________________
टिप्पनक - परागविवृतिसंवलिता ।
८
यत इदमनेक चम्पकाशोकतिलकतालीतमालमा लितकूलमुत्तालकन काम्भोजशोभिभिरम्भोजिनीवनैर्दिव्य मिति बालिशैरपि व्यज्यमानमुचितेन क्रमेण परिणाहिनि क्षोणिधर शिखरपृष्ठे प्रतिष्ठापितमपारपरिसरं सरः । इमान्यतिसुन्दराणि लवलीलता सदनानि पूगगहनानि नागवल्लीपत्र मण्डपकतलकुट्टिमानि च तीरदेशेऽस्य दर्शितानि [ ऌ ] | असावत्र निर्यत्नचारुणि रत्नवालुका सैकते सञ्चरन्ती पादचारेण सहचरीवृन्दपरिवृता राजनीतिरिव यथोचित - मवस्थापितवर्णसमुदाया दिनकरप्रभेव प्रकाशितव्यक्तनिम्नोन्नतविभागा रथाङ्गमूर्तिरिव रुचिरावर्तनाभिः सम्यगभिलिखिता शिखा मणिरखिलस्यापि रमणीचक्रस्य चक्रवर्तिकन्यका [ ऌ ] | एतानि चास्याः परिवारलोकेन प्रचलता पुरस्तरलितानि त्रासाद् विहायस्युड्डीयमानान्युड्डीनानि च साक्षात् सचेतनानीव प्रकाशितानि पक्षिमृगमिथुनानि । सेवाचाटुचतुरश्च निपुणमवस्थापितोऽयमस्याः स्थानस्थानेषु निकटवर्ती प्रवृत्तो निजनिजव्यापारेषु रुचिरवेषो वारयोषिज्जनः, तथाहि - असावुपरि धृतसितातपत्रा गगन मध्यारूढहिमकरेव पौर्णमासी
टिप्पनकम् - राजनीतिरिवावस्थापित वर्णसमुदाया एकत्र व्यवस्थापित ब्राह्मणादिसंघातः, अन्यत्र रोपित नीलादिवर्णसमुदाया, दिनकरप्रभेव प्रकाशितव्यक्तनिम्नोन्नतविभागा प्रकटितस्पष्टनीचोच्चप्रदेशा, समानं विशेषणम् [ऌ ] |
अस्यां चित्रकलायां, यदि ते तव, उपदेष्टा तच्छिक्षकः, गुरुजनः स्यादिति शेषः, तर्हि स अल्पमेव किञ्चिदेव, तत्साधनमिति शेषः, यतः यस्मात्, अनेक चम्पकाशोक-ताली - तमालमालितम् अनेकेषाम्-बहूनां चम्पकादितमालान्तपुष्पद्रुमाणां माला-पङ्क्तिः संजाता यस्मिंस्तादृशम् ; पुनः उत्तालकनकाम्भोजशोभिभिः उन्नतसुवर्णकमलशोभिभिः, अम्भोजिनीवनैः कमलिनीवनैः, दिव्यं मनोहरम्, इति इत्थं, बालिशैरपि मूर्खेरपि व्यज्यमानं स्फुटं प्रतीयमानम्, पुनः उचितेन योग्येन, क्रमेण परिपाठ्या, परिणाहिनि विस्तारिणि, क्षोणिधर शिखरपृष्ठे पर्वतशिखरोपरि, प्रतिष्ठा - पितं सन्निवेशितम्, अपारपरिसरम् अनन्तप्रान्तप्रदेशम्, इदं सरः कासारः । पुनः अतिसुन्दराणि अतिमनोहराणि, इमानि प्रत्यक्षाणि, लवलीलतासदनानि लवलीलतागृहाः, पुनः पूगगहनानि क्रमुकवनानि च पुनः, नागवल्लीपत्रमण्डपकतल कुट्टिमानि नागवल्लीपत्राणां ताम्बूलपत्राणां, ये मण्डपका :- हवा मण्डपाः - गृहविशेषाः, तेषां तलकुट्टि मानि-अधस्तनबद्धभूमयः अस्य सरसः, तीरदेशे तटप्रदेशे, दर्शितानि चित्रितानि [ ऌ ] । पुनः निर्यत्तचारुणि स्वभावसुन्दरे, अत्र अस्मिन् चित्रे, रत्नवालुका सैकते रत्नसिकतामयप्रदेशे, पादचारेण पादगल्या, सञ्चरन्ती विचरन्ती, पुनः, सहचरीवृन्दपरिवृता सखी समूहपरिवेष्टिता, पुनः राजनीतिरिच राज्ञः, नीतिः - प्रजासंग्रहपद्धतिः, सेव यथोचितं यथायोग्यम्, अवस्थापितवर्ण समुदाया सन्निवेशित नीलपीतादिरूपसमूहा, पक्षे सन्निवेशितब्राह्मणक्षत्रियादिवर्णसमूहा, पुनः दिनकरप्रभेव सूर्यप्रभव, प्रकाशितव्यक्तनिम्नोन्नतविभागा प्रकाशितौ- प्रकटितौ, व्यक्तौ- स्फुटयै, निनोन्नतविभागौ - नीचोच्चावयवौ यस्याः, पक्षे नीचोच्चप्रदेशौ यया तादृशी, पुनः रथाङ्गमूर्तिरिव चक्राकृतिरिव, रुचिरावर्तनाभिः रुचिरा - मनोहरा, आवर्तरूपा जलभ्रमाकारा, नाभिः - प्राण्यङ्गविशेषः, पक्षे चक्रावयवविशेषश्च यस्यास्तादृशी, अखिलस्यापि समस्तस्यापि रमणी चक्रस्य सुन्दरीगणस्य, शिखामणिः शिरोमणिभूता, असौ चक्रवर्तिकन्यका अखण्ड भूमण्डलेश्वरकुमारिका, सम्यक् सुष्ठु अभिलिखिता चित्रिता [ ] । च पुनः, प्रचलता प्रगच्छता, अस्याः कन्यकायाः, परिवारलोकेन परिवारजनेन, पुरः अग्रे, तरलितानि चञ्चलितानि, त्रासात् भयात्, विहायसि आकाशे, उड्डीयमानानि उत्पतन्ति, च पुनः, उड्डीनानि कतिचिदुत्पतितानि, एतानि, पक्षिमृगमिथुनानि पक्षिहरिणदम्पतयः, साक्षात् प्रत्यक्ष, सचेतनानीव चैतन्यवन्तीव, प्रकाशितानि दर्शितानि । च पुनः अस्याः कन्यकायाः, सेवाचादुचतुरः सेवायै यच्चाटु-प्रियोक्तिः, तच्चतुरः - तन्निपुणः, पुनः निकटवर्ती समीपस्थः, निजनिजव्यापारेषु खखकार्येषु, प्रवृत्तः संलमः, रुचिरवेषः उज्ज्वलवेषः, अयं प्रत्यक्षभूतः, वारयोषिजनः वेश्याजनः, स्थानस्थानेषु तत्तत्स्थानेषु, निपुणं स्फुटम् अवस्थापितः सन्निवेशितः; तथाहि एतदेवाह, यद्वा हि यतः, तथा तदनुसारम् उपरि तत्कन्यको परि,
3
"Aho Shrutgyanam"