________________
१८
टिप्पनक-परागविवृतिसंवलिता। चित्तैः कालः। सत्पुण्ययोगादयत्नलब्धं पुरुषरत्नं किमबालिशः कोऽपि शिथिलयति [ झ]। तथापि किं क्रियते, पराधीनवृत्तिस्त्वं न शक्यसे दिवसमपि धारयितुमात्मसंनिधौ, उत्तिष्ठ, प्रतिष्ठस्व राजकार्यसिद्धये, मत्कार्यं तु भूयो भवदर्शनमपहाय नास्त्यगस्त्यपरिगृहीतायां ककुभि किश्चित् , यच्च यदा स्वत एवाभ्युपगतं भद्रेण तदा निरर्थकस्तद्विषयो मम प्रार्थनादरः । ततो देशादस्मदेशदुर्लभमिदं त्वया समानेतव्यमित्यत्रापि न भवान व्यापारणीयः, यतः किमेकेनास्मद्देशेन, त्रिभुवनेऽपि यद् दुर्लभं वस्तु तदुपनीतं त्वयेदमपनीतरम्भोर्वशीपुरःसरसुराङ्गनारूपगर्वमस्याः सर्वत एवानवद्यमुपनयता विद्याधरराजदुहितुर्बिम्बम् , अमुनैव कृतकृत्योऽहम् , विरतकौतुकश्च वस्त्वन्तरदर्शने संवृत्तः । ततो निवृत्तेन मया कर्तव्यमेतदिति यदपि किञ्चिदभ्युपगतं तदपि सर्वदानेककार्यव्यग्रचेतसि भवति नावश्यतया संभावयामि, एतत् तु साभ्यर्थनं ब्रवीमि, सविधवर्तिना दूरस्थेन संपत्संपन्नेन विपदमापन्नेन वा त्वया नैष विस्मर्तव्यः सहास्माभिः क्षणमात्रमुपजातो वचनपरिचयः' [अ] इत्युदीर्य दिव्याभरणवस्तुवत्रताम्बूलदानेन तस्मै प्रसादमुपादर्शयत् । उपानयच्च समरकेतुना
wwwmwwmom
टिप्पनकम्-तदवधार्य तद्-लेखस्वरूपम् , अवधार्य-मनसि कृत्वा [८] ।
आखाद्यते अनुभूयते । किं बहुना, निरातङ्कचित्तैः प्रमुदितहृदयैः, सर्वदा कालः, अतिवाह्यते व्यतीयते । कोऽपि अबालिशः बुद्धिमान् , सत्पुण्ययोगात् सत्पुण्योदयात् , अयत्नलब्धम् अनायासप्राप्तं, पुरुषरत्नं पुरुषश्रेष्ठम् , किं शिथिलयति उपेक्षते, नैवेत्यर्थः [ झ] । तथापि तवाल्याज्यत्वेऽपि, किं क्रियते कर्तुं पार्यते । पराधीनवृत्तिः परतन्त्रस्थितिकः, त्वं, दिवसमपि एकदिनमपि, आत्मसन्निधौ खपार्चे, धारयितुं स्थापयितुं, न शक्यसे शक्तिविषयोऽसि । उत्तिष्ठ प्रस्थातुं प्रवर्तख । राजकार्यसिद्धये प्रकृतविद्याधरेन्द्रकार्यनिष्पत्तये, प्रतिष्ठस्व प्रयाहि, भूयः पुनरपि, भवद्दर्शनम , अपहाय वर्जयित्वा, तदन्यदित्यर्थः, किश्चित् किमपि, मत्कार्य तु मदर्थकर्त्तव्यं तु, अगस्त्यपरिगृहीतायाम् अगस्त्याश्रितायां, ककुभि दिशि, दक्षिण दिशीत्यर्थः, नास्ति । च पुनः, भद्रेण कल्याणभाजा, भवतेत्यर्थः, यदा यदि, यत् कार्य, स्वत एव स्वयमेव, अभ्युपेतं कर्तुमङ्गीकृतं, तदा तर्हि, तद्विषयः तत्कार्यविषयः, मम प्रार्थनादरः प्रार्थनाप्रवृत्तिः, निरर्थकः निष्फलः । ततः तस्मात् जिगमिषितात् , देशात् , अस्मदेशदुर्लभम् अस्मद्देशदुरवापम् , इदं वस्तु, त्वया, समानेतव्यम् उपाहरणीयम् , इत्यत्रापि अस्मिन् विषयेऽपि, भवान् न व्यापारणीयः प्रवर्तनीयः । यतः यस्मात् कारणात् , किं किमुत, एकेन अस्मद्देशेन, त्रिभुवनेऽपि लोकत्रयेऽपि, दुर्लभं यद् वस्तु तत् त्वया, उपनीतं प्रापितम् , कीदृशेन त्वया? अस्याः चित्रगतायाः, विद्याधरराजहितः विद्याधरेन्द्रकन्यकायाः, इदं प्रयक्षवर्ति, बिम्ब चित्रम्, उपनयता प्रापयता, कीदृशम् ? अपनीतरम्भोर्वशीपुरस्सरसुराङ्गनागर्वम् अपनीतः-अपसारितः, रम्भो. र्वशी पुरस्सराणां-तत्प्रमुखानां, सुराङ्गनानां-देवस्त्रीणां, रूपगर्वः-सौन्दर्याभिमानो येन तादृशम् , पुनः सर्वत एव समन्तादेव, अनवधं सुन्दरम् , अमुनैव तेनैव कार्येण, अहं कृतकृत्यः कृतार्थः, च पुनः, वस्त्वन्तरदर्शने अन्यवस्त्ववलोकने, विरतकौतुकः निवृत्तौत्सुक्यः, संवृत्तः सम्पन्नः, अस्मीति शेषः । ततः तस्माद् देशात् , निवृत्तेन परावृत्तेन, एतत् कार्य, कर्तव्यं विधेयम्, इति इत्थं, यदपि किश्चित् मया स्वयमनुच्यमानात्मकं कार्यम् , त्वया अभ्युपगतं कर्तुं प्रतिज्ञातम् , तदपि कार्य सर्वदा सर्वकालम् , अनेककार्यव्यग्रचेतसि विविधकर्तव्यव्याकुलहृदये, भवति त्वयि, न अवश्यतया अवश्यकरिष्यमाणतया, सम्भावयामि आशासे, तु किन्तु, एतत् इदं साभ्यर्थनं सप्रार्थनं, ब्रवीमि कथयामि, यत्सविधवर्तिना समीपस्थेन, वा अथवा, दूरस्थेन दूरवर्तिना, सम्पत्सम्पन्नेन सुखमापन्नेन; वा अथवा, विपदं दुःखम् , आपन्नेन प्राप्तेन, त्वया, अस्माभिः सह, क्षणमात्रम्, एकमात्रक्षणम् , उपजातः सम्पन्नः, वचनपरिचयः आलापप्रयुक्तप्रीतिः, नैव विस्मर्तव्यः विस्मरणीयः [अ] । इत्युदीर्य इत्युक्त्वा, तस्मै बालकाय, दिव्याभरणवस्तुवस्त्रताम्बूलदानेन दिव्यानां-मनोहराणाम् , आभरणवस्तूनाम्-अलङ्करणरूपाणां वस्तूनां, वस्त्राणां ताम्बूलानां च, दानेन-समर्पणेन, प्रसाद प्रसन्नताम् , उपादर्शयत् प्रकटितवान् , च पुनः, समरकेतुना तत्संज्ञकेन तत्प्रियनृपकुमारेण, अभिलिख्य लिखित्वा,
"Aho Shrutgyanam"