________________
तिलकमञ्जरी
शकुनिगणरमणीयरुतेषु सागरकूलकच्छेष्वात्मना समानविभवपरिच्छदाभिः परिवृता विद्याधरेन्द्रकुलकुमारिकाभिरुत्तरकुरुभ्यः समानीतेन कल्पतरुफलरसासवेन पानोत्सवं प्रवर्तयति, स्वभवनगता च सर्वदा सर्वकलाशास्त्रकुशलेन सर्वदेशभाषाविदा सर्वपौराणिकाख्यानकप्रवीगेन स्त्रीजनेन चित्राभिः कथाभिर्विनोद्यमाना दिनान्यतिवाहयति, न तु स्वप्नऽपि पुरुषसंनिधिमभिलषति [क]। प्रवर्त्यमानापि च गुरुभिः, प्रबोध्यमानापि धर्मशास्त्रविद्भिः, प्रलोभ्यमानाप्यनेकधा विद्याधरेन्द्रकुलकुमारैः, प्रसाद्यमानापि प्रियसखीभिः, विक्रियमाणापि प्रकटितालीककोपाभिर्बान्धववृद्धाभिः, न ज्ञायते किमात्मनोऽनुरूपं वरमनीक्षमाणा किं पुरुषपरतत्रतया यहच्छाविहारसुखविच्छेदमाशङ्कमाना किमाद्य एव विद्याग्रहणसमये स्वबुद्धिसंकल्पितस्य पुरुषसंप्रयोगपरिहारव्रतस्य समाप्तिकालं प्रतिपालयन्ती किमन्यजन्मजातसंबन्धपुरुषविशेषप्ररूढगाढप्रेमवासनावशेन पुरुषान्तरेषु चक्षुष्प्रीतिमत्रजन्ती नाभिलषति पाणिग्रहणमङ्गलम् [ख]।
दृष्ट्वा च तस्यास्तथाविधां चित्तचेष्टामदृष्टप्रतिविधाना परं विषादमुपगता देवी पत्रलेखा, विधानजप्त
टिप्पनकम्-विक्रियमाणा [क] ।
शृणोति [अ] । पुनः कदाचित् कस्मिंश्चित् काले, अच्छिद्रपुन्नागपादपच्छन्नविपुलवालुकापुलिनेषु अच्छिद्रः-सान्दैः, पुन्नागपादपैः-पुन्नागाख्यवृक्षविशेषैः, छन्नम्-आवृतं, विपुलवालुकापुलिनं--प्रचुरसिकतामयस्थलं येषु ताहशेषु, पुनः अविच्छिन्नसन्ततिश्रूयमाणानेकशकुनिगणरमणीयरुतेषु अविच्छिन्नसन्तत्या-निर्विच्छेदधारया, श्रूयमाणम्, अनेक शकुनिगणाना-नानापक्षिगणानां, रमणीयं-मनोहरं, रुतं-कूजितं येषु तादृशेषु, सागरकूलकच्छेषु समुद्रतटवर्तिजलप्रायप्रदेशेषु, आत्मना खेन, समानविभवपरिच्छदाभिः समानः-तुल्यः, विभवः-धनं, परिच्छदः-परिवारश्च यासां तादृशीभिः, विद्याधरेन्द्रकुलकुमारिकाभिः विद्याधराधिपतिकन्यकाभिः, परित्ता परिवेष्टिता, उत्तरकुरुभ्यः उत्तरकुरुक्षेत्रात्, समानीतेन उपाहृतेन, कल्पतरुफलरसासवेन कल्पवृक्षफलसम्बन्धिमद्येन, पानोत्सवं सुरापानोत्सवं, प्रवर्तयति प्रारभते । च पुनः, स्वभवनगता स्वगृहं गता सती, सर्वदा सर्वस्मिन् काले, सर्वकलाशास्त्रकुशलेन निखिलशिल्पशास्त्रनिपुणेन, सर्वदेशभाषाविदा सकलदेशभाषाऽभिज्ञेन, सर्वपौराणिकाख्यानकप्रवीणेन सकलपौराणिककथाकुशलेन, स्त्रीजनेन, चित्राभिः अपूर्वाभिः, कथाभिः उपाख्यानैः, विनोद्यमाना प्रमोद्यमाना, स्वप्नेऽपि खप्नावस्थायामपि, किमुत जागरणावस्थायां, पुरुषसन्निधिं पुरुषसम्पर्क, न तु नैव, अभिलषति इच्छति [क] | च पुनः, गुरुभिः पित्रादिभिः, प्रवर्त्यमानापि प्रेर्यमाणापि, पुनः धर्मशास्त्रविद्भिः धर्मशास्त्रज्ञैः, प्रबोध्यमानापि निवेद्यमानापि, पुनः विद्याधरेन्द्रकुलकुमारैः विद्याधराधिपतिवंशजयुवराजैः, अनेकधा अनेकप्रकारैः, प्रलोभ्यमानापि अतिलोभ्यमानापि, पुनः प्रियसखीभिः प्रियवयस्याभिः, प्रसाद्यमानापि अनुकूल्यमानापि, पुनः प्रकटितालीककोपाभिः आविष्कृतकृत्रिमक्रोधाभिः, बान्धववृद्धाभिः बन्धुभूतवृद्धस्त्रीभिः, विक्रियमाणापि चित्तविकारमापाद्यमानापि, न ज्ञायते-किम् आत्मनः खस्य, अनुरूपं योग्य, वरं पतिम् , अनीक्षमाणा अपश्यन्ती, किम् उत, पुरुषपरतन्त्रतया पतिपराधीनतया, यदृच्छाविहारसुखविच्छेदं यथेच्छभ्रमणानन्दव्याघातम्, आशङ्कमाना सन्दिहती, किम् आहोस्वित् , आद्य एव प्रथम एव, विद्याग्रहणसमये अध्ययनकाले, स्वबुद्धिसंकल्पितस्य खविचारप्रतिज्ञातस्य, पुरुषसम्प्रयोगपरिहारवतस्य पुरुषसंयोगवर्जनरूपनियमस्य, समाप्तिकालं निस्तारसमयं, प्रति पालयन्ती प्रतीक्षमाणा, किं किं वा, अन्यजन्मजातसम्बन्ध पुरुषविशेषप्ररूढगाढप्रेमवासनावशेन अन्य जन्मनि-प्राग्भवे जातः, सम्बन्धः-दाम्पत्यरूपो येन तादृशे पुरुषविशेष-पुरुषश्रेष्ठे, प्ररूढस्य-जातस्य, गाढस्य-सान्द्रस्य, प्रेम्णः-स्नेहस्य, या वासना-संस्कारः, तदशेन, पुरुषान्तरेषु तदन्यपुरुषेषु, चक्षुष्णीति नेत्रतृप्तिम् , अवजन्ती अप्रा. मुवती, पाणिग्रहणमङ्गलं विवाहोत्सवं, न अभिलषति वाञ्छति [ख]। तस्याः तिलकमञ्जर्याः, तथाविधां तादृशीं, चित्तचेष्टां मनोवृत्तिं, दृष्टा अनुभूय, अदृष्टप्रतिविधाना अदृष्टप्रतिकारा सती, पत्रलेखा तन्नाम्नी, देवी महाराज्ञी,
"Aho Shrutgyanam"