________________
॥ अहं ॥
आशैशवशीलशालिने श्री नेमीश्वराय नमः ।
श्री जिनेन्द्रशासनैकरसिक - धाराधीशासादितसरस्वती बिरुद - कवीन्द्रविप्राग्रणी - परमार्हत-श्रीधनपालसुधीशेन विरचिता
तिलकमञ्जरी ।
[ तृतीयो विभागः ] तदुपरि
www.
विबुधशिरोमणि श्रीशान्त्याचार्यवर्यविरचितं टिप्पनकम् । श्रीमत्तपोगच्छाधिपति-सर्वतन्त्र स्वतत्र - शासनसम्राड्-जगद्गुरुश्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद - कविरत्नेति पदालङ्कृतेन विजयलावण्यसूरिणा
प्रणीता परागविवृतिश्च ।
नरेन्द्रतनयस्तु वीक्षितेन सर्वातिशायिना तस्य चारुत्वेन श्रुतेन चास्याः कुतूहलविधायिना विदग्धाला पेन जनितप्रीतिर्गृहीत्वा तमादरेण 'भद्रे ! किमत्र लिखितम्' इत्यभिदधानः संनिधाने समासीनायाश्चामरग्राहिण्याः समुपनिन्ये। सलीलवलितभ्रूलतालक्षिताज्ञया च तया तत्क्षणमेव विस्तारिते पुरस्तात् तत्र निहितदृष्टिरत्युत्कृष्टरूपां रूपिणीमिव भगवतो मन्मथस्य जयघोषणामुदारवेषसविशेषचारुगात्री मचिरप्राप्तयौवनां कन्यकारूपधारिणीमेकां चित्रपुत्रिकां ददर्श, विममर्श चादृष्टपूर्वाकृतिविशेषदर्शन दूर विकसत्तारया दृशा त्रिभुवनातिशायिनीमस्याः
नरेन्द्रतनयस्तु युवराजस्तु, हरिवाहनस्त्वित्यर्थः । वीक्षितेन अवलोकितेन, तस्य चित्रपटस्य, सर्वातिशायिना सर्वोत्तमेन चारुत्वेन सौन्दर्येण च पुनः श्रुतेन श्रवणगोचरीकृतेन, कुतूहल विधायिना औत्सुक्यजनकेन, अस्याः प्रतीहार्याः, विदग्धालापेन नैपुण्यपूर्णेन आभाषणेन, जनितप्रीतिः उत्पादितस्नेहः, तं चित्रपटम्, आदरेण आदरपूर्वकं, गृहीत्वा त्वा, भद्रे ! कल्याणिनि । अत्र अस्मिन् पटे, किं लिखितम् अङ्कितम् इति इत्थम्, अभिदधानः ब्रुवाणः, सन्निधाने समीपे समासीनायाः समुपविशन्त्याः, चामरग्राहिण्याः बालव्यजनधारिण्याः स्त्रियाः समुपनिन्ये समर्पितवान्। च पुनः, सलीलवलित भ्रूलतालक्षिताज्ञया सलीलं - लीलासहितं यथा स्यात् तथा, वलितया - वक्रतामापादितया, भ्रूलतया-नेत्रोपरितन रोमराजिलतया, लक्षिता-प्रतीता, आज्ञा- तद्विस्तारणादेशो यया तादृश्या, तया चामरग्राहिण्या, तत्क्षणमेव तत्काल एव पुरस्तात् अग्रे, विस्तारिते प्रस्तारिते, तत्र चित्रपटे, निहितदृष्टिः निवेशितदृष्टिः सन् अत्युत्कृष्टरूपाम् अत्यन्तोत्कृष्ट सौन्दर्याम्, रूपिणीं रूपवतीं, भगवतः प्रभुत्वशालिनः मन्मथस्य कामदेवस्य, जयघोषणामिव जयध्वनिमिवेत्युत्प्रेक्षा, उदारवेषस विशेषचारुगात्रीम् उदारवेषेण - उत्कृष्टवेषेण, सविशेषचारु-निरतिशयसुन्दरं, गात्रं-शरीरं यस्यास्तादृशीम् अचिरप्राप्तयौवनां प्राप्ताभिनवतारुण्यां, कन्यकारूपधारिणीं कुमारिकाकारवतीम्, एकां, चित्रपुत्रिकां चित्रितपुत्री, ददर्श दृष्टवान् । च पुनः अदृष्टपूर्वाकृति विशेषदर्शन दूर विकसत्तारया अदृष्टपूर्वस्य-पूर्वमनवलोकितस्य, आकृतिविशेषस्य, दर्शनेन, दूरं विकसन्ती - प्रसरन्ती, तारका- कनीनिका यस्यां तादृश्या, दशा
"Aho Shrutgyanam"