________________
तिलकमञ्जरी
११
श्रेण्या महाभुजपराक्रमश्चक्रवर्ती चक्रसेनो नाम [ओ ] । तस्य शैशवाभ्यस्तनिरवद्यशस्त्रशास्त्रविद्यस्य यौवनारम्भरभसप्रसाधितपूर्वापरपयोधिमर्यादमेदिनी मण्डलस्य नित्यमभिनवानाखण्डलस्येव नन्दनोपवनपादपानासेवमानस्य पञ्चप्रकारानपि विषयानतिक्रान्ते कियत्यपि काले रूपतुलितसकलसुर सिद्धखेचराङ्गनम ने कैर्देवतोपयाचितशतैरतिशुभ स्वप्न सूचितावतारमुदारविद्याधरवंशसंभवायामङ्गलावण्यलक्ष्मीलघूकृत रतिरूपसंपत्तौ पत्रलेखाभिधानायां महादेव्यामेकमखिलत्रैलोक्य तिलकस्तिलकमञ्जरीनामधेयं कन्यकारत्नमुत्पन्नम् [औ ] ।
यस्य रूपलव एष लावण्यनिधिना चित्रपटसंक्रान्तः कृतार्थीकृतो दृष्टिपातप्रसादेन । सा चेयं देवी जन्मदिनमहोत्सवश्रीविश्राणितोभय श्रेणिचरखेच रगणानन्दा, पाञ्चालिका कन्दुक दुहितृका विवाहगोचराभिः शिशुक्रीडाभिरतिवाहित सर्वलोकस्पृहणीयबालभावा, बहुलेतरपक्षशशिलेखेव प्रत्यहमपरापरासु कलासु परिचयं
टिप्पनकम्-नन्दनोपवनपादपान् मन्दारान् [ औ ] । पञ्चालिका - टिउलडी । कला - षोडशो भागो विज्ञानं च [अं] ।
बलं-सैन्यं च यस्य तादृशः पुनः समग्राया अपि सम्पूर्णाया अपि, दक्षिणश्रेण्याः वैताढ्यपर्वतस्य दक्षिणभागवत - मानाया नगरीपङ्कः, अधिपतिः नायकः; पुनः महाभुजपराक्रमः महान् - उत्कृष्टः, भुजपराक्रमः - बाहुबलं यस्य तादृशः [ अ ] | शैशवाभ्यस्त निरवद्यशस्त्रशास्त्र विद्यस्य शैशवे - बाल्ये, अभ्यस्ता - परिशीलिता, शस्त्रशास्त्रयोर्विद्या - विद्वत्ता येन तादृशस्य; पुनः यौवनारम्भरभ सप्रसाधित पूर्वापरपयोधिमर्यादमेदिनीमण्डलस्य यौवनारम्भे-युवत्वावस्थारम्भे, रभसेन - वेगेन, प्रसाधितं खशासनेन परिष्कृतं पूर्वापरपयोधिमर्यादं पूर्वपश्चिम समुद्रावधिकं, मेदिनी मण्डलं - भूमण्डलं येन तादृशस्य, पुनः नन्दनोपवनपादपान् नन्दनोपवनवृक्षान्, आखण्डलस्येव इन्द्रस्येव नित्यं सततम्, अभिनवान् नूतनान् पञ्चप्रकारानपि प्रशस्त रूपरसादिपञ्चविधानपि पक्षे कल्प- पारिजात मन्दार- हरिचन्दन-संतानरूपानपि, विषया भोग्यपदार्थान्, आसेवमानस्य उपभुञ्जानस्य, तस्य चक्रसेनस्यः कियत्यपि कतिपयेऽपि, काले, अतिक्रान्ते व्यतीते सति, पत्रलेखाभिधानायां पत्रलेखानाम्यां महादेव्यां महाराज्यां, तिलकमञ्जरीनामधेयं तन्नामकम्, एक कन्यकारत्नं कन्यकारूपं रत्नम्, उत्पन्नम् ; कीदृशम् ? रूपतुलितसकलसुरसिद्ध खेचराङ्गनं रूपेण - आकृत्या सौन्दर्येण वा, तुलिताः - उपमिताः, सकलाः, सकलानां वा, सुराणां देवानां, सिद्धानां - सिद्धिशालिनां खेचराणां गगनगामिनां विद्याधराणाम्, अङ्गनाः-स्त्रियो येन तादृशम् ; पुनः अनेकैः, देवतोपयाचितशतैः देवताभ्यर्थनाशतैः, अतिशुभस्वप्नसूचितावतारम् अतिशुभखनेन - अत्यन्त शुभावहेन निद्रावस्थायां निरीक्षितेन वस्तुना, सूचितः, अवतारः - उत्पत्तिर्यस्य तादृशम्, पुनः अखिलत्रैलोक्यतिलकः समस्तत्रिभुवन श्रेष्ठम्, कीदृश्यां महादेव्याम् ? उदारविद्याधर वंशसम्भवायां महनीय विद्याधरवंशोत्पन्नायाम् ; पुनः अङ्गलावण्यलक्ष्मीलघूकृतरतिरूपसम्पत्तौ अङ्गलावण्यलक्ष्म्या - खशरी र सौन्दर्यसम्पत्त्या, लघूकृता-तिरस्कृता, रतेः-कामदेवस्त्रियाः, रूपसम्पत्तिः - सौन्दर्यसम्पत्तिर्यया तादृश्याम् [ औ ] ।
यस्य कन्यकारत्नस्य, चित्रपटसंक्रान्तः चित्रितः; एषः अयं रूपलवः सौन्दर्यलेशः, लावण्यनिधिना सौन्दर्यनिधिना, भवतेत्यर्थः, दृष्टिपातप्रसादेन दृष्टिनिवेशनानुग्रहेण कृतार्थीकृतः सफलीकृतः, सा अनुपदमुपवर्णिता, इयं चित्रस्था, देवी विद्याधरकन्यका, जन्मदिनमहोत्सव श्री विश्राणितोभय श्रेणिचरखेच रगणानन्दा जन्मदिनमहोत्सव - श्रिया - जन्मदिनोत्कृष्टोत्सवशोभया, विश्राणितोभय श्रेणिचरखेचरगणानन्दा- विश्राणितः - दत्तः, जनित इत्यर्थः, उभयश्रेणिचरस्यदक्षिणोत्तरश्रेणिवासिनः, खेचरगणस्य - विद्याधरसमूहस्य आनन्दो यया तादृशी; पुनः पाञ्चालिकाकन्दुक दुहितृका विवाहगोचराभिः पाञ्चालिका नाम - पाश्चालदेशोद्भवा वस्त्रमयपुत्रिका, कन्दुको नाम - गेन्दुकः, दुहितृका विवाहः - वस्त्रमयपुत्तलिकापाणिग्रहणसंस्कारः, तद्गोचराभिः - तद्विषयाभिः शिशुक्रीडाभिः कन्यकाक्रीडाभिः, अतिवाहित सर्वलोकस्पृहणीयबालभावा अतिवाहितः - व्यतीतः, सर्वलोकस्पृहणीयः - सर्वजनमनोहरः, बालभावः - शैशवावस्था यया तादृशी; पुनः बहुलेतरपक्षशशिलेखेव बहुलेतरः- शुक्लः, यः पक्षः, तत्र गता शशिलेखेव चन्द्रलेखेव प्रत्यहं प्रतिदिनम्, अपरापरासु अन्यान्यासु,
"Aho Shrutgyanam"