________________
तिलकमञ्जरी रजनिः पृष्ठलग्ना प्रतिपदमिमामनुसरति, एषा सविभ्रमोल्लासितकनकदण्डा प्रावृडिव सतडिद्गुणा नूपुरध्वनिश्रवणधावितानुत्सारयति गतिमार्गरोधिनो राजहंसान् , इयमुरिक्षप्तपाण्डुपत्रबीटका समुपसृत्य सत्वरा प्रसारिते तिर्यगुपनयति करतले ताम्बूलमस्याः [ए]। किं बहुना ? यद्यदवलोक्यते तत् तत् सर्वमपि रूपमस्य चित्रपटस्य चारुताप्रकर्षहेतुः । एक एव दोषो यदत्र पुरुषरूपमेकमपि न प्रकाशितम् , अनेन च मनागसमग्रशोभोऽयम् , तदधुनाऽप्यस्य शोभातिशयमाधातुं प्रेक्षकजनस्य च कौतुकातिरेकमुत्पादयितुमात्मनश्च सर्ववस्तुविषयं चित्रकर्मकौशलमाविष्कर्तुं युज्यन्ते कतिचिदस्या नरेन्द्रदुहितुः प्रकृतिसुन्दराणि पुरुषरूपाणि परिवारतां नेतुम् । अविरुद्धो हि कन्यकावस्थायामङ्गनानां मनुष्यसन्निधिः।' इति व्याहरति हरिवाहने स प्रतिव्याजहारकुमार! युक्तमादिष्टम् , युज्यते तस्य सर्वमेतद् यः सामान्यकन्यकायाश्चरितमालिखति, मया तु नेदं तथा, किन्तु कस्याश्चित् पुरुषविद्वेषिण्या यथादृष्टं रूपं विलासचेष्टितं च प्रकटितम् , इदं चेत्थमेव प्रकाश्यमानमुपपन्नं भवति नान्यथा । तेनापरिज्ञानमनवधानमनुचितज्ञतामनभ्यासं चात्र विषये न मे संभावयितुमर्हति माननाहः, यदि पुनः कुतूहलं कुमारस्य पुरुषरूपनिर्माणविषयमपि नैपुण्यं द्रष्टुं ततस्तान्यपि दर्शयिष्यामि,
धृतसितातपत्रा गृहीतश्वेतच्छत्रा, असौ वेश्या, पृष्ठलग्ना पृष्ठभागं गता, गगनमध्यारूढहिमकरा गगनमध्येआकाशमध्ये, आरूढः-कृतारोहणः, हिमकरः-चन्द्रो यस्यां तादृशी, पौर्णमासीरजनिरिव पूर्णिमारात्रिरिव इमां कन्यकां, प्रतिपदं प्रतिस्थानं, यद्वा प्रतिपादविक्षेपम् , अनुसरति अनुगच्छति, पुनः सविभ्रमोल्लासितकनकदण्डा सविला. सोत्थापितसुवर्णदण्डा, अत एव सतडिहणा तडिद्गुणेन-विद्युद्दान्ना, सहिता, प्रावृडिव वर्षाकाल इवेत्युत्प्रेक्षा, एषा इयं वेश्या, नूपुरध्वनिश्रवणधावितान् नपुरध्वनिश्रवणेन-पादाभरणझणत्कारश्रवणेन, धावितान्-हंसकूजितशङ्कया सत्वरमागतान् , गतिमार्गरोधिनः गमनमार्गावरोधकान् , राजहंसान हसविशेषान् , उत्सारयति अपनयति । उत्क्षिप्त. पाण्डुपत्रबीटका उत्क्षिप्तम्-उद्धृतं, पाण्डूना-पीतश्वेतवर्णानां, परिणतानामित्यर्थः, पत्राणां-ताम्बूलदलाना, बीटकसम्पुटो यया तादृशी, इयं वेश्या, सत्वरा त्वरासहिता, समुपसृत्य सम्यगुपगत्य, प्रसारिते विस्तारिते, अस्याः कन्यकायाः, करतले, तिर्यक् कुटिलं यथा स्यात् तथा, ताम्बूलम् , उपनयति समर्पयति [ए]। किंबहुना? किमधिकेन ?, यद् यद् अवलोक्यते दृश्यते, तत् तत् सर्वमपि समस्तमपि, रूपम् आकृतिः सौन्दर्य वा, अस्य प्रत्यक्षस्य, चित्रपटस्य, चारुताप्रकर्षहेतुः सौन्दर्योत्कर्षकारणम् , अस्तीति शेषः । एक एव अद्वितीय एव, दोषः वैगुण्यं, यत् , अत्र अस्मिन् चित्रपटे, एकमपि पुरुषरूपं पुरुषाकृतिः, न प्रकाशितं चित्रितम् । अनेन च पुरुषवरूपाप्रकाशनेन च, अयं चित्रपटः, मनाक किञ्चित् , असमनशोभः असम्पूर्णशोभाकः, अस्तीति शेषः। तत् तस्मात् , अधुनापि, अस्य चित्रपटस्य, शोभातिशयं शोभाधिक्यम् , आधातुं जनयितुम् , च पुनः, प्रेक्षकजनस्य दर्शकजनस्य, कौतुकातिरेकम् औत्सुक्यातिशयम् , उत्पादयितुम् , च पुनः, आत्मनः खस्य, चित्रकर्मकौशलं चित्रणात्मककार्यनैपुण्यम् , आविष्कर्तुं प्रकटयितुम् , अस्याः चित्रितायाः, नरेन्द्रदुहितुः चक्रवर्तिकन्यकायाः, परिवारतां परिग्रहतां, नेतुम् आपादयितुं, कतिचित् कतिपयानि, प्रकृतिसुन्दराणि खभावतो मनोहराणि, पुरुषरूपाणि पुरुषाकृतयः, युज्यन्ते चित्रयितुमुचिता वर्तन्ते। हि यतः, कन्यकावस्थायां कौमारावस्थायाम् , अङ्गनानां स्त्रीणां, मनुष्यसन्निधिः पुरुषसन्निधिः, अविरुद्धः अनौचित्यरहितः, प्रत्युत उचित एवेत्यर्थः । इति इत्थं, हरिवाहने व्याहरति कथयति सति, स बालकः, प्रतिव्याजहार प्रत्युक्तवान् , किमित्याह-कुमार! युवराज! युक्तम् उचितम्, आदिष्टम् आज्ञप्तम् । एतत् अनुपदोक्तं, सर्वे, तस्य युज्यते चित्रयितुमुचितम् , यः सामान्यकन्यकायाः साधारणकुमारिकायाः, चरितं चरित्रम् , आलिखति चित्रयति, मया तु इदं प्रत्यक्षभूतं, तथा तद्वत्, न आलिखितमिति शेषः, किन्तु पुरुषविद्वेषिण्याः पुरुषस्पर्धिन्याः कस्याश्चित्, यथादृष्टं दृष्टानतिवर्ति, रूपम् आकृतिः, च पुनः, विलासचेष्टितं विलासचेष्टा, प्रकटितं चित्रितम् , इदं च एतत् तु, इत्थमेव अनेनैव प्रकारेण, प्रकाश्यमानम् आलिख्यमानम् , उपपन्नं युक्तं भवति, अन्यथा अन्यप्रकारेण न, तेन तस्मात् कारणात् , माननाहः पूजार्हः, भवानिति यावत् , अत्र अस्मिन् , विषये, मे मम,
२ तिलक.
"Aho Shrutgyanam"