________________
१२
टिप्पनक-परागविवृतिसंवलिता । कुर्वाणा, क्रमेण कुसुमबाणकेलिकाननं यौवनमनुप्राप्ता, संप्रति च दृष्टविनयदाक्षिण्यशीलत्रपादिस्टेणगुणगगद्विगुणितापत्यप्रीतिना जनकेन योग्या इति भाजनीकृता समग्राया अपि निजविभूतेः [अं], अनुमोदिता च खेच्छाविहाराय धृतविदग्धवेषविद्याधरीवृन्दपरिवृता पुरः प्रधावता प्रान्तचलितानेकरूपचिह्नकापद्भुततपनमण्ड. लेन मायूरातपत्रवनेन कुलिशत्राससंकुचितसुरशैलशिखराकारं कनकमयं विमानमारूढा गत्वा सत्वरं गगनमार्गेण कदाचिद् दक्षिणार्णवतरङ्गताडिततरुणताडीतरुषु संभोगलालसभुजङ्गललनासततसंकुलतमाललवलीलतागुल्मेषु मलयतटवनेषु विचरनि, कदाचिदासक्तकनकाम्बुजरजोराजिपिञ्जरपलायमानकलहंसकुलेषु मानससर:सलिलेषु कूलासीनसकुतूहलकुबेरकुलकुमारावलोकिता मजनकेलिमनुभवति, कदाचिदितस्ततः प्रवृत्तप्रतनुसुरनिम्नगास्रोतःसूत्रसीमन्तितशिखरेषु नीहारगिरिशिखरेषु वनविहारखिन्ना सुखनिषण्णानां किन्नरकुलानां काकलीगीतमाकर्णयति [अ], कदाचिदच्छिद्रपुन्नागपादपच्छन्नविपुलवालुकापुलिनेष्वविच्छिन्नसंततिश्रूयमाणानेक
टिप्पनकम्-सीमन्तितं-द्विधाकृतम् [अ] ।
कलासु शिल्पेषु विज्ञानेषु वा, पक्षे षोडशांशेषु, परिचयं नैपुण्यं, पक्षे वृद्धिं, कुर्वाणा सम्पादयन्ती, क्रमेण शनैः, कुसुमबाणकेलिकाननं कामदेवक्रीडाकाननभूतं, यौवनं युवत्वावस्थाम् , अनुप्राप्ता प्राप्तवती। च पुनः, सम्प्रति इदानीं, दृष्टविनयदाक्षिण्यशीलत्रपादिस्त्रैणगुणगणद्विगुणितापत्यप्रीतिना दृष्टेन-अनुभूतेन, विनयः-नम्रभावः, दाक्षिण्यंचातुर्य, शीलं-सुन्दरखभावः सदाचारो वा, त्रपा-लज्जा, तत्प्रभृतिना, स्त्रैणगुणगणेन-स्त्रीसम्बन्धिगुणगणेन, द्विगुणिताद्विगुणीकृना, अपत्यप्रीतिः-सन्तानोचितवात्सल्यं येन तादृशेन, जनकेन पित्रा, योग्या ऐश्वर्यरक्षणकुशला, इति अस्माद्धेतोः, समनाया अपि सम्पूर्णाया अपि, निजविभूतेः खकीयैश्वर्यस्य, भाजनीकृता पात्रीकृता [अं]; च पुनः, स्वेच्छाविहाराय यथेच्छपरिभ्रमणाय, अनुमोदिता अनुज्ञाता सती, धृतविदग्धवेषविद्याधरीवृन्दपरिवृता धृतविदग्धवेषाभिःगृहीतमनोहरवेषाभिः, विद्याधरी वृन्दैः-विद्याधरजातीयस्त्रीसमूहैः, परिवृता-परिवेष्टिता, पुरः अग्रे, प्रधावता अतित्वरित. मुद्बलता, प्रान्तचलितानेकरूपचिह्नकापह्नततपनमण्डलेन प्रान्ते-पर्यन्ते, चलितैः-दोलितैः, अनेकरूपैः-नानावर्णकैः, चिह्नकैः-हस्वचिह्नः, अपहृतम्-अपलपितम् , तपनमण्डल-सूर्यबिम्बो येन तादृशेन, मायरातपत्रवनेन मयूरपिच्छमयच्छत्रगणेन, कुलिशत्राससंकुचितसुरशैलशिखराकारं कुलिशत्रासेन-वज्रभयेन, संकुचितस्य, सुरशैलस्य-सुमेरुपर्वतस्य, यच्छिखरं-शृङ्ग, तदाकारं तत्सदृशाकार, कनकमयं सुवर्णमयं; विमानम् - आकाशयानम् , आरूढा कृतारोहणा सती, गगनमार्गेण आकाशमार्गेग, सत्वरं शीघ्रं, गत्वा, कदाचित् कस्मिंश्चित् काले, दक्षिणार्णवतरङ्गताडिततरुणताडीतरुषु दक्षिणार्णवस्य-दक्षिणसागरस्य, तरङ्गैः,ताडिताः-आहताः, तरुगाः-परिणताः, ताडीतरवः-तालवृक्षा येषु तादृशेषु, पुनः सम्भोगलालसभुजङ्गललनासततसङ्कलतमाललवलीलतागुल्मेषु संभोगलालसाभिः-सम्भोगविषयकात्यन्ताभिलाषवतीभिः, भुजङ्गललनाभिः-सर्पस्त्रीभिः, सततसंकुलाः-अनवरतव्याप्ताः, तमाललवलीलताः-तदाख्यलताः, गुल्माःस्कन्धरहितवृक्षाश्च येषु तादृशेषु, मलयतटवनेषु मलयपर्वतपर्यन्तवर्तिवनेषु, विचरति विहरति । पुनः कदाचित् कस्मिंश्चित काले, आसक्तकनकाम्बुजरजोराजिपिञ्जरपलायमानकलहंसकुलेषु आसक्ताभिः-आश्लिष्टाभिः, कनकाम्बुजरजोराजिभिः-कनककमलपरागपुजैः, पिअर-पीतं, पलायमानं-तत्रासादुड्डीयमानं, कलहंसाना-कादम्बानां, कुलं-समूहो येषु तादशेषु, मानससरःसलिलेषु मानसाख्यसरोवरजलेषु, कूलासीनसकुतूहलकुबेरकुलकुमारावलोकिता कूले-तटे, आसीनैः-वर्तमानैः, सकुतूहले:-कौतुकान्वितैः, कुबेरकुलकुमारैः-कुबेरवंशजबालकैः, अवलोकिता-दृष्टा सती, मजनकेलिं स्नानक्रीडाम् , अनुभवति करोति। पुनः कदाचित् कस्मिंश्चित् समये, इतस्ततः अत्र तत्र, प्रवृत्तप्रतनुसुरनिम्नगास्रोतःसूत्रसीमन्तितशिखरेषु प्रवृत्तैः-स्यन्दितैः, प्रतनुभिः-हस्वैः,-सुरनिम्नगास्रोतःसूत्रः-गङ्गाप्रवाहसूत्रैः, सीमन्तितंद्विधाकृतं,-शिखरं-चूडा उपरिभाग इति यावत् येषु तादृशेषु, नीहारगिरिशिखरेषु हिमालयमस्तकेषु, वनविहारखिन्ना वनभ्रमणश्रान्ता सती, किन्नरकुलानां देवविशेषजातीयगणानां, काकलीगीतं सूक्ष्ममधुरस्वरेण गानम् , आकर्णयति
"Aho Shrutgyanam"