Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 28
________________ १६ टिप्पनक-परागविवृतिसंवलिता । वृत्तान्तावेदनेन, पृष्टया च विजने वैजयन्तीनगरविप्लवात् प्रभृति सर्वस्तया निवेदितो निजप्रवासवृत्तान्त इत्यवधार्य कार्यो न देवेन तां प्रति संदेहः' इति, अतिवाह्य च तस्य नगरे रात्रिमेकामुद्गते समन्तादुद्दयोतिताशेषदिशि दशशतमरीचौ मोचयित्वात्मानमागत्य काञ्चीमुपास्य कश्चित् कालं भर्तृदारिकां गन्धर्वदत्तां क्षिप्रमेवागन्तव्यम् । एष चाधुनैव साधितबहुरूपिणीविद्यश्चित्रमायो नाम विद्याधरः प्रस्थितस्य ते पथि सहायो भविष्यति" इति [च]। तदेतदवश्यकरणीयं राजकार्यमवधार्य धीमता गन्तुमेवाहमादेष्टव्यो न मनुष्यरूपाणि चित्रकर्मणा निर्मातुं यस्मादिदानीमत्यन्तगमनोत्सुकोऽहम् , उत्सुकमनोभिश्च कर्तुमारब्धमतिस्थूलमपि कर्म नोपजायते सुसूत्रम् , किं पुनश्चित्तैकाग्रतातिशयनिर्वर्तनीयं चित्रम् । तदधुना तत्र त्रिकूटाचलकूटचूडामणौ विचित्रवीर्यनगरे काश्चयां च तावन्मया गन्तव्यम् , अन्तरा च यदि कश्चिदन्तरायो न भविष्यति, ततस्ततो निवृत्तेन नियमादिहागत्य पुनरपि द्रष्टव्यमिष्टफलदायकं सकलार्थिकल्पद्रुमस्य ते विद्रुमारुणतलं चरणप्रवालयुगलम् , उपदर्शितबहुविकल्पचित्रशिल्पेन च स्थित्वा दिवसमेकमेकाग्रमनसा तथाभिलेखितव्यं यथावस्थितं महाभागस्य रूपं यथा चित्रपटवर्तिना तेन पुरतो दृष्टमात्रेण सिद्धगारुडमन्त्रेणेव भर्तृदारिकायाः प्रशममुपया मया खयं गत्वा, दृष्टा दृष्टिगोचरीकृता, च पुनः, सर्वस्य समस्तस्य, ज्ञातिवर्गस्य बन्धुगणस्य, कुशलवृत्तान्तावेदनेन कुशलवार्ताविज्ञापनेन, समाश्वासिता सम्यक् तोषिता । च पुनः, विजने रहसि, पृष्टया जिज्ञासां ज्ञापितया, तया गन्धर्वदत्तया, वैजयन्तीनगरविप्लवात् प्रभृति तदाख्यनगरदुर्घटनामारभ्य, सर्वः समस्तः, निजप्रवासवृत्तान्तः स्वविदेशवासवार्ता, निवेदितः बोधितः, इत्यवधार्य इति निश्चित्य, देवेन नृपेण भवता, तां गन्धर्वदत्ता प्रति, सन्देहः स्वसुतात्व. शङ्का, न कार्यः कर्तव्य इति । च पुनः, तस्य विचित्रवीर्यस्य, नगरे, एकां रात्रिम् , अतिवाह्य व्यतीत्य, उद्योतिताशेषदिशि उद्भासितसर्वदिके, दशशतमरीचौ सहस्रकिरणे सूर्य इति यावत् , समन्तात् सर्वतः, उद्गते उदिते सति, आत्मानं खं, मोचयित्वा ततो विश्लष्य, काञ्चीं तदाख्यनगरीम् , आगत्य, कश्चित् कालं कतिपयकालं, भर्तृदारिकां राजसुताम् , उपास्य निषेव्य, क्षिप्रमेव शीघ्रमेव, आगन्तव्यं परावर्तितव्यम् । च पुनः, अधुनैव इदानीमेव, साधित. बहुरूपिणीविद्यः साधिता-सिद्धिमापादिता, बहुरूपिणी-नानारूपप्रयोजिका, विद्या येन तादृशः, चित्रमायो नाम तत्संज्ञकः, एष विद्याधरः, प्रस्थितस्य प्रयातस्य, ते तव, सहायः सह गन्ता, भविष्यति सम्पत्स्यते' इति [च]। तत् तस्माद्धेतोः, एतत् अनुपदोक्तं, राजकार्यम् , अवश्यकरणीयम् अवश्यकर्तव्यम् , अवधार्य निश्चित्य, धीमता कार्याकार्यविवेकशालिना, भवतेति शेषः, अहं गन्तुमेव तदर्थ प्रयातुमेव, आदेष्टव्यः आज्ञापयितुमुचितः, न तु चित्रकर्मणा चित्रणक्रियया, मनुष्यरूपाणि पुरुषाकृतीः, निर्मातं रचयितुम् , यस्मात येन हेतुना, इदा अहम् , अत्यन्तगमनोत्सुकः गन्तुमुत्कण्ठितः, अस्मीति शेषः। उत्सुकमनोभिश्च कार्यान्तरोत्कण्ठितहृदयैस्तु, कर्तु साधयितुम् , आरब्धमपि उपक्रान्तमपि, अतिस्थूलमपि अतिसरलमपि, कर्म कार्यम् , सुसूत्रं सुसङ्घटितं, न उपजायते सम्पद्यते, किं पुनः किमुत, चित्तैकाग्रतातिशयनिर्वर्तनीयं चित्रं मनःसमाधानातिशयसम्पादनीयं चित्रणकार्यम् । तत् तस्माद्धेतोः, अधुना सम्प्रति, त्रिकूटाचलकूटचडामणौ त्रिकूटपर्वतशिखरशिरोमुकुटरूपे, तत्र तस्मिन्, विचित्रवीर्यनगरे तत्संज्ञकनगरे, च पुनः, काश्यां तदाख्यनगर्या f, मया तावत् प्रथम, गन्तव्यं गमनं प्राप्तकालम् । च पुनः, अन्तरा मध्ये, यदि कश्चित् कोऽपि, अन्तरायः विघ्नः, न भविष्यति आपतिष्यति, ततः तर्हि, ततः तन्नगरात् , निवृत्तेन परावृत्तेन, मयेति शेषः, नियमात् अवश्यम् , इह अत्र, आगत्य उपस्थाय, सकलार्थिकल्पद्रमस्य समस्तयाचककल्पवृक्षभूतस्य, ते तव, इष्टफलदायकम् अभिलषितफलसाधकं, विद्रमारुणतलं प्रवालरक्ताधःप्रदेशम् , चरणप्रवालयुगलं पादपल्लवद्वयम् , पुनरपि द्रष्टव्यं दृष्टिगोचरीकरणीयम् । च पुनः, उपदर्शितबहुविकल्पचित्रशिल्पेन उपदर्शितः-प्रकटितः, बहुविकल्पः-नानाविधः, चित्रशिल्पा-चित्रणकला येन तादृशेन, मयेति शेषः, एक दिवसं दिनं, स्थित्वा वर्तित्वा, एकाग्रमनसा समाहितहृदयेन सता, यथाऽवस्थितं यथावृत्तं, महाभागस्य महानुभावस्य, रूपम् आकृतिः, तथा तेन प्रकारेण, अभिलेखितव्यं चित्रणीयम् , यथा येन प्रकारेण, पुरतः अग्रे, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202