________________
तिलकमञ्जरी
तानि नामभिर्यथावस्थितानि विद्धरूपाणि वर्णय च तेषामाहितोत्कर्षया गिरा त्यागसौभाग्यविभववैचक्षण्यलावण्यादिगुणगणम्, अचिन्त्या हि दैवशक्तिः, एवमपि कृते कदाचित् कापि विश्राम्यति चक्षुरस्याः [घ] ।' ' तथा ' इति प्रतिपद्य तच्छासनमावेद्य च सविस्तरं तत्रैव क्षणे विसर्जिताः सर्वदिक्षु दक्षाश्चित्रकर्मणि समस्ता अपि स्वप्रतिबद्धाः शुद्धान्तसैरन्ध्रीदास्यः । अहमपि तत्र समये समासन्नवर्ती सादरमभिहितः — " वत्स ! गन्धर्वक ! तवाप्ययमेवाधिकारः केवलं सुवेलगिरिवासिनो निजपितुर्विचित्रवीर्यदेवस् पार्श्वे त्वमद्य कार्यवशेन देव्या पत्रलेखया प्रस्थापितोऽसि, अतो न शक्यसे वक्तमन्यत् किमपि, किन्तु कृतराजकार्येण तस्मात् समागच्छता त्वया विज्ञापनीयमिदमस्मद्वचो नभश्चरेन्द्रस्य [ङ] - 'या सा सकलदाक्षिणात्यसामन्तमौलिविश्रान्तचरणनख मरीचेः काञ्ची नगरीनायकस्य राज्ञः कुसुमशेखरस्य सर्वान्तःपुरप्रमुखा महादेवी गन्धर्वदन्त्तेति नामसाम्यादुपजातसंदेहेन रत्नकूटाद्रिबन्धावुदधिजलपरिक्षिप्तपीठे स्वयंभुवि तत्र दिव्यायतनमण्डले विहितयात्रेण रात्रौ सादरं तथाश्रुता देवेन पूर्वमासीत्, सैव सा देवस्यात्मजा गन्धर्वदत्ता, यतो मया देवादेशमन्तरेणापि गत्वा स्वयं दृष्टा, समाश्वासिता च सर्वस्य ज्ञातिवर्गस्य कुशल
१५
तिलकमञ्जर्याः, दर्शय दृष्टिगोचरीकारय; च पुनः तेषां नृपकुमाराणां त्याग सौभाग्यविभववैचक्षण्यलावण्यादिगुणगणं त्यागसौभाग्यं-दानशालित्वं, यद्वा त्याग:-दानं, सौभाग्यं - सर्वजनप्रियत्वं, विभवः - धनसम्पतिः, वैचक्षण्यं - कलाकौशलं, लावण्यं-सौन्दर्यं, तत्प्रभृतिगुणपुञ्जम्, आहितोत्कर्षया गृहीतप्रकर्षया गिरा वाण्या, वर्णय प्रकटय; हि यतः, दैवशक्तिः भाग्यमहिमा, अचिन्त्या अवर्णनीया, अस्तीति शेषः, एवमपि अनेनापि प्रकारेण कृते अनुष्ठिते सति, कदाचित् कस्मिंश्चित् काले, अस्याः तिलकमञ्जर्याः, चक्षुः दृष्टिः, कापि कस्मिंश्चिन्नृपकुमारे, विश्राम्यति विश्रान्ति प्राप्नुयात्, तृप्येदित्यर्थः’ [ घ ]। 'तथा' तेन प्रकारेण करोमि, इति तच्छासनं तदादेशं, प्रतिपद्य स्वीकृत्य च पुनः सविस्तरं सप्रपञ्चम्, आवेद्य विज्ञाप्य तच्छासनमित्यर्थः, तत्रैव तस्मिन्नेव क्षणे, चित्रकर्मणि चित्रकार्ये, दक्षाः कुशलाः, स्वप्रतिबद्धाः स्वस्य - आत्मनः, प्रतिबद्धाः - नियन्त्रिताः, अधिकृता इत्यर्थः, समस्ता अपि सकला अपि, शुद्धान्तसैरन्ध्रीदास्यः शुद्धान्तसैरन्ध्रीणाम्-अन्तः पुरस्थानां परगृहवास्तव्य स्वच्छन्दशिल्पिस्त्रीणां दास्यः - दूत्यः, सर्वदिक्षु सकलदिशासु, विसर्जिताः प्रेषिताः । तत्र तस्मिन् समये अवसरे, समासन्नवर्ती अतिनिकटवर्ती, अहमपि, सादरं ससम्मानम्, अभिहितः उक्तः, किमित्याह - वत्स ! गन्धर्वक ! पुत्र ! गन्धर्वक !, तवापि, अयमेव अनुपदमुक्त एव, अधिकारः नियोगः, अस्ति, केवलं किन्तु, त्वम्, अद्य अस्मिन् दिने, देव्या राज्या, पत्रलेखया, कार्यवशेन प्रयोजनवशेन, निजपितुः स्वजनकस्य, विचित्रवीर्यदेवस्य तदाख्यनृपस्य पार्श्वे निकटे, प्रस्थापितोऽसि प्रेषितोऽसि, अतः अस्मात्, अन्यत् विरुद्धं, किमपि वक्तुं प्रतिकथितुं न शक्यसे शक्योऽसि, किन्तु कृतराजकार्येण सम्पादितराजकीयकार्येण, तस्मात् तत्पार्श्वात्, समागच्छता परावर्तमानेन त्वया, नभश्चरेन्द्रस्य विद्याधरेन्द्रस्य विचित्रवीर्यस्येत्यर्थः, इदम् अधुनैवोच्यमानम्, अस्मद्वचः अस्माकं वचनं, विज्ञापनीयं वक्तव्यम् [ ङ ] । किं तदित्याह - सकलदाक्षिणात्यसामन्तमौलिविश्रान्तचरणनखमरीचेः सकलानां समस्तानां, दाक्षिणात्यानां - दक्षिणदिग्भवानां, सामन्तानांक्षुद्रनृपाणां मौलिषु - शिरस्सु, विश्रान्ताः - निविष्टाः, चरणनखमरीचयः - पादसम्बन्धिनखकिरणा यस्य तादृशस्य, काञ्चीनगरी नायकस्य तदाख्यनगरी खामिनः कुसुमशेखरस्य तदाख्यन्नृपस्य सर्वान्तःपुरप्रमुखा समस्तान्तःपुरप्रधाना, या महादेवी महाराज्ञी, सा गन्धर्वदत्तेति नामसाम्यात् तत्संज्ञासादृश्याद्धेतोः, उपजातसन्देहेन उत्पन्न खसुतात्वसंशयेन, देवेन विचित्रवीर्येण राज्ञा, भवतेत्यर्थः, रत्नकूटाद्रिबन्धौ रत्नकूटाख्य पर्वताश्रिते, उदधिजलपरिक्षिप्तपीठे उदधिजलैः-समुद्रजलैः, परिक्षिप्तं परिवेष्टितं, पीठं स्थलं यस्य तादृशे, स्वयम्भुवि खयमुद्भूते, तत्र तस्मिन् कृतपूर्ववर्णने, दिव्यायतनमण्डले दिव्यभवनमण्डले, विहितयात्रेण कृतप्रयाणेन सता रात्रौ पूर्व, सादरं प्रेमपूर्वकं, तथा खसुतात्वेन, श्रुता श्रवणगोचरीकृता आसीत्, सैव कुसुमशेखर महिष्येव सा प्रसिद्धा गन्धर्वदत्ता, देवस्य विचित्रवीर्यस्य राज्ञः आत्मजा सुता वर्तत इति शेषः । यतः यस्मात् कारणात्, देवादेशमन्तरेणापि देवस्य नृपस्य भवतः, आदेशं विनापि,
"Aho Shrutgyanam"