________________
टिप्पनक - परागविवृतिसंवलिता ।
रिन्द्रनीलकर्णाभरणयोरधोमुखपातिभिर्मयूखप्ररोहैः पक्ष्मलित पर्यन्ततया समुपजातश्मश्रुलेखोद्भेदमिव वदनमुद्वहन्, ललाटपट्टच्छलादुपरि संनिविष्टाष्टमी चन्द्रशकलस्य मुखसरोजस्य ग्लानिशङ्कया बालदिनकरेणेत्र संयोजितमात्ममण्डलैकखण्ड मखण्डताम्बूलो पयोगबद्धबहलरागमधरपल्लवं दधानः, धीरदृष्टिविक्षेपक्षोभिताभिमुखतेजस्विराजहंसमण्डलः, शशिबिम्बदर्शनेऽपि मुकुलितान्युपहसन्निवापाङ्गनिर्गतेन क्षीरशुचिना चक्षुपः प्रभापटलेन मार्गवा पिकापुण्डरीकवनानि, पट्टांशुकोष्णीषिणा सदृशवर्णतया कूजितानुमित परिमलालीनषट्पदकुलेन विचकिलमालभारिणा केशभारेण भ्राजमानः [ऊ ], यौवनोपचितसर्वावयवेन प्रांशुना विशदनेपथ्येन सावष्टम्भपदनिक्षेप पिशुनितान्तः पौरुषावलेपेन प्रलघुवेत्रकर ण्डिकाक्रोड निहितकतिपयताम्बूलबीटकसनाथां दक्षिणेतरांसस्रंसिनीमजस्रभुजदण्डदोलन चलाचलामुत्कृष्टकर्पटप्रसेविका मनतिलम्बां बिभ्रता खड्ग
६
टिप्पनकम् - धीरविक्षेपक्षोभिताभिमुखतेजस्विराजहंसमण्डलः एकत्र स्थिरनेत्र प्रेरणात्रासितसम्मुखसतेजोनृपप्रधानसंघातः, अन्यत्र क्षोभितादित्यचन्द्रबिम्बः । उष्णीषः- शिरोवेष्टनम् [ऊ] ।
पुनः श्रवणपाशप्रणयिनोः शोभनकर्णस्नेहिनोः, इन्द्रनीलकरणाभरणयोः नीलमणिमयकर्णालङ्करणयोः, अधोमुखपातिभिः अधोमुखप्रसर्पिभिः, मयूखप्ररोहैः किरणाङ्कुरैः, पक्ष्मलित पर्यन्ततया व्याप्तप्रान्ततया, समुपजातश्मश्रुलेखोद्भेदमिव समुपजातः - समुत्पन्नः, श्मश्रुलेखायाः- दाढिकाख्यरोमराज्याः, उद्भेदः - उद्गमो यस्मिंस्तादृशमिव, वदनं मुखम्, उद्वहन् धारयन्; पुनः ललाटपट्टच्छलात् पट्टिकाकारललाटव्याजात्, उपरि ऊर्ध्वभागे, सन्निविष्टाष्टमीचन्द्रशकलस्य सन्निविष्टः - संस्थितः, अष्टमीचन्द्रस्य, शकल :- खण्डो यस्य तादृशस्य, मुखसरोजस्य मुखारविन्दस्य, ग्लानिशङ्कया संकोच संशयेन, बालदिनकरेण बालसूर्येण, संयोजितं सन्निवेशितम्, आत्ममण्डलैकखण्डमिव आत्ममण्डलस्य-स्वबिम्बस्य, एकखण्डमिव - एककलामिव, अखण्डताम्बूलोपयोगबद्धबहलरागम् अखण्डस्य - समग्रस्य, ताम्बूलस्य-सोपकरणनागवल्लीदलस्य, उपयोगेन- भक्षणेन, बद्धः - उत्पादितः, बहलः - प्रचुरः, रागः- रक्तता यस्मिंस्तादृशम्, अधरपल्लवम् ओष्ठरूपं