Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 41
________________ तिलकमञ्जरी २९ प्रथमयौवनस्य । यौवनोपचयपरिमण्डलस्तनमनङ्गवेदनोच्छेदनायेव सर्वदा हृदयगतमधत्त तद्रूपम् । आविप्कृतानेकभावविभ्रमाणि लिखितानीव केनापि निपुणचित्रकरेण दिग्भित्तिषु दिवानिशं ददर्श तस्याः प्रतिबिम्बानि [ल]। दृष्ट्वा च तमकाण्डवैरिणा मन्मथेन धर्मर्तुना च युगपदुपताप्यमानमुत्पन्नानुकम्पो निर्वापयितुमिव चक्रे जगत्यामवतारमखिलविश्वोपकारी वारिदागमः । प्रवर्तितप्रबलधारापतयो भङ्गुमिव तस्य धारागृहस्पृहां क्षिप्रमेवान्तरिक्षमाच्छादयाञ्चक्रुः अब्जिनीपलाशप्रकरनीलाः पयोमुचः । सततयामिनीजागरणजडतारका प्रसादयितुमिव तदृष्टिमविरलोद्भिन्नमरकतश्यामशाद्वला बभूव भूतधात्री। प्रथमजलधरासारशिशिरास्तदङ्गतापमिव निर्वापयितुं निर्वातुमारभन्त संततामोदमकरन्दमांसलाः कदम्बमरुतः । मानसस्मरणसञ्जातरणरणकास्तदनुरागमाख्यातुमिव खेचरेन्द्रदुहितुरुत्तरां दिशमभिप्रतस्थिरे राजहंसाः [व] । तद्विरहदाह विच्छेदाक्षमेण पत्रखण्डाडम्बरेण विहितापत्रपाणीव वर्षासलिलपूरितासु विलाससरसीषु निममजुरम्भोजिनीवनानि । घनधाराभिवृष्टमूर्तयस्तदार्तिदर्शनदुःखिता इव दूरविनतैः पल्लवेक्षणैरम्बुकणिकाश्रुविसरमजस्रमसृजन्नुपवनद्रुमाः । विभ्रमाणि आविष्कृताः-प्रकटिताः, अनेके-बहवः, भावाः-अभिप्राया यस्तादृशाः, विभ्रमाः-अपाङ्गभङ्ग्यादयो विलासा येषु तादृशानि, पुनः दिभित्तिषु दिकुज्येषु, केनापि अविज्ञातनान्ना, निपुणचित्रकरण कुशलचित्रकारेण, लिखितानीव चित्रितानीवेत्युत्प्रेक्षा, तस्याः तिलकमञ्जर्याः, प्रतिबिम्बानि प्रतिकृतीः, दिवानिशं रात्रिन्दिवं, ददर्श दृष्टिगोचरीचकार [ल]। अकाण्डवैरिणा अनवसरशत्रुणा, मन्मथेन कामदेवेन, च पुनः, घर्मतुना ग्रीष्मर्तुना, तं हरिवाहनं, युगपत् एककालम् , उपताप्यमानं पीड्यमानं, दृष्ट्वा, उत्पन्नानुकम्पः उदितदयः, विश्वोपकारी सर्वोपकारी, वारिदागमः वर्षतुः, निर्वापयितुमिव तदुभयोपतापोपशमनार्थमिव, जगत्यां लोके, अवतारम् आगमनं, चक्रे कृतवान् । पुनः तस्य हरिवाहनस्य, धारागृहस्पृहां जलधारोत्स्यन्दनयन्त्राधिष्ठितगृहाकाङ्क्षा, भक्तमिव निवर्तयितुमिव, प्रवर्तितप्रबलधारापतयः प्रवर्तिताःप्रक्षिप्ताः, प्रबलाः-प्रकृष्टाः, धारापतयः-जलधाराश्रेणयो यैस्तादृशाः, अब्जिनीपलाशप्रकरनीलाः कमलिनीदलौघवन्नीलवर्णः, पयोमचः मेघाः, क्षिप्रमेव अविलम्बमेव, अन्तरिक्षं गगनमण्डलम्, आच्छादयाञ्चः आच्छादितवन्तः । पुनः सततयामिनीजागरणजडतारकां सततं-निरन्तरं, यामिन्यां-रात्रौ, जागरणेन-निद्रानिरोधेन, जडा-निष्परिस्पन्दा,तारका-कनीनिका यस्यां तादृशीं, तदृष्टिं तस्य-हरिवाहनस्य, दृष्टिं-चक्षुः, प्रसादयितुमिव प्रीणयितुमिव, भूतधात्री पृथ्वी, अविरलोद्भिन्नमरकतश्यामशाला सान्द्रोद्गतेन्द्रनीलमणिसदृशश्यामवर्णनवतृणसंकुला, बभूव सम्पेदे । पुनः प्रथमजलधराऽऽसारशिशिराः प्रथमजलधराऽऽसारैः-नवजलधरधारासम्पातैः, शिशिराः-शीतलाः, पुनः सन्तताऽऽमोदमकरन्दमांसला: सन्ततः-सर्वतो विस्तारितः, आमोदः-उत्कटसौरभ यैस्तादृशैः, मकरन्दैः-पुष्परसैः, मांसलाः स्थूलाः, सम्पृक्ता इत्यर्थः, कदम्बमरुतः कदम्बाश्लिष्टपवनाः, तदङ्गतापं तस्य-हरिवाहनस्य, शरीरतापं, निर्वापयितुमिव प्रशमयितुमिव, निर्वातुं सच्चरितुम् , आरभन्त प्रवृत्ताः। पुनः मानसस्मरणसंजातरणरणकाः मानसस्मरणेन-स्वाभिमतवारिदागमनेन वाश्रयणीयमानसाख्यसरोवरस्मृत्या, संजातम्-उद्भूतं, रणरणकं-तद्गमनौत्सुक्यं येषां तादृशाः, राजