________________
तिलकमञ्जरी समुपविश्य द्वारि दर्शितादरेण—'सुन्दरि! क एषः ? कस्यात्मजः ? किमभिधानश्च राजपुत्रः ? यस्य विधृतातिरुचिरवेषोऽयमितस्ततः संचरति बाह्योऽप्यनुचरवर्गः' इति। निशम्य चेदं नूनमद्यैवायमन्यदेशादागतोऽन्यथा नैवं यदृच्छया पृच्छतीति चिन्तयन्त्या मया प्राञ्जलमेवोदितम्— 'भ्रातः ! शृणु, निवेदयामि, एष निःशेषभारतवर्षविख्यातगुणसंपदखिलभूपालवृन्दवन्दितपादारविन्दयुगलः सकलविपक्षराजराजयक्ष्मा राजलक्ष्मीनिवासजङ्गमकमलखण्डस्त्यागतृप्ताप्तचारणपरम्पराप्रवृत्तिजनिततीव्रमन्मथोन्मदाभिरखिल दिङ्मुखख्यातरूपसौभाग्यसंपद्भिपान्तरमहाराजकन्यकाभिरनुदिवसमपहार्यमाणचित्रफलकारोपित विद्धरूपो रूपतुलितनलकूबरश्चतुरम्बुराशिवेलावनावच्छिन्नभूमण्डलपतेरैक्ष्वाकक्षोणिपालकुलतिलकस्य त्रैलोक्यनाथेन भगवता पाकशासनेनाप्यनेकशस्त्रिदशसंसदि श्लाघितमहिम्नो महाराजमेघवाहनस्य निजशिरश्छेदसाहसप्रसादितराजलक्ष्मीवरप्रदानलब्ध एकसूनुर्नृत्यगीतचित्रादिकलाशास्त्रपारदृश्वा हरिवाहनो नाम कुमारः क्रीडार्थमिदमुद्यानमागतः
टिप्पनकम्-धनदपुत्रः- नलकुबरः [इ] ।
दृष्टः [आ] । च पुनः, अन्तिकोद्देशम् निकटोर्ध्वदेशम् , आगता अहम् , द्वारि तन्मण्डपद्वारदेशे, समुपविश्य सम्यगुपविश्य, दर्शितादरेण प्रकटितादरेण, तेन बालकेन, अहं पृष्टा अनुपदवक्ष्यमाणजिज्ञासां ज्ञापिता, किमित्याहसुन्दरि! मनोहरे।, एषः अयं, कः? कस्य आत्मजः, च पुनः किमभिधानः? किन्नामा ?, राजपुत्रः नृपकुमारः, यस्य यत्सम्बन्धी, विधृतातिरुचिरवेषः गृहीतपरमोज्वलवेषः, अयं बाह्योऽपि किमुताभ्यन्तरिकः, अनुचरवर्गः किङ्करगणः, इतस्ततः अत्र तत्र, सञ्चरति विचरति, इति । च पुनः, इदं तद्वाक्यमेतत् , निशम्य श्रुत्वा, अद्यैव अस्मिन्नेव दिने, अयं बालकः, नूनम् अवश्यम् , अन्यदेशात् विदेशात् , आगतः, अन्यथा एतद्देशीयत्वे, यदृच्छया यथेच्छम् , एवं न पृच्छति पृच्छेत् , इति इत्थं, चिन्तयन्त्या विमृशन्त्या, मया, प्राञ्जलमेव सरलमेव, स्पष्टमेवेति यावत् , उदितम् उक्तम् । किमित्याह-भ्रातः ! शृणु खप्रश्नोत्तरं श्रवणगोचरीकुरु, निवेदयामि विज्ञापयामि, एषः अयं, निःशेषभारतवर्षविख्यातगुणसम्पदखिलभूपालवृन्दवन्दितपादारविन्दयुगलः निःशेषे-समस्ते, भारतवर्षे, विख्याता-प्रसिद्धा, गुणसमृद्धिर्येषां तादृशानाम् , अखिलभूपालानां-समस्तनृपाणां, वृन्देन-गणेन, वन्दितम्-अभिवादितं स्तुतं वा, पादारविन्दयुगलंचरणकमलयुगलं यस्य तादृशः; पुनः सकलविपक्षराजराजयक्ष्मा सकलाना-सर्वेषां, विपक्षाणां-शत्रुभूतानां, राज्ञा, क्षये राजयक्ष्मा-तदाख्यरोगराजः; पुनः लक्ष्मीनिवासजङ्गमकमलखण्डः लक्ष्म्याः , निवासः-निवासास्पदभूतः, जङ्गमः-गमनशीलः, कमलखण्डः-कमलकाननरूपः, पुनः द्वीपान्तरमहाराजकन्यकाभिः अन्यद्वीपवासिमहानृपकुमारिकाभिः, अनदिवसं प्रतिदिनम् , अपहार्यमाणचित्रफलकारोपितविद्धरूपः अपहार्यमाणं-क्रियमाणापहरणं, चित्रफलकारोपितंचित्रपट्टिकानिहितं, विद्धं चित्रितं, रूपम्-आकृतिर्यस्य तादृशः, कीदृशीभिः ? त्यागतृप्ताप्तचारणपरम्पराप्रवृत्तिजनिततीवमन्मथोन्मदाभिः त्यागेन-दानेन, तृप्तानां-तुष्टानाम् , आप्तचारणपरम्पराणां-विश्वस्तबन्दिगणानां, प्रवृत्त्या-वार्तया, जनितः, तीव्रः-उत्कटः, मन्मथोन्मादः-कामविकारो यासां ताभिः, पुन: अखिलदिनखख्यातरूपसौभाग्यसम्पद्भिः अशेषदिगन्तविश्रुतरूपलावण्यसम्पत्तिकाभिः; पुनः रूपतुलितनलकूबरः रूपेण कान्त्या, तुलितः-उपमितः, नलकूबरःकुबेरात्मजो येन तादृशः; पुनः चतुरम्बुराशिवेलावनावच्छिन्नभूमण्डलपतेः चतुर्णाम् अम्बुराशीना-समुद्राणां, या वेलाः-तटाः, तद्वर्तिवनैः, अवच्छिन्नस्य-परिच्छिन्नस्य, भूमण्डलस्य, पत्युः, पुनः ऐक्ष्वाकक्षोणिपालकुलतिलकस्य इक्ष्वाकुकुलोत्पन्नभूपतिगणश्रेष्टस्य, त्रैलोक्यनाथेन त्रिभुवनस्वामिना, भगवता ऐश्वर्यशालिना, पाकशासनेनापि इन्द्रेणापि, अनेकशः बहुशः, त्रिदशसंसदि देवसभायां, श्लाघितमहिम्नः प्रशंसितमहत्ताकस्य, महाराजमेघवाहनस्य मेघवाहनाख्यमहानृपतेः, निजशिरश्छेदसाहसप्रसादितराजलक्ष्मीवरप्रदानलब्धः स्वमस्तककर्तनसाहसप्रीणित. राजलक्ष्मीकर्तृकवरप्रदान प्राप्तः, एकसूनुः एकमात्रपुत्रः; पुनः नृत्यगीतचित्रादिकलाशास्त्रपारदृश्वा नृत्यादिकलानां यानि शास्त्राणि-आगमाः, तेषां पारदृश्वा- पारं गतः, हरिवाहनो नाम हरिवाहनाख्यः, कुमारः युवराजः, क्रीडार्थ क्रीडानिमि
"Aho Shrutgyanam"