________________
टिप्पनक-परागविवृतिसंवलिता। सविध एवास्य मार्गतरुशाखान्तरालेन विरलोपलक्ष्यमाणरक्तांशुकपताकस्य कुसुमायुधवेश्मनः कल्पितमनल्पेन परिगतं चूतखण्डेन जलमण्डपमध्यास्ते [इ] । प्रस्तुतविचित्रकथाविनोदं चैनमागत्यागत्य नगरनिवासिनो वैदेशिकाश्च लोकाः कलासु शास्त्रेषु शिल्पेषु च प्रकाशयितुमात्मनो विचक्षणतामनुक्षणं पश्यन्ति । यदि च कौतुकं प्रयोजनं च दर्शनेन ततस्त्वमपि सज्जो भव, अनुभव भूयसः कालादविकलं जन्मफलम् अहमेव गत्वा दर्शयामि द्रष्टव्यलोकदर्शनाधिकारनियुक्ता महाभागम् ।' इत्युक्ते मया प्रीतिविकसितेक्षणः स क्षणं ध्यात्वा गदितवान्-'वाग्मिनि! किमप्यानन्दितोऽहममुना त्वदालापेन, यदि यथावेदितस्तथैवासौ कुमारः, तत् प्रवर्तस्व शीघ्रम् , अस्ति मे महत् प्रयोजनमस्य दर्शनेन, यथा च मम तथाऽस्यापि मद्दर्शनेन, केवलमिदं कुरु-गृहाण चित्रपटमेनम् , अत्र सप्रयत्नेन भूत्वा लिखितमेकं मया दिव्यकुमारिकारूपमनुरूपपरिवारपरिकरम् , तदस्य कुरु कलाशास्त्रकुशलस्य कौशलिकम् , अहमपि त्वामनुप्राप्त एव ।' इत्यभिदधानः संनिधानस्थापितायाः प्रकृष्टचीनकर्पटप्रसेविकायाः सयत्नमाकृष्य चित्रपटमेनमुपनीतवान् [ई]।'
टिप्पनकम्-प्रसेविकायाः कोत्थलिकायाः [ई]।
त्तम , इदम् एतत् , उद्यानं क्रीडाकाननम् , आगतः, मार्गतरुशाखान्तरालेन मार्गवर्तिवृक्षशाखामध्येन, विरलोपलक्ष्यमाणरक्तांशुकपताकस्य विरलम्-अनिरन्तरम् , असमग्रमित्यर्थः, उपलक्ष्यमाणाः-दृश्यमानाः, रक्तांशुकपताकाः-रक्तश्लक्ष्णवस्त्रपताका यस्मिस्तादृशस्य, अस्य पुरोवर्तिनः, कुसुमायुधवेश्मनः कामदेवगृहस्य, सविध एव निकट एव, कल्पितं रचितम् , अनल्पेन प्रचुरेण सान्द्रेणेति यावत् , चतखण्डेन आम्रवणेन, परिगतं व्याप्तं, जलमण्डपं जलमयं गृहम् , अध्यास्ते अधितिष्ठति [इ]। च पुनः, नगरनिवासिनः नागरिकाः, च पुनः, वैदेशिकाः विदेशादागताः, लोकाः जनाः, प्रस्तुतविचित्रकथाविनोदं प्रस्तुतः-प्रवर्तितः, विचित्रकथाभिः-अपूर्वकथाभिः, विनोदः-प्रीतियन तादृशम् , एनम् इमं हरिवाहनमिति यावत् , आगत्य आगत्य असकृदागत्य, कलासु नाट्यादिषु, शास्त्रेषु आगमेषु, च पुनः, शिल्पेषु चित्रणादिषु, आत्मनः खस्य, विचक्षणताम् अभिज्ञता, प्रकाशयितुम् उद्भावयितुम् , अनुक्षणं प्रतिक्षणं, पश्यन्ति दृष्टिगोचरीकुर्वन्ति। यदि कौतुकं तद्दर्शनौत्सुक्यम् , च पुनः, दर्शनेन तत्साक्षात्करणेन, प्रयोजनम् , अस्तीति शेषः, तर्हि त्वमपि, सज्जः सन्नद्धः, भव, भूयसः अतिबहोः, कालात् , अविकल सकलं, जन्मफलं जन्मप्रयोजनम् , अनुभव प्राप्नुहि। द्रष्टव्यलोकदर्शनाधिकारनियुक्ता दर्शनीयजनदर्शनाधिकारनियुक्का, अहमेव, गत्वा, महाभागं महानुभावं, हरिवाहनमित्यर्थः, दर्शयामि दृष्टिगोचरतां नयामि' मया इति उक्त कथिते सति, प्रीतिविकसितेक्षणःहर्षोत्फुल्ललोचनः,स बालकः, क्षणं ध्यात्वा विचिन्त्य, गदितवान् उक्तवान् , किमित्याह-वाग्मिनि! प्रशस्तवादिनि!, अनुना तेन, त्वदालापेन त्वदाभाषणेन, अहं, किमपि अत्यन्तम् , आनन्दितः प्रसादितः, यदि यथा येन प्रकारेण, आवेदितः वर्णितः, तथैव तत्प्रकार एव, असौ कुमारः युवराजः, वर्तत इति शेषः, तत् तर्हि, शीघ्रं सत्वरं, प्रवर्तस्व तद्दर्शनाय प्रवृत्तिं कुरु, अस्य बुद्धया सन्निकृष्टस्य हरिवाहनस्य, दर्शनेन, मे मम, महत् उत्कृष्टं, प्रयोजनम् , अस्ति, च पुनः, यथा यादृशं, मम तद्दर्शनेन प्रयोजनमिति शेषः, तथा तादृश, मद्दर्शनेन, अस्यापि हरिवाहनस्यापि । केवलम् , इदं मम बुद्धिस्थं कार्य, कुरु, किमित्याहएनम् इभ, चित्रपटं चित्राधिष्ठितवस्त्रं, गृहाण धारय, अत्र अस्मिन् चित्रपटे, सप्रयत्नेन प्रयत्नवता, भूत्वा, मया, अनुरूपपरिवारपरिकरम् अनुरूपः-अनुगुणः, परिवारपरिकरः-परिच्छदसमूहो यस्य तादृशम् , एकं दिव्यकुमारिकारूपं कमनीयकन्यका कृतिः, लिखितं चित्रितम् , तत् तस्मात्, कलाशास्त्रकुशलस्य शिल्पविद्याविचक्षणस्य, अस्य प्रस्तुतयुवराजस्य, कौशलिकं माङ्गलिकं, चित्रितकुमारिकोद्वाहमित्यर्थः, कुरु सम्पादय, अहमपि, त्वाम् , अनुप्राप्त एव अनुगत एव, अस्मीति शेषः । इति इत्थम् , अभिदधानः ब्रुवाणः, सन्निधानस्थापितायाः निकटधृतायाः, प्रकृष्टचीनकर्पटप्रसेविकायाः उत्कृष्ट चीनदेशीयवस्त्रखण्डमञ्जषायाः सकाशात् , सयत्नं यत्नसहितम् , आकृष्य निष्कास्य, एनम् इम, चित्रपटं चित्राधिष्ठितवस्त्रम् , उपनीतवान् दत्तवा
"Aho Shrutgyanam"