________________
mmmmm
तिलकमञ्जरी स्वप्रयोजनसंबन्धमभिलिख्य तत्क्षणमेव समुपनीतं लेखम् । अब्रवीच्च तमपवार्य—'गन्धर्वक ! याऽसौ त्वया गन्धर्वदत्ताभिधाना कुसुमशेखरनरेन्द्रमहिषी सुवेलाचलानिवृत्तेन काञ्चयां द्रष्टुमध्यवसिता तदीयदुहितुर्मलय. सुन्दर्या रहस्युपेत्य सादरमयं समर्पयितव्यः' इति [ट]।
अथ 'तथा' इति सोऽभ्युपगम्य दूरानतशिराः प्रणम्य हरिवाहनमाभाष्य च ललाटचुम्बिना पाणिसंपुटेन तत्समासन्नवर्तिनः समरकेतुपुरःसरान् राजपुत्राननुचराप्तिप्रसादप्राप्तवसुभूषणादिवस्तुकलापो जलमण्डपानिर्जगाम । विस्मयोन्मुखद्वारस्थलोकावलोकितश्च विहगपतिपोत इव पवनवेल्लितोत्तरीयपल्लवप्रान्तपक्षतिरन्तरिक्षमुदपतत् । प्रस्थिते च तस्मिन्नगस्त्याश्रमालंकृतां ककुभमारब्धतद्गुणसंकथः स्थित्वा क्षणं क्षोणीपतितनयः स्वावासमगमत् । कृताह्निकविधिश्च विनिविश्य विजने तमेव सर्वतोऽनवद्यमवलोकयन् विद्याधरराजपुत्र्या रूपातिशयमनयद् दिवसम् [8] । अवसिते च वासरालोके संगलत्तिमिरतया मन्दायमानरूपदर्शनसामयाँ कथञ्चित् ततो विनिवर्त्य दृष्टिमुत्थाय च यथाक्रियमाणमावश्यकं सान्ध्यमन्वतिष्ठत् । उपस्थिते च प्रदोषे प्रतीष्य कृतसपर्याणां द्विजन्मनामाशिषमारुह्य च सपर्याणां यामकरिणीं करेणुघण्टारवश्रवणगत्वरेण
तत्क्षणमेव तत्कालमेव, समुपहृतं समर्पितं, स्वप्रयोजनसम्बद्धं खोद्देश्यसम्बद्धं, लेखं पत्रम् , उपानयत् समर्पितवान् ; च पुनः, तं लेखम् , अपवार्य आच्छाद्य, अब्रवीत् उक्तवान् । किमित्याह-गन्धर्वक ! सुवेलाचलात् सुवेलपर्वतात् , निवृत्तेन निर्गतेन, त्वया, असौ प्रसिद्धा, गन्धर्वदत्ताभिधाना गन्धर्वदत्ताख्या, या कुसुमशेखरनरेन्द्रमहिषी तदाख्यनृपपट्टराज्ञी, काभ्यां तदाख्यनगर्या, द्रष्टुं साक्षात्कर्तुम् , अध्यवसिता निश्चिता, तदीयदुहितुः तत्सुतायाः, मलयसुन्दर्याः, रहसि एकान्ते, उपेत्य समीपं गत्वा, अयं लेखः, सादरम् आदरपूर्वकं, समर्पयितव्यः प्रापयितव्यः [ट]।
अथ अनन्तरं, सः बालकः, तथा तेन प्रकारेण, अभ्युपगम्य कर्तुमङ्गीकृत्य, दूरानतशिराः दूरपर्यन्तावनतमस्तकः सन् , हरिवाहनं तदाख्यप्रकृतयुवराज, प्रणम्य अभिवाद्य, च पुनः, ललाटचुम्बिना ललाटस्पर्शिना, पाणिसम्पुटेन संश्लिष्टकरद्वयेन, अञ्जलिनेति यावत् , तत्समासन्नवर्तिनः