________________
टिप्पनक-परागविवृतिसंवलिता । सत्वरं प्रधावता निजगृहेभ्यो गृहीतासिकुन्तकार्मुकेण पदातिसार्थेन सनाथीकृतपुरोभागः पवनविलुलितपुलकाकारस्थूलचूलानामशेषतः प्रज्वलन्तीनां दीपिकानां कनकरेणुकपिलेन प्रसर्पता निरन्तरमालोकेन समुपजातबालातपसमागममिव राजमार्गतिमिरमुपदर्शयन्नाजगाम राजकुलम् [ड]। अवतीर्य च द्वारि संभ्रान्तदौवारिककृतप्रणामः प्रविश्य परिवृतः प्रणयिना राजपुत्रलोकेन विलोक्य प्रदोषास्थानमण्डपावस्थितं पितरमुपास्य सविनयमास्यनिहितनिभृतेक्षणो मुहूर्तमुत्थाय गत्वाभ्यन्तरं प्रणम्य दूरानतेन शिरसा प्रतिदिनमेव दर्शनाभिलाषिणी जननीमागत्य निजमन्दिरं द्वारादेव विसर्जितानुयायिसेवकजनस्तत्कालविरलपरिजनप्रचारमप्रमत्ताप्तशस्त्रिपुरुषशतपरिक्षिप्तमाहतैररक्षिभिर्निरीक्ष्य सम्यक्प्रवेश्यमानतत्कालसेवोपयुक्तकथकगाथकप्रायलोकमस्तोकचन्दनच्छटोपसिक्तमसृणमणिकुट्टिममविरलप्रकीर्णविकचकुमुदेन्दीवरदलोपहारं समारब्धशिशिरोपचारैश्चतुरपरिचारकैः सत्वरमपसारितान्तर्बलत्प्रदीपनिवहमनिलसंपातेऽपि स्थैर्येण शिखायपाति
घण्टारवश्रवणेन-घण्टानादश्रवणेन, गत्वरेण-गमनप्रवृत्तेन, सत्वरं ससम्भ्रम, निजगृहेभ्यः प्रधावता प्रकर्षण धावता, पुनः गृहीतासिकुन्तकार्मुकेण धृतखगप्रासधनुष्केण, पदातिसार्थेन पादगामिवर्गण, सनाथीकृतपुरोभागः सरक्षकीकृताग्रभागः, राजकुलं राजमन्दिरम् , आजगाम आगतः, किं कुर्वन् ? पवनविलुलितपुलकाकारस्थूलचूलानां वायुव्याधूतरोमाञ्चाकारस्थूलशिखानाम् , अशेषतः साकल्येन, प्रज्वलन्तीनां दीप्यमानानां, दीपिकानां, तत्सम्बन्धिना कनकरेणुकपिलेन सुवर्णधूलिपीतवर्णेन, निरन्तरं निर्विच्छेई, प्रसर्पता प्रसरता, आलोकेन प्रकाशेन, राजमार्गतिमिरं राजमार्गस्थमन्धकार, समुपजातबालातपसमागममिव समुपजातः-समुत्पन्नः, बालातपस्य-अपरिणतदिनकरालोकस्य, समागमः-सम्पर्को यस्मिंस्तादृशमिव, दर्शयन् दृष्टिगोचरतामापादयन् [ड]। च पुनः, द्वारि द्वारदेशे, अवतीर्य आगत्य, सम्भ्रान्तदोवारिककृतप्रणामः सम्भ्रान्तैः-सत्वरैः, दौवारिकैः-द्वारपालैः, कृतप्रणामः-कृताभिवादनः, प्रविश्य प्रवेशं कृत्वा, पुनः प्रणयिना स्नेहास्पदेन, राजपुत्रलोकेन युवराजजनेन, परिवृतः परिवेष्टितः सन् , पितरं जनकं, मेघवाहनमिति यावत् , प्रदोषास्थानमण्डपावस्थितं प्रदोषकालिकसभाभवनावस्थितं, विलोक्य दृष्ट्वा, सविनयं सनम्रभावम् , उपास्य आराध्य, मुहूर्त