________________
तिलकमञ्जरी धेनुकामात्रशत्रपरिग्रहेण पुरुषेणानुगम्यमानः, कृतोपसर्पणश्च द्वारभूमावुत्थाय सत्वरमाकारितः प्रतीहार्या प्रविश्य सरभसमभिमुखप्रहितसप्रसाददृष्टेः कुमारस्य प्रकटितादरः प्रणाममकरोत् । आकारसौन्दर्यातिशयदर्शनोपारूढप्रीतेश्च तस्य किञ्चिदुच्चोच्चारिताक्षरमेहीति कृतसंभाषणस्य समीपमुपससर्प []।
निर्दिष्टसमुचितासनोपविष्टश्च दृष्ट्वा राजसूनोरधःकृतसकलसुरसिद्धविद्याधररूपमाधुर्यमङ्गसौन्दर्यमुपजातविस्मयः परममन्तःपरितोषमुवहत् । अभिमुखप्रहितसस्पृहेक्षणेन च स्तिमितमवलोकितस्तेन कृतपुण्यमात्मानममन्यत [ऋ]।
स्थित्वा च कञ्चित् कालमुपरतवचाश्चित्रपटनिहितनिश्चलनयनमवनिपालतनयं विनयवामनशिराः शनैः पप्रच्छ—'कुमार! अस्ति किञ्चिद् दर्शनयोग्यमत्र चित्रपटे रूपम् ?, उद्भूतरूपः कोऽपि दोषो वा नातिमात्रं प्रतिभाति ?, अद्याप्यनुपजातपरिणतिश्चित्रविद्यायां शिक्षणीयोऽहमखिलकलाशास्त्रपारगेण महाभागेन' इति । हरिवाहनस्तु तं प्रत्युवाच-'बालक! किं शिक्ष्यते तव, स्रष्टा त्वमस्या जगति विद्यायाः, सुजनतेव स्वभावमधुरा जन्मान्तरशताभ्यासादुपागता तवैषा चित्रगतिः, विनीततायामिवास्यामल्पमेव ते यधुपदेष्टा गुरुजनः,
मात्रशस्त्रपरिग्रहेण खगधेनुका-असिपुत्रिका, छुरिकेत्यर्थः, तन्मात्रं यत् शस्त्रं-प्रहरणं, तदेव परिग्रहः-उपकरणं यस्य तादृशेन, पुरुषेण, अनुगम्यमानः अनुस्रियमाणः; च पुनः, द्वारभूमौ द्वारदेशे, कृतोपसर्पणः कृतागमनः; पुनः उत्थाय, प्रतीहार्या द्वारपालिकया, सत्वरं शीघ्रम् , आकारितः आहूतः, पुनः सरभसं सत्वरं, प्रविश्य, प्रकटितादरः प्रकाशितादरः सन् , अभिमुखप्रहितसप्रसाददृष्टः अभिमुखं-सम्मुखे, प्रहिता-प्रेरिता, सप्रसादा-प्रसन्ना, दृष्टियन तादृशस्य, कुमारस्य हरिवाहनस्य, प्रणामं नमस्कारम् , अकरोत् कृतवान् । च पुनः, आकारसौन्दर्यातिशयदर्शनोपारूढप्रीतेः आकारसौन्दर्यातिशयस्य-तत्स्वरूपशोभातिशयस्य, दर्शनेन, उपारूढा-उत्पन्ना, प्रीतिः-स्नेहो यस्य तादृशस्य, पुनः किश्चिदुच्चोच्चारिताक्षरं किञ्चिदुच्चं-किञ्चित् तीव्रम् , उच्चारितम्-अभिव्यजितम् , अक्षरं यस्मिंस्तादृशं यथा स्यात् तथा, एहि आगच्छ, इति कृतसम्भाषणस्य कृतालापस्य, तस्य कुमारस्य, समीपं निकटम् , उपससर्प उपजगाम [क]।
च पुनः, निर्दिष्टसमुचितासनोपविष्टः दर्शितयोग्यासनोपविष्टः सन् , अधकृतसकलसुरसिद्धविद्याधररूपम् अधःकृत-तिरस्कृत, सकलानां-समस्तानां, सुराणां-देवानां, सिद्धानाम्-अणिमाद्यैश्वयेशालिनां, विद्याधराणां-मन्त्रादिधारकाणां च, रूपं सौन्दर्य येन तादृशं,राजसूनोः प्रकृतकुमारस्य, अङ्गसौन्दर्य देह जाचारुतां, दृष्टा दृष्टिगोचरीकृत्य, उपजातविस्मयः उत्पन्नाश्चर्यः, परममनःपरितोषम् अत्यन्तमन्तःसन्तोषम् , उदवहत् प्राप्तवान् । च पुनः, अभिमुखप्रहितसस्पृहेक्षणेन अभिमुखं-सम्मुखे, प्रहितं-प्रेरितं, सस्पृह-सानुरागम् , ईक्षणं-नयनं येन तादृशेन, तेन प्रकृतकुमारेण, स्तिमितं स्थिरं यथा स्यात् तथा, अवलोकितः दृष्टः सन् , आत्मानं खं, कृतपुण्यं पुण्यशालिनम् , अमन्यत प्रतीतवान् [ऋ]।
च पुनः, कश्चित् कालं कियन्तं कालं, स्थित्वा वर्तित्वा, उपरतवचाः निवृत्तवचनः, चित्रपटनिहितनिश्चलनयनं चित्रपटनिवेशितस्थिरदृष्टिम् , अवनिपालतनयं नृपकुमार, हरिवाहनमिति यावत् , विनयवामन शिराः विनयावनतमस्तकः सन् , शनैः मन्दं, पप्रच्छ पृष्टवान् , किमित्याह - 'कुमार! अत्र अस्मिन् , चित्रपटे, दर्शनयोग्य दर्शनीयं, किञ्चित् किमपि, रूपम् , अस्ति वर्तते, वा अथवा, उद्भतरूपः प्रकटरूपः, कोऽपि. दोषः चित्रणत्रुटिः, अतिमात्रम् अत्यन्तं, न प्रतिभाति प्रतीतिपथमवतरति, अद्यापि अधुनापि, चित्रविद्यायां चित्रणकलायाम् , अनुपजातपरिणतिः अप्ररूढपरिपाकः, अनिपुण इति यावत् , अहम् , अखिलकलाशास्त्रपारगेण समग्रशिल्पशास्त्रपारंगतेन, महाभागेन महानुभावेन, भवतेत्यर्थः, शिक्षणीयः शिक्षयितुं योग्यः, अस्मीति शेष इति । हरिवाहनस्तु तं प्रकृतं बालक, प्रत्युवाच प्रत्युक्तवान् , किमित्याह-बालक ! तव किं शिक्ष्यते शिक्षयिष्यते, यतः जगति लोके, अस्याः विद्यायाः शिल्पविद्यायाः स्रष्टा सृष्टिकर्ता, असीति शेषः, सुजनतेव सौजन्यमिव, स्वभावमधुरा प्रकृतिमनोहरा, जन्मान्तरशताभ्यासात् प्राग्भवीयतीवाभ्यासात्, उपागता प्राप्ता, तव एषा चित्रगतिः चित्रकलाभिज्ञता । विनीततायामिव नम्रतायामिव,
"Aho Shrutgyanam"