________________
टिप्पनक-परागविवृतिसंवलिता। शरीरावयवसमुदायचारुतामतिचिरम् । अनुपरतकौतुकश्च मुहुः केशपाशे, मुहुर्मुखशशिनि, मुहुरधरपत्रे, मुहुरक्षिपात्रयोः, मुहुः कण्ठकन्दले, मुहुः स्तनमण्डले, मुहुर्मध्यभागे, मुहुर्नाभिचक्राभोगे, मुहुर्जघनभारे, मुहुरूरुस्तम्भयोः, मुहुश्वरणवारिरुहयोः, कृतारोहावरोहया दृष्टया तां व्यभावयत् [अ] । अनुरागभावितमनाश्च परिवृत्य किञ्चित् तदाकारदर्शनोत्सुकचेतसः समरकेतोः कमलगुप्तप्रमुखानां च प्रधानराजपुत्राणामदर्शयत् । अपृच्छच्च तां प्रसादप्रहितदृष्टिभरपालिकां-'वज्रार्गले ! कुतः समासादितमिदमसंभाव्यदर्शनमन्यत्र दिव्यलोकाच्चित्रम्' इति। अब्रवीच सा—'कुमार! विज्ञापयामि, श्रूयतां , यतः प्राप्तमिदम् । इदानीमेव द्वारदेशमशून्यं विधाय कौतुकाकृष्टा द्रष्टुमुद्यानलक्ष्मीमितो गतास्मि, सविस्मयप्रहितचक्षुषा च तत इतः प्रसर्पन्या मया सरित्तटासन्नतरुणतरुखण्डमध्यवर्तिन्यतिमुक्तकलतामण्डपे तत्क्षणानीतसलिलार्द्रनलिनीपलाशकल्पितं तल्पमधिशयानो मनसिशय इवातिशयतीव्रामीशाननयनाग्निदाहवेदनां विनोदयितुमायात एको दर्शनीयाकृतिः पञ्चदशवर्षदेशीयो वैदेशिकः पथिकदारको दृष्टः [आ] | पृष्टा च तेनाहमन्तिकोद्देशमागता
नेत्रेण, त्रिभुवनातिशायिनी लोकत्रयोत्कृष्टाम् , अस्याः चित्रपुत्रिकायाः, शरीरावयवसमुदायचारुतां शरीराङ्गासमूहसौन्दर्यम् , अतिचिरम् अतिदीर्घकालं, विममर्श समालोचयाञ्चकार । च पुनः, अनुपरतकौतुकः अनिवृत्तौत्सुक्यः सन् , केशपाशे केशविन्यासविशेषे, मुहुः अनेकवारम् , पुनः मुखशशिनि मुखचन्द्रे, मुहुः, पुनः अधरपत्रे ओष्ठपल्लवे, मुहुः, पुनः अक्षिपात्रयोः नेत्रपुटयोः, मुहुः, पुनः कण्ठकन्दले कण्ठनाले, मुहुः, पुनः स्तनमण्डले वर्तुलस्तने, मुहः पुनः मध्यभागे कतिप्रदेश, मुहः, पुनः नाभिचक्राभोगे नाभिमण्डलविस्तारे, मुडः, पुनः जघनभारे कटिपुरोवर्तिमण्डले, मुहुः, पुनः ऊरुस्तम्भयोः जानूपरिभागरूपस्तम्भयोः, मुहुः, पुनः चरणवारिरुहयोः चरणकमलयोः, मुहुः, कृतारोहावरोहया कृतः, आरोहः-उत्क्षेपणम् , अवरोहः-अपक्षेपणं च यस्यास्तादृश्या, दृष्ट्या नेत्रेण, तां चित्रपुत्रिकां, व्यभावयत् विमृष्टवान् [अ]।
च पुनः, अनुरागभावितमनाः प्रीत्याकृष्टहृदयः, किञ्चित् ईषत् , परिवृत्य परावृत्य, तदाकारदर्शनोत्सुकचेतसः तस्याः-पुत्रिकायाः, आकारदर्शने, उत्सुकम्-उत्कण्ठितं, चेतः-हृदयं यस्य तादृशस्य, समरकेतोः तदाख्यनृपकुमारस्य, च पुनः, कमलगुप्तप्रमुखानां कमलगुप्तादीनां, प्रधानराजपुत्राणां मुख्यनृपकुमाराणाम् , अदर्शयत् दृष्टिगोचरतां प्रापितवान् । च पुनः, प्रसादप्रहितदृष्टिः प्रीतिप्रेरितदृष्टिः, तां प्रकृतां, द्वारपालिकां प्रतीहारीम् , अपृच्छत पृष्टवान् , किमित्याह-वज्रार्गले! तत्संज्ञिके। दिव्यलोकात स्वर्गलोकात्, अन्यत्र अन्यस्मिन् लोके, असम्भाव्यदर्शनम् असम्भाव्य-सम्भावयितुमप्यशक्यं, दर्शनं यस्य तादृशम् , इदं चित्रं, कुतः कस्मात् , समासादितं सम्प्राप्तम् । च पुनः, सा द्वारपालिका, अब्रवीत् उक्तवती, किमित्याह-कुमार! युवराज!, विज्ञापयामि अवबोधयामि, श्रूयतां श्रवणगोचरीक्रियताम् , यतः यस्मात् , इदं चित्रं, प्राप्तं लब्धम् । इदानीमेव अधुनैव, द्वारदेश द्वारस्थानम् , अशन्यं स्वप्रतिनिधिसनाथं, विधाय कृत्वा, कौतुकाकृष्टा औत्सुक्यवशीकृता सती, इतः अस्मात् स्थानात् , उद्यानलक्ष्मी क्रीडाकाननरामणीयक, द्रष्टुं दृष्टिगोचरीकर्तु, गता अस्मि; च पुनः, सविस्मयप्रहितचक्षुषा साश्चर्यप्रेरितदृष्ट्या, तत इतः अत्र तत्र, प्रसर्पन्त्या भ्राम्यन्त्या, मया सरित्तटासन्नतरुणतरुखण्डमध्यवर्तिनि सरित्तटस्य-नदीतटस्य, आसन्नः-निकटो यः, तरुणतरुखण्ड:-परिणतवृक्षसमूहः, तन्मध्यवर्तिनि, अतिमुक्तकलतामण्डपे मुक्ताम् अतिक्रान्तःशुक्लत्वेनेत्यतिमुक्तः, तदाख्याया लतायाः-माधवीलतायाः, मण्डपे-तत्पिहितोदरगृहविशेषे, तत्क्षणानीतसलिलार्द्रनलिनीपलाशकल्पितं तत्कालानीतजलक्लिन्नकमलिनीदलरचितं, तल्पं शय्याम् , अधिशयानः वपन्, अतिशयतीव्राम अतिदुस्सहाम्, ईशाननयनाग्निदाहवेदनाम् ईशानस्य-शिवस्य, नयनाग्निना-तृतीयनेत्ररूपाग्निना, यो दाहः, तद्वेदनांतदुःखं, विनोदयितुं शमयितुम् , आयातः आगतः, मनसिशय इव कामदेव इवेत्युत्प्रेक्षा, एकः, दर्शनीयाकृतिः मनोहराकारः, पञ्चदशवर्षदेशीयः पञ्चाधिकदशवर्षवयस्ककल्पः, वैदेशिकः विदेशोत्पन्नः, पथिकदारकः पथिकबालकः,
"Aho Shrutgyanam"