्यक ध्यात्वा, उपजातविस्मयः उद्भूताश्चर्यः सन् , चिन्तितवान् आलोचितवान् , किमित्याह-अहो आश्चर्य, तस्याः प्रकृतायाः, चक्रसेनदुहितुः चक्रसेनाख्यविद्याधरेन्द्रकुमारिकायाः, तिलकमञ्जर्या इति यावत्, कापि अदृष्टिगोचरा, शरीरावयवशोभासम्पत्तिः शरीरावयवसौन्दर्यसमृद्धिः, अद्भूता विस्मयावहा, वर्तत इति शेषः, यस्मात् यद्धेतोः, त्रिभुवनातिशायिरूपापि भुवनत्रयोत्कृष्टसौन्दर्यापि, चित्रपटगता चित्रपटस्थिता, इयं तत्प्रतिकृतिः तत्प्रतिबिम्ब, तेन प्रकृतेन, विद्याधरदारकेण विद्याधरबालफेन, गन्धर्वकेणेत्यर्थः, रूपलव इति सौन्दर्यलेश इति, निवेदिता बोधिता [ण] । यदि च यदि तु, त्रस्तमृगदृशः त्रस्तः-भीतो यो मृगः, तस्येव दृक्-दृष्टिः-चञ्चललोचनं यस्यास्तादृश्याः, तस्याः तिलकमञ्जर्याः, तादृशम् उक्तप्रकारकं, रूपं सौन्दर्य, सत्यमेव यथाश्रुतमेव, अस्तीति शेषः, ततः तर्हि, जगति लोके, विद्याधरजात्या विद्याधरवर्गेण, जितं सर्वोत्कर्षः
"Aho Shrutgyanam"