________________
तिलकमञ्जरी स्यति समस्तबान्धववर्गदत्तदुःसहोद्वेगः पुरुषद्वेषविषवेगः' [छ]। इत्युदीर्य जिगमिषुः पुनरुवाच–'कुमार! दूरे मया गन्तव्यम् , अनुमोदस्व माम् , आदिश च किमपि प्रयोजनं निजमुद्दिश्य यन्मया विधेयम् , प्रहिणु कुशलोदन्तमादेशं लेखं वा कस्यापि योऽस्यां दिशि मया गन्तुमिष्टायामिष्टस्तवास्ते, वस्तु च व्यक्तीकुरु वचनवृत्त्या यदानेतव्यमेतद्देशदुर्लभं ततः' इति ब्रुवाणं च तमासन्नसमुपनततद्विरहचिन्तासंतप्तमानसः सुचिरमवलोक्य स्नेहगर्भया दृष्टया स्पृष्ट्वा च पाणिना प्रणतशिरसमंसदेशे हरिवाहनः प्रतिव्याहरत्-'गन्धर्वक ! किमहमत्र ब्रवीमि [ज], सर्वात्मना हृदि निविष्टैर्विनयवैदग्ध्यमधुरवादितादिभिस्तव गुणैर्गुणैरिव गाढमस्वतन्त्रतामुपनीतया बुद्ध्या प्रवर्तयितुमपार्यमाणा न मे वाणी जिह्वाग्रमवतरति । कथं गच्छेति भद्रमनुजानामि, किं करोमि ? प्रकृतिरेषा-प्राकृतस्यापि जनस्य जातपरिचयस्य विप्रयोगं न सहते मच्चित्तवृत्तिः, किं पुनस्त्वादशस्य येन च संनिधानवर्तिना प्रवर्तते सुभाषितगोष्ठी, प्रवर्तन्ते विचित्राः कथालापाः, जायते गीतनृत्तचित्रादिषु कलासु व्युत्पत्तिः, आस्वाद्यते नर्मवादश्रवणेन श्रुतिसुखम् , अतिवाह्यते सर्वदा निरातङ्क
टिप्पनकम्–अपार्यमाणा अशक्यमाना । [झ] ।
दृष्टमात्रेण अवलोकितमात्रेण, चित्रपटवर्तिना चित्राधारपटस्थेन, तेन रूपेण, सिद्धगारुडमन्त्रेणेव सिद्धगारुडसम्बन्धिमन्त्रेणेव, समस्तबान्धववर्गदत्तदुःसहोद्वेगः समस्ते-समग्रे, बान्धववर्गे-बन्धुगणे, दत्तः-सम्पादितः, दुःसहः-दुःखेन सहनीयः, उद्वेगः-मनोव्यग्रता येन तादृशः, भर्तृदारिकायाः राजकुमार्याः, तिलकमञ्जर्याः, पुरुषद्वेषविषवेगः पुरुषाप्रीतिरूपविषज्वाला, प्रशमं प्रशान्तिम् , उपयास्यति प्राप्स्यति [छ] । इत्युदीर्य इत्युक्त्वा, जिगमिषुः प्रयातुमिच्छुः, स बालक इति शेषः, पुनः उवाच उक्तवान्, किमित्याहे-कुमार! युवराज! मया दूरे दूरदेशे, गन्तव्यं प्रस्थातव्यं, माम , अनुमोदयस्व प्रयातुमनुमन्यव । च पुनः, किमपि, निजं वकीयं, प्रयोजनम् , आदिश अज्ञापय, यदुद्दिश्य यलक्ष्यीकृत्य, मया विधेयं चेष्टनीयम् । कुशलोदन्तं कुशलवार्ताम् , आदेशम आज्ञां, लेखं पत्रं वा, कस्यापि कस्यचित् पार्श्वे, प्रहिणु मां द्वारीकृत्य प्रेषय, यः, मया गन्तुं प्रस्थातुम् , इष्टायाम् अभिप्रेतायाम् , अस्यां दक्षिणस्यां, दिशि, तव इष्टः अपेक्षितः, आस्ते वर्तते । च पुनः, वचनवृत्त्या वचनद्वारा, व्यक्तीकुरु प्रकटीकुरु, एतद्देशदुर्लभं भवदीयदेशे दुष्प्रापं, यत् वस्तु, ततः, आनेतव्यम् आनेतुं योग्यं, स्यादिति शेषः । इति ब्रुवाणं कथयन्तं, तं बालकम् , आसन्नसमुपनततद्विरहचिन्तासन्तप्तमानसः आसन्न-निकटं यथा स्यात् तथा, समुपनतस्य-समुपस्थास्यमानस्य, यद्वा समुपनतया-समुपस्थास्यमानयेति चिन्ताविशेषणम् , तद्विरहस्य -तद्विश्लेषस्य, चिन्तया सन्तप्त-व्यथितं, मानसं-हृदयं यस्य तादृशः, हरिवाहनः, स्नेहगर्भया प्रीतिपूर्णया, दृष्ट्या चक्षुषा, सुचिरम अतिदीर्घकालम् , अवलोक्य दृष्ट्वा, च पुनः, प्रणतशिरसम् अवनतमस्तकं, तं पाणिना हस्तेन, अंसदेशे स्कन्धदेशे, स्पृष्टा संश्लिष्य, प्रतिव्याहरत् प्रत्युक्तवान् । किमित्याह-अहम्, अत्र अस्मिन् विषये, किं ब्रवीमि कथयामि [जी, सर्वात्मना सर्वांशेन, हृदि मनसि, निविष्टैः प्रविष्टः, विनयवैदग्ध्यमधुरवादितादिभिः नम्रत्व नैपुण्य-प्रियंवदत्वादिभिः, तव गुणैः, गुणैरिव रज्जुभिरिव, गाढम् अत्यन्तम् , अस्वतन्त्रतां परतन्त्रताम् , अधीनतामित्यर्थः, उपनीतया आपादितया, बुद्धया, प्रवर्तयितुं प्रेरयितुम् , अपार्यमाणा अशक्यमाना, मे मम, वाणी, जिह्वाग्रं जिह्वान्तभागं, न अवतरति आरोहति । भद्रं कल्याणवन्तं, भवन्तमित्यर्थः, गच्छेति इतः प्रयाहीति, कथं केन प्रकारेण, अनुजानामि अनुमन्ये । किं करोमि, एषा इयं, प्रकृतिः मम स्वभावः, मच्चित्तवृत्तिः मदीयमनोवृत्तिः, जातपरिचयस्य परिचितस्य, प्राकृतस्यापि तुच्छस्यापि, जनस्य, विप्रयोगं विश्लेषदुःखं, न सहते सोढुं न शक्नोति, किं पुनः किमुत, त्वादशस्य भवादृशस्य, येन सन्निधानवर्तिना निकटवर्तिना सता, सुभाषितगोष्ठी सूक्तिसभा, प्रवर्तते जायते; पुनः विचित्राः
ः, कथालापाः प्रबन्धालापाः, प्रवतन्ते भवन्ति; पुनः गीतनृत्तचित्रादिषु गान नर्तन चित्रणादिषु, कलासु शिल्पेषु, व्युत्पत्तिः कौशलं, जायते, पुनः नर्मवादश्रवणेन परीहासोक्तिश्रवणेन, श्रवणसुखं कर्णयोराहादः,
३ तिलक
"Aho Shrutgyanam"