पल्लवं दधानः धारयन्; पुनः धीरदृष्टिविक्षेपक्षोभिताभिमुखतेजखिराजहंसमण्डलः धीरदृष्टिविक्षेपेण-स्थिरलोचनप्रेरणया, क्षोभितं - त्रासमापादितम्, अभिमुखतेजखिनाम्-अभिमुखं तेजः - प्रभावः पराक्रमः कान्तिर्येषां तादृशानां, राजहंसानां - प्रधाननृपाणां मण्डलं- समूहो येन तादृशः, पक्षे धीरदृष्टिविक्षेपेण क्षोभितम् अभिमुखागतं तेजस्विनोः-प्रकाशशालिनोः, राजहंसयोः - चन्द्रसूर्ययोः, मण्डलं-वर्तुलं विमानं येन तादृशः । पुनः शशिबिम्बदर्शनेऽपि चन्द्रबिम्बदर्शनेऽपि, मुकुलितानि संकुचितानि मार्गवापिकापुण्डरीकवनानि मार्गवर्तिदीर्घिकास्थकमलवनानि, अपाङ्गनिर्गतेन नेत्रप्रान्तनिःसृतेन, क्षीरशुचिना दुग्धधवलेन, चक्षुषः नेत्रकमलस्य, प्रभापटलेन कान्तिपुञ्जेन, उपहसन्निव परिहसन्निव पुनः पट्टांशुकोष्णीषिणा पट्टांशुकं - कौशेय सूक्ष्मवस्त्रमेव, उष्णीषं - शिरोवेष्टनं यस्मिंस्तादृशेन, सदृशवर्णतया समानवर्णतया, कूजितानुमित परिमलालीनषट्पदकुलेन कूजितेन - गुञ्जितेन, अनुमितम् - अनुमानविषयीकृतं, परिमलालीनं-परिमलेन - उत्कृष्टसौरभेण, आलीनम् - अन्तर्हितं, षट्पदकुलं-भ्रमरगणो यस्मिंस्तादृशेन, विच किलमालभारिणा विचकिलानाम् - अशोककुसुमानां, या माला तद्धारिणा, केशभारेण केशपुञ्जेन, भ्राजमानः शोभमानः [ऊ ]; पुनः यौवनोपचितसर्वावयवेन यौवनेन तारुण्येन, उपचिताः -पूर्णाः, सर्वे, अवयवानि अङ्गानि यस्य तादृशेन, प्रांशुना उन्नतेन, विशदनेपथ्येन उज्ज्वलवेषेण, सावष्टम्भपदनिक्षेपपिशु निरन्ततः पौरुषावलेपेन सावष्टम्भेनऔद्धत्यपूर्णेन, पदनिक्षेपेण - पादन्यासेन, पिशुनितः - सूचितः, अन्तः पौरुषस्य - आन्तरिकपराक्रमस्य, अवलेपः- गर्वो येन तादृशेन, प्रलघु वेत्रकरण्डिकाक्रोड निहित कतिपय ताम्बूलबीटकसनाथां प्रलघोः - अतिलघोः, वेत्रकर दण्डिकायाः - वेत्रमयपात्रविशेषस्य, क्रोडे – मध्ये, निहितैः - स्थापितैः, कतिपयताम्बूलबीटकैः - कतिपयताम्बूलपुटैः, सनाथां - समन्वितां, दक्षिणेतरांसस्रंसिनीं वामस्कन्धलम्बिनीम्, अजस्रभुजदण्डदोलन चलाचलाम् अनवरतदण्डाकारबाहुदोलनेनोद्वेलन्तीम् - अनतिलम्बाम् अनतिदीर्घाम्, उत्कृष्टकर्पटप्रसेविकाम् उत्तमपटखण्डमयमञ्जूषां, बिभ्रता धारयता, खड्गधेनुका
"Aho Shrutgyanam"