क्षणम् , आस्यनिहितनिभृतेक्षणः आस्ये-मुखे, न त्वन्यविषय इत्यर्थः, निहितं-निवेशितं, निभृतं-निश्चलम् , ईक्षणं-नेत्रं येन तादृशः सन् , उत्थाय, अभ्यन्तरम् अन्तःपुरं, गत्वा, दूरानतेन दूरपर्यन्तनम्रीकृतेन, शिरसा मस्तकेन, प्रतिदिनमेव प्रतिदिवसमेव, दर्शनाभिलाषिणी स्वदर्शनोत्कण्ठितां, जननीं मातरं, प्रणम्य अभिवाद्य, निजमन्दिरं खवासभवनम् , आगत्य उपस्थाय, द्वारादेव द्वारदेशादेव, विसर्जितानुयायिसेवकजनः त्यक्तानुगामिपरिचारकलोकः, वासभवनं स्ववासगृहाभ्यन्तरं, विवेश प्रविष्टवान् । कीदृशम् ? तत्कालविरलपरिजनप्रचारं तत्कालं तत्क्षणं, विरल:परिमितः, परिजनस्य-परिवारस्य, प्रचारः-गमना-ऽऽगमने यत्र तादृशम् ; पुनः अप्रमत्ताप्तशस्त्रिपुरुषशतपरिक्षिप्तम् अप्रमत्तेन-अवहितेन, आप्तेन-विश्वस्तेन, शस्त्रिणा-गृहीतशस्त्रेण, पुरुषशतेन-शतसंख्यकपुरुषैः, परिक्षिप्तं-परिवेष्टितम् ; पुनः आवृतैः सम्मानितैः, द्वाररक्षिभिः द्वारपालकैः, निरीक्ष्य विलोक्य, सम्यक सादरं, यद्वा सम्यगिति निरीक्ष्यतिक्रियाविशेषणम् , प्रवेश्यमानतत्कालसेवोपयुक्तकथकगाथकप्रायलोकं प्रवेश्यमानाः-अन्तः प्रस्थाप्यमानाः, तत्कालसेवोपयुक्ताः-उक्तावसरोचितसेवाधिकृताः, कथकगाथकप्रायाः-कथाख्यायकगायकप्रचुराः, लोकाः-जना यस्मिंस्तादृशम् ; पुनः अस्तोकचन्दनच्छटोपसिक्तमसृणमणिकुट्टिमम् अस्तोकानाम्-अधिकानां, यद्वा अस्तोकाभिरिति छटाविशेषणं, चन्दनानाचन्दनद्रवाणां, छटाभिः-धाराभिः, उपसिक्त-क्षालितं, मसृणं-चिकणं, मणिकुट्टिमं-मणिबद्धभूमियस्मिंस्तादृशम् ; पुनः अविरलप्रकीर्ण विकचकुमुदेन्दीवरदलोपहारम् अविरलं निबिडं, प्रकीर्णाः-परिक्षिप्ताः, विकचानां-विकसिताना, कुमुदेन्दीवराणांकुमुदरूपाणां रात्रिविकासिजातीयानाम् , इन्दीवराणां-कमलविशेषाणां, दलानि- पत्राण्येव, उपहाराः-उपायनानि यस्मिंस्तादृशम् ; पुनः समारब्धशिशिरोपचारैः प्रवर्तितशीतोपचारैः, चतुरपरिचारकैः निपुणसेवकैः, सत्वरं शीघ्रम् , अपसारितान्तज्वलत्प्रदीपनिवहम् अपसारितः-दूरीकृतः, अन्तः-मध्ये, ज्वलन्-दीप्यमानः, प्रदीपनिवहः-प्रदीपगणो यस्मात् तादृशम् ; पुनः माणिक्यदीपैः रत्नरूपदीपैः, समन्तात् सर्वतः, उत्सारिततमोवितानम् उत्सारितः-अपनीतः, तमोवितानः-- अन्धकारराशियस्मात् तादृशम् , कीदृशैः? जनितमुग्धवनिताविस्मयैः जनितः-उद्भावितः, मुग्धानां-रत्नदीपमहिमानभिज्ञानां,
"Aho Shrutgyanam"