________________
१६
टिप्पनक-परागविवृतिसंवलिता । वृत्तान्तावेदनेन, पृष्टया च विजने वैजयन्तीनगरविप्लवात् प्रभृति सर्वस्तया निवेदितो निजप्रवासवृत्तान्त इत्यवधार्य कार्यो न देवेन तां प्रति संदेहः' इति, अतिवाह्य च तस्य नगरे रात्रिमेकामुद्गते समन्तादुद्दयोतिताशेषदिशि दशशतमरीचौ मोचयित्वात्मानमागत्य काञ्चीमुपास्य कश्चित् कालं भर्तृदारिकां गन्धर्वदत्तां क्षिप्रमेवागन्तव्यम् । एष चाधुनैव साधितबहुरूपिणीविद्यश्चित्रमायो नाम विद्याधरः प्रस्थितस्य ते पथि सहायो भविष्यति" इति [च]। तदेतदवश्यकरणीयं राजकार्यमवधार्य धीमता गन्तुमेवाहमादेष्टव्यो न मनुष्यरूपाणि चित्रकर्मणा निर्मातुं यस्मादिदानीमत्यन्तगमनोत्सुकोऽहम् , उत्सुकमनोभिश्च कर्तुमारब्धमतिस्थूलमपि कर्म नोपजायते सुसूत्रम् , किं पुनश्चित्तैकाग्रतातिशयनिर्वर्तनीयं चित्रम् । तदधुना तत्र त्रिकूटाचलकूटचूडामणौ विचित्रवीर्यनगरे काश्चयां च तावन्मया गन्तव्यम् , अन्तरा च यदि कश्चिदन्तरायो न भविष्यति, ततस्ततो निवृत्तेन नियमादिहागत्य पुनरपि द्रष्टव्यमिष्टफलदायकं सकलार्थिकल्पद्रुमस्य ते विद्रुमारुणतलं चरणप्रवालयुगलम् , उपदर्शितबहुविकल्पचित्रशिल्पेन च स्थित्वा दिवसमेकमेकाग्रमनसा तथाभिलेखितव्यं यथावस्थितं महाभागस्य रूपं यथा चित्रपटवर्तिना तेन पुरतो दृष्टमात्रेण सिद्धगारुडमन्त्रेणेव भर्तृदारिकायाः प्रशममुपया
मया खयं गत्वा, दृष्टा दृष्टिगोचरीकृता, च पुनः, सर्वस्य समस्तस्य, ज्ञातिवर्गस्य बन्धुगणस्य, कुशलवृत्तान्तावेदनेन कुशलवार्ताविज्ञापनेन, समाश्वासिता सम्यक् तोषिता । च पुनः, विजने रहसि, पृष्टया जिज्ञासां ज्ञापितया, तया गन्धर्वदत्तया, वैजयन्तीनगरविप्लवात् प्रभृति तदाख्यनगरदुर्घटनामारभ्य, सर्वः समस्तः, निजप्रवासवृत्तान्तः स्वविदेशवासवार्ता, निवेदितः बोधितः, इत्यवधार्य इति निश्चित्य, देवेन नृपेण भवता, तां गन्धर्वदत्ता प्रति, सन्देहः स्वसुतात्व. शङ्का, न कार्यः कर्तव्य इति । च पुनः, तस्य विचित्रवीर्यस्य, नगरे, एकां रात्रिम् , अतिवाह्य व्यतीत्य, उद्योतिताशेषदिशि उद्भासितसर्वदिके, दशशतमरीचौ सहस्रकिरणे सूर्य इति यावत् , समन्तात् सर्वतः, उद्गते उदिते सति, आत्मानं खं, मोचयित्वा ततो विश्लष्य, काञ्चीं तदाख्यनगरीम् , आगत्य, कश्चित् कालं कतिपयकालं, भर्तृदारिकां राजसुताम् , उपास्य निषेव्य, क्षिप्रमेव शीघ्रमेव, आगन्तव्यं परावर्तितव्यम् । च पुनः, अधुनैव इदानीमेव, साधित. बहुरूपिणीविद्यः साधिता-सिद्धिमापादिता, बहुरूपिणी-नानारूपप्रयोजिका, विद्या येन तादृशः, चित्रमायो नाम तत्संज्ञकः, एष विद्याधरः, प्रस्थितस्य प्रयातस्य, ते तव, सहायः सह गन्ता, भविष्यति सम्पत्स्यते' इति [च]। तत् तस्माद्धेतोः, एतत् अनुपदोक्तं, राजकार्यम् , अवश्यकरणीयम् अवश्यकर्तव्यम् , अवधार्य निश्चित्य, धीमता कार्याकार्यविवेकशालिना, भवतेति शेषः, अहं गन्तुमेव तदर्थ प्रयातुमेव, आदेष्टव्यः आज्ञापयितुमुचितः, न तु चित्रकर्मणा चित्रणक्रियया, मनुष्यरूपाणि पुरुषाकृतीः, निर्मातं रचयितुम् , यस्मात येन हेतुना, इदा अहम् , अत्यन्तगमनोत्सुकः गन्तुमुत्कण्ठितः, अस्मीति शेषः। उत्सुकमनोभिश्च कार्यान्तरोत्कण्ठितहृदयैस्तु, कर्तु साधयितुम् , आरब्धमपि उपक्रान्तमपि, अतिस्थूलमपि अतिसरलमपि, कर्म कार्यम् , सुसूत्रं सुसङ्घटितं, न उपजायते सम्पद्यते, किं पुनः किमुत, चित्तैकाग्रतातिशयनिर्वर्तनीयं चित्रं मनःसमाधानातिशयसम्पादनीयं चित्रणकार्यम् । तत् तस्माद्धेतोः, अधुना सम्प्रति, त्रिकूटाचलकूटचडामणौ त्रिकूटपर्वतशिखरशिरोमुकुटरूपे, तत्र तस्मिन्, विचित्रवीर्यनगरे तत्संज्ञकनगरे, च पुनः, काश्यां तदाख्यनगर्या f, मया तावत् प्रथम, गन्तव्यं गमनं प्राप्तकालम् । च पुनः, अन्तरा मध्ये, यदि कश्चित् कोऽपि, अन्तरायः विघ्नः, न भविष्यति आपतिष्यति, ततः तर्हि, ततः तन्नगरात् , निवृत्तेन परावृत्तेन, मयेति शेषः, नियमात् अवश्यम् , इह अत्र, आगत्य उपस्थाय, सकलार्थिकल्पद्रमस्य समस्तयाचककल्पवृक्षभूतस्य, ते तव, इष्टफलदायकम् अभिलषितफलसाधकं, विद्रमारुणतलं प्रवालरक्ताधःप्रदेशम् , चरणप्रवालयुगलं पादपल्लवद्वयम् , पुनरपि द्रष्टव्यं दृष्टिगोचरीकरणीयम् । च पुनः, उपदर्शितबहुविकल्पचित्रशिल्पेन उपदर्शितः-प्रकटितः, बहुविकल्पः-नानाविधः, चित्रशिल्पा-चित्रणकला येन तादृशेन, मयेति शेषः, एक दिवसं दिनं, स्थित्वा वर्तित्वा, एकाग्रमनसा समाहितहृदयेन सता, यथाऽवस्थितं यथावृत्तं, महाभागस्य महानुभावस्य, रूपम् आकृतिः, तथा तेन प्रकारेण, अभिलेखितव्यं चित्रणीयम् , यथा येन प्रकारेण, पुरतः अग्रे,
"Aho Shrutgyanam"