तत्पार्थोपविष्टान् , समरकेतुपुरस्सरान् समरकेतुप्रमुखान् , राजपुत्रान् नृपकुमारान् , आभाष्य आलप्य, अनुचरार्पितप्रसादप्राप्तवसुभूषणादिवस्तुकलापः अनुचरेण किङ्करद्वारा, अर्पितः-उपहृतः, प्रसादेन-प्रीत्या, प्राप्तः-गृहीतः, वसुभूषणादिः-धनाभूषणप्रभृतिः, वस्तुकलापः-वस्तुसमूहो येन तादृशः सन् , जलमण्डपात् जलाधिष्ठितगृहविशेषात् , निर्जगाम निष्क्रान्तः । च पुनः, विस्मयोन्मुखद्वारस्थलोकावलोकितः विस्मयेन-आश्चर्येण, उन्मुखैः-ऊर्ध्वमुखैः, द्वारस्थलोकैः-द्वारस्थजनैः, अवलोकितः-दृष्टः सन् , विहगपतिपोत इव गरुडशिशुरिव, पवनवेल्लितोत्तरीयपल्लवप्रान्तपक्षतिः पवनेन-वायुना, वेल्लिता-उद्धृता, उत्तरीयपल्लवप्रान्तरूपा- पल्लवसदृशश्लक्ष्णोत्तरीयवस्त्राञ्चलरूपा, पक्षतिः-पक्षमूलं यस्य तादृशः, अन्तरिक्षं गगनम् , उदपतत् उज्जगाम । तस्मिन् गन्धर्वके, अगस्त्याश्रमालङ्कताम् अगस्त्यस्य-तदाख्यमहर्षेः, आश्रमेण-आवासेन, अलङ्कृतां-विभूषितां, ककुभं दिश, दक्षिणदिशमित्यर्थः, प्रस्थिते प्रयाते सति, क्षोणीपतितनयः प्रकृतनृपात्मजः, आरब्धतहणसंकथः प्रवर्तिततदीयगुणगानः सन् , क्षणं क्षणमात्रं, स्थित्वा वर्तित्वा, स्वावासं स्वगृहम् , अगमत् गतवान् । च पुनः, कृताहिकविधिः सम्पादितदैनिकक्रियः सन् , विजने रहसि, विनिविश्य उपविश्य, विद्याधरराजपुत्र्याः विद्याधरराजकुमार्याः, तिलकमञ्जर्या इत्यर्थः, सर्वतः समन्तात् , अनवद्यं प्रशंसनीयं, तमेव दृष्टपूर्वमेव, रूपातिशयं सौन्दर्योत्कर्षम् , अवलोकयन् पश्यन् , दिवसं दिनम् , अनयत् व्यतीतवान् [3] च पुनः, वासरालोके दिनप्रकाशे, अवसिते समाप्ते, क्षीणे सतीत्यर्थः, संगलत्तिमिरतया सम्पतदन्धकारतया, मन्दायमानरूपदर्शनसामर्थ्यां शिथिलायमानतदाकारावलोकनशक्तिका, दृष्टिं चक्षुः, कथञ्चित् कथमपि, क्लेशेनेत्यर्थः, ततः तद्दर्शनकार्यात् , निवार्य विमोच्य, च पुनः, उत्थाय यथाक्रियमाणं यथाविधीयमानं, स्वसाध्यं स्वकार्यम् , अन्वतिष्ठत् कृतवान् । च पुनः, प्रदोषे रजनीमुखे, उपस्थिते समागते, कृतसपर्याणां सम्पादितसायन्तना_णां, द्विजन्मनां विप्राणाम् , आशिषम् आशीर्वाद, प्रतीष्य प्रतीक्ष्य गृहीत्वेत्यर्थः, च पुनः, पृष्ठारोपितरत्नपीठालङ्कता, यामकरिणीं प्रहरहस्तिनीम् , आरुह्य, करेणुघण्टारवश्रवणगत्वरेण करेणोः-हस्तिन्याः,
"Aho Shrutgyanam"