________________
तिलकमञ्जरी इति निवेदयन्त्यामेव तस्यां स पथिकदारकः पार्थिवसुतस्य दर्शनपथमाययौ। आजगाम चाभिमुखमस्खलितया गत्या स्वभावपाटलं चरणयुगलमङ्गलतासङ्गवेल्लिताभिर्मार्गवल्लिभिर्निजपल्लवकान्तिलोपाशङ्कयेव कुसुमरजसा धूसरीकृतमुद्वहन् , गूढजानुपर्वणा वृत्तानुपूर्वेण प्रेङ्खता पादक्षेपेषु सविलासमूरुदण्डयुगलेन चलितबाल. रम्भास्तम्भमिव तमुद्यानदेशमादर्शयन् , ज्वलदनेकपद्मरागशकलया तानवप्रकर्षादतिकष्टदृश्यमुदरदेशमाविष्कर्तु मुपसंगृहीतप्रचुरदीपयेव तपनीयपट्टिकया गाढावनद्धशुकह रितपट्टांशुकनिवसनः, शुष्कचन्दनाङ्गरागसंदेहदायिना हारच्छविपटलेन छुरितोरःकपाटः, स्खलद्विशृङ्खलप्रकोष्ठहाटकवलयवाचालस्य पाणियुगलस्य विलसन्तीभिरुभयतः सलिलधाराधवलाभिनखमयूखसंततिभिरापूरयन्नासन्नतरुलतालवालानि [उ], नीलपीतपाटलैरुल्लसद्भिरङ्गुलीयकरत्नरागैरनुरागवृद्धये राजसूनोरपरमिव चित्रकर्मनर्मनिर्माणमम्बरे कुर्वाणः, सूक्ष्मविमलेन पाटलाकुसुमपाटलकान्तिना शरत्कालदिवस इव बालातपेन दूरमाहितच्छायावृद्धिधृतनेत्रकूर्पासकेन, श्रवणपाशप्रणयिनो
टिप्पनकम्-आलवालं-स्थानकम् [उ] ।
इति इत्थं, तस्यां द्वारपाल्यां, निवेदयन्त्यां विज्ञापयन्त्यामेव सत्यां, स पथिकदारकः पथिकबालकः, पार्थिवसुतस्य युवराजस्य, दर्शनपथं दृष्टिमार्गम् , आययौ आगतवान् । च पुनः अङ्गलतासङ्गवेल्लिताभिः अङ्गलतासनेनअङ्गरूपलतासम्पर्केण, वेल्लिताभिः-उद्भूताभिः, मार्गवल्लिभिः-मार्गवर्तिलताभिः, निजपल्लवकान्तिलोपाशङ्कयेव निजायाःखकीयायाः, पल्लवकान्तेः- पल्लवतुल्यद्युतेः, लोपस्य-विध्वंसनस्य, आशङ्कयेव-सन्देहेनेव, कुसुमरजसा पुष्पपरागेण, कृत किश्चित्पीतश्वतीकृत, चरणयुगल पादद्वयम् , उद्वहन् धारयन् , अस्खलितया अप्रतिहतया, गत्या, अभिमुखं समक्षम् , आजगाम आगतः; कीदृशः ? गूढजानुपर्वणा आवृतजानूरुसन्धिस्थानेन, पुनः वृत्तानुपूर्वेण वृत्त-वर्तुलम् , अनुपूर्वम् - उत्तरोत्तरं यस्मिंस्तादृशेन, पुनः पादक्षेपेषु चरणोत्क्षेपणेषु सत्सु, सविलासं सविभ्रमं, प्रेक्षता प्रचलता, ऊरुदण्डयुगलेन जानूपरिभागरूपस्तम्भद्वयेन, चलितबालरम्भास्तम्भमिव चलिताः-चलितुमारब्धाः, बालरम्भा. स्तम्भाः-बालकदलीदण्डा यस्मिंस्तादृशमिव, उद्यानदेश क्रीडाकाननप्रदेशम् , आदर्शयन् प्रत्याययन् ; पुनः ज्वलदनेकपद्मरागशकलया दीप्यमानानेकरक्तमणिखण्डविशिष्टया, अत एव तानवप्रकर्षात् कार्यातिशयात् , अतिकष्टदृश्यम् अतिक्लेशेन द्रष्टुं शक्यम् , उदरदेशम् उदरभागम् , आविष्कर्तुं प्रकाशयितुम् , उपसंगृहीतप्रचुरदीपयेव उपसंगृहीताः-राशीकृताः, प्रचुरा:-अधिकाः, दीपा यस्यां तादृश्येवेत्युप्रेक्षा, तपनीयपट्टिकया सुवर्णपट्टिकया, गाढावनद्धशुकहरितपट्टांशुकनिवसनः गाढं-सान्द्रम् , अवनद्धं-नियत्रितं, शुकहरित-शुकजातीयपक्षिवत् हरितवर्ण, पट्टांशुकं-कौशेयश्लक्ष्णवस्त्रमेव, निवसनम्-आच्छादनं यस्य तादृशः; पुनः शुष्कचन्दनाङ्गरागसन्देहदायिना शुष्कस्य चन्दनरूपस्य, अङ्गरागस्य-अगलेपनद्रवस्य, संशयोत्पादिना, हारच्छविपटलेन मालाद्युतिसन्दोहेन, छरितोराकपाट: छुरितः-व्याप्तः, उरः-वक्षःस्थलरूपः, कपाटो यस्य तादृशः; पुनः स्खलद्विशङ्कलप्रकोष्ठहाटकवलयवाचालस्य स्खलझ्यां-निपत यां विशृङ्खलाभ्यां- विघटिताभ्यो, प्रकोष्ठहाटकवलयाभ्यां-मणिबन्धवर्तिसुवर्णकङ्कणाभ्यां, वाचालस्य -शब्दायमानस लस्य हस्तद्वयस्य, उभयतः भागद्वये, विलसन्तीभिः स्फुरन्तीभिः, सलिलधाराधवलाभिः जलधाराशुभ्राभिः, नखमयूखसन्ततिभिः नखकिरणगणैः, आसन्नतरुलतालवालानि निकटवृक्षलताधस्तनजलधारदेशान् , आपूरयन परिपूरयन् [उ ] पुनः राजसूनोः प्रकृतयुवराजस्य, अनुरागवृद्धये प्रीतिवर्धनाय, नीलपीतपाटलैः नीलपीतश्वेतरक्तवर्णैः, उल्लसद्भिः उद्भासमानैः, अङ्गुलीयकरत्नरागैः अङ्गुल्यलङ्करणरत्नद्युतिभिः, अम्बरे आकाशे, अपरम् अन्यत् , चित्रकर्मनर्मनिर्माणमिव चित्रणात्मककीडानिर्माणमिव, कुर्वाणः विदधानः; पुनः सूक्ष्मविमलेन सूक्ष्मखच्छेन, पाटलाकुसुमपाटलकान्तिना पाटलायाः तदाख्यलताविशेषस्य, यत् कुसुमं-पुष्पं, तस्येव पाटला-श्वेतरक्ता कान्तिर्यस्य तादृशेन, धृतनेत्रकूसकेन गृहीतनेत्रावरणेन, शरत्कालदिवसे शरदृतुदिने, बालातपेनेव अपरिणतातपेनेव. दरं दूरपर्यन्तम्, आहितच्छायावृद्धिः आहिता-जानता, छायाय
"Aho Shrutgyanam"