________________
टिप्पनक - परागविवृतिसंवलिता ।
सत्वरोऽहमत्र कर्मणि निजेनैव प्रयोजनेन यदिवा किमन्यैः पुरुषरूपैः कुमारस्यैव तावन्मुख्यं मया रूपमभिलखनीयम्, केवलमनभिनवलेखने संप्रति कारणं किञ्चिदस्ति तच्च वर्णयामि संक्षिप्तैरेव वर्णैः आकर्णयतु कल्याणराशि: [ ऐ]।
अस्ति वैताढ्ये शैले सकलभारतवर्षलक्ष्मीविलासतल्पमनल्पकल्पतरुखण्डमण्डितानेक सार्वर्तुको पवनरमणीयमनणुमणिगृहप्रभा प्रभावदुर्विभावदिनविभावरीविभागं चतुरङ्गद्यूतमिव सुनिरूपितत्रिकचतुष्करचनं रथनूपुरचक्रवालं नाम विद्याधरनगरम् । तत्र भरतसगरादिराजसदृशो विश्वत्रितयविख्यात कीर्तिर्नीतिशास्त्रनित्यविहितासक्तिर्व्यक्तशक्तित्रयः शत्रुषड्वर्गनिग्रहपरः पराभिभूतभूपतिशतशरण्यो धर्मारण्यपरिसर इव सततमत्यक्तसंनिधिः संयमैकचनैर्मुनिभिरप्रतिहतविद्याबलो महाबलैरप्यरातिभिरधिपतिः समग्राया अपि दक्षिण
१०
टिप्पनकम् — चतुरङ्गद्यूतमिव सुनिरूपित त्रिकचतुष्करचनम् एकत्र स्थापितत्रिकचतुष्करचनम्, अन्यत्र सुरचितत्रिकचतुष्कप्रदेशविशेषरचनम् । शक्तित्रयं मन्रोत्साहप्रभुलक्षणम् शत्रुषङ्घर्गः - कामक्रोधलोभमानहर्षमदाः, पराभिभूताः - शत्रुतिरस्कृताः [ओ ] ।
अपरिज्ञानम् अनभिज्ञताम्, अनवधानं प्रमादम्, अनुचितज्ञताम् उचितज्ञताभावम् च पुनः, अनभ्यासम् अभ्यासाभावं, न सम्भावयितुम् अर्हति योग्योऽस्ति । यदि पुरुषरूपनिर्माणविषयमपि पुरुषाकृतिचित्रणविषयक मि नैपुण्यं कौशलं, द्रष्टुं परीक्षितुं, कुमारस्य युवराजस्य भवत इति यावत् पुनः कुतूहलम् औत्सुक्यम्, अस्तीति शेषः, ततः तर्हि, तान्यपि पुरुषरूपाण्यपि, दर्शयिष्यामि चित्रयिष्यामि । निजेनैव स्वकीयेनैव, प्रयोजनेन, अत्र अस्मिन् कर्मणि कार्ये, सत्वरः त्वरान्वितः अस्मीति शेषः । यदिवा अथवा, अन्यैः पुरुषरूपैः पुरुषाकृतिभिः, किं न किमपि प्रयोजनमित्यर्थः, तावदिति वाक्यालङ्कारे, कुमारस्यैव भवत एव, मुख्यं वास्तविकं रूपम् आकृतिः, मया अभिलेखनीयं चित्रणीयम्, केवलं किन्तु अनभिनवलेखने नवीनचित्राकरणे, यत् किञ्चित् किमपि कारणं हेतुः, अस्ति, तच्च तत् कारणं च सम्प्रति अधुना, संक्षिप्तैरेव परिमितैरेव, वर्णैः अक्षरैः, वर्णयामि विज्ञापयामि, कल्याणराशिः कल्याणपुञ्जः, भवानिति शेषः, आकर्णयतु शृणोतु [ ऐ ] ।
वैताढ्ये तन्नामके, शैले पर्वते, रथनूपुरचक्रवालं नाम तत्संज्ञकं, विद्याधरनगरम्, अस्ति, कीदृशम् ? सकलभारतवर्ष लक्ष्मीविलासतल्पम् अखिलभारतवर्षलक्ष्म्या विलासस्थानम्; पुनः अनल्पकल्पतरुखण्डमण्डितानेकसार्वर्तुकोपवनरमणीयम् अनल्पकल्पतरुखण्डमण्डितैः - प्रचुर कल्पवृक्षवनशोभितैः, अनेकैः - बहुभिः, सार्वर्तुकैः सर्वैर्तुभवैः, उपवनैः-क्रीडाकाननैः, रमणीयं- मनोहरं पुनः अनणुमणिगृहप्रभा प्रभावदुर्विभाव दिन विभावरी विभागम् अनणूनां-महतां, मणिगृहाणां-मणिमयप्रासादानां प्रभाप्रभावेण द्युतिप्रभावेण, दुर्विभावः - दुर्लक्षः, दिनविभावरीविभागः -दिनरात्रिभेदो यस्मिंस्तादृशम् ; पुनः चतुरङ्गद्यूतमिव चत्वारि - रक्तहरितपीतश्यामलरूपाणि, अङ्गानि - क्रीडासाधनान्यस्य तादृशं द्यूतमिव, सुनिरूपितत्रिकचतुष्करचनं सुनिरूपिता-सुस्थापिता, त्रिकचतुष्काणां - कोष्ठविशेषाणां रचना यत्र, पक्षे सुनिरूपिता- सुरचिता, त्रिकचतुष्काणां मार्गत्रयमिलनमार्गचतुष्टय मिलनस्थानविशेषाणां रचना यत्र तादृशम् । तत्र तस्मिन् नगरे, चक्रसेनो नाम चक्रसेनसंज्ञकः, चक्रवर्ती अखण्ड भूमण्डलेश्वरः, अस्तीति शेषः; कीदृशः ? भरत सगरादिराजसदृशः भरत-सगरादिनृपतुल्यः, पुनः विश्वत्रितय विख्यातकीर्तिः भुवनत्रयप्रसिद्ध कीर्तिः, पुनः नीतिशास्त्रनित्यविहितासक्तिः निरन्तरं नीतिविद्याव्यासङ्गी, पुनः व्यक्तशक्तित्रयः व्यक्तं - स्फुटं, शक्तित्रयं - प्रभावोत्साहमन्त्ररूपशक्तित्रयं यस्य तादृशः; पुनः शत्रुषड्वर्गनिग्रहपरः शत्रूणां षण्णां काम-क्रोध-लोभ- मान-हर्ष-मदानां, निग्रहे-दमने, परः - प्रवीणः; पुनः पराभिभूतभूपतिशतशरण्यः परैः -- शत्रुभिः, अभिभूतस्य - जितस्य, भूपतिशतस्य- नृपशतस्य, शरण्यः शरणे साधुः, रक्षक इत्यर्थः; पुनः धर्मारण्यपरिसर इव तपोवनप्रान्तप्रदेश इव, संयमैकधनैः संयम एव व्रतमेव, एक मुख्यं धनं येषां तादृशैः, मुनिभिः तपस्विभिः, अत्यक्तसन्निधिः अत्यक्तः-अवर्जितः, सन्निधिः- सामीप्यं यस्य तादृशः; पुनः महाबलैरपि प्रबलैरपि, अरातिभिः शत्रुभिः, अप्रतिहतविद्याबलः अप्रतिहतम् - अव्यर्थितं विद्याबलं - नीतिविद्यारूपं बलं, यद्वा-विद्या
"Aho Shrutgyanam"