Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 22
________________ टिप्पनक - परागविवृतिसंवलिता । सत्वरोऽहमत्र कर्मणि निजेनैव प्रयोजनेन यदिवा किमन्यैः पुरुषरूपैः कुमारस्यैव तावन्मुख्यं मया रूपमभिलखनीयम्, केवलमनभिनवलेखने संप्रति कारणं किञ्चिदस्ति तच्च वर्णयामि संक्षिप्तैरेव वर्णैः आकर्णयतु कल्याणराशि: [ ऐ]। अस्ति वैताढ्ये शैले सकलभारतवर्षलक्ष्मीविलासतल्पमनल्पकल्पतरुखण्डमण्डितानेक सार्वर्तुको पवनरमणीयमनणुमणिगृहप्रभा प्रभावदुर्विभावदिनविभावरीविभागं चतुरङ्गद्यूतमिव सुनिरूपितत्रिकचतुष्करचनं रथनूपुरचक्रवालं नाम विद्याधरनगरम् । तत्र भरतसगरादिराजसदृशो विश्वत्रितयविख्यात कीर्तिर्नीतिशास्त्रनित्यविहितासक्तिर्व्यक्तशक्तित्रयः शत्रुषड्वर्गनिग्रहपरः पराभिभूतभूपतिशतशरण्यो धर्मारण्यपरिसर इव सततमत्यक्तसंनिधिः संयमैकचनैर्मुनिभिरप्रतिहतविद्याबलो महाबलैरप्यरातिभिरधिपतिः समग्राया अपि दक्षिण १० टिप्पनकम् — चतुरङ्गद्यूतमिव सुनिरूपित त्रिकचतुष्करचनम् एकत्र स्थापितत्रिकचतुष्करचनम्, अन्यत्र सुरचितत्रिकचतुष्कप्रदेशविशेषरचनम् । शक्तित्रयं मन्रोत्साहप्रभुलक्षणम् शत्रुषङ्घर्गः - कामक्रोधलोभमानहर्षमदाः, पराभिभूताः - शत्रुतिरस्कृताः [ओ ] । अपरिज्ञानम् अनभिज्ञताम्, अनवधानं प्रमादम्, अनुचितज्ञताम् उचितज्ञताभावम् च पुनः, अनभ्यासम् अभ्यासाभावं, न सम्भावयितुम् अर्हति योग्योऽस्ति । यदि पुरुषरूपनिर्माणविषयमपि पुरुषाकृतिचित्रणविषयक मि नैपुण्यं कौशलं, द्रष्टुं परीक्षितुं, कुमारस्य युवराजस्य भवत इति यावत् पुनः कुतूहलम् औत्सुक्यम्, अस्तीति शेषः, ततः तर्हि, तान्यपि पुरुषरूपाण्यपि, दर्शयिष्यामि चित्रयिष्यामि । निजेनैव स्वकीयेनैव, प्रयोजनेन, अत्र अस्मिन् कर्मणि कार्ये, सत्वरः त्वरान्वितः अस्मीति शेषः । यदिवा अथवा, अन्यैः पुरुषरूपैः पुरुषाकृतिभिः, किं न किमपि प्रयोजनमित्यर्थः, तावदिति वाक्यालङ्कारे, कुमारस्यैव भवत एव, मुख्यं वास्तविकं रूपम् आकृतिः, मया अभिलेखनीयं चित्रणीयम्, केवलं किन्तु अनभिनवलेखने नवीनचित्राकरणे, यत् किञ्चित् किमपि कारणं हेतुः, अस्ति, तच्च तत् कारणं च सम्प्रति अधुना, संक्षिप्तैरेव परिमितैरेव, वर्णैः अक्षरैः, वर्णयामि विज्ञापयामि, कल्याणराशिः कल्याणपुञ्जः, भवानिति शेषः, आकर्णयतु शृणोतु [ ऐ ] । वैताढ्ये तन्नामके, शैले पर्वते, रथनूपुरचक्रवालं नाम तत्संज्ञकं, विद्याधरनगरम्, अस्ति, कीदृशम् ? सकलभारतवर्ष लक्ष्मीविलासतल्पम् अखिलभारतवर्षलक्ष्म्या विलासस्थानम्; पुनः अनल्पकल्पतरुखण्डमण्डितानेकसार्वर्तुकोपवनरमणीयम् अनल्पकल्पतरुखण्डमण्डितैः - प्रचुर कल्पवृक्षवनशोभितैः, अनेकैः - बहुभिः, सार्वर्तुकैः सर्वैर्तुभवैः, उपवनैः-क्रीडाकाननैः, रमणीयं- मनोहरं पुनः अनणुमणिगृहप्रभा प्रभावदुर्विभाव दिन विभावरी विभागम् अनणूनां-महतां, मणिगृहाणां-मणिमयप्रासादानां प्रभाप्रभावेण द्युतिप्रभावेण, दुर्विभावः - दुर्लक्षः, दिनविभावरीविभागः -दिनरात्रिभेदो यस्मिंस्तादृशम् ; पुनः चतुरङ्गद्यूतमिव चत्वारि - रक्तहरितपीतश्यामलरूपाणि, अङ्गानि - क्रीडासाधनान्यस्य तादृशं द्यूतमिव, सुनिरूपितत्रिकचतुष्करचनं सुनिरूपिता-सुस्थापिता, त्रिकचतुष्काणां - कोष्ठविशेषाणां रचना यत्र, पक्षे सुनिरूपिता- सुरचिता, त्रिकचतुष्काणां मार्गत्रयमिलनमार्गचतुष्टय मिलनस्थानविशेषाणां रचना यत्र तादृशम् । तत्र तस्मिन् नगरे, चक्रसेनो नाम चक्रसेनसंज्ञकः, चक्रवर्ती अखण्ड भूमण्डलेश्वरः, अस्तीति शेषः; कीदृशः ? भरत सगरादिराजसदृशः भरत-सगरादिनृपतुल्यः, पुनः विश्वत्रितय विख्यातकीर्तिः भुवनत्रयप्रसिद्ध कीर्तिः, पुनः नीतिशास्त्रनित्यविहितासक्तिः निरन्तरं नीतिविद्याव्यासङ्गी, पुनः व्यक्तशक्तित्रयः व्यक्तं - स्फुटं, शक्तित्रयं - प्रभावोत्साहमन्त्ररूपशक्तित्रयं यस्य तादृशः; पुनः शत्रुषड्वर्गनिग्रहपरः शत्रूणां षण्णां काम-क्रोध-लोभ- मान-हर्ष-मदानां, निग्रहे-दमने, परः - प्रवीणः; पुनः पराभिभूतभूपतिशतशरण्यः परैः -- शत्रुभिः, अभिभूतस्य - जितस्य, भूपतिशतस्य- नृपशतस्य, शरण्यः शरणे साधुः, रक्षक इत्यर्थः; पुनः धर्मारण्यपरिसर इव तपोवनप्रान्तप्रदेश इव, संयमैकधनैः संयम एव व्रतमेव, एक मुख्यं धनं येषां तादृशैः, मुनिभिः तपस्विभिः, अत्यक्तसन्निधिः अत्यक्तः-अवर्जितः, सन्निधिः- सामीप्यं यस्य तादृशः; पुनः महाबलैरपि प्रबलैरपि, अरातिभिः शत्रुभिः, अप्रतिहतविद्याबलः अप्रतिहतम् - अव्यर्थितं विद्याबलं - नीतिविद्यारूपं बलं, यद्वा-विद्या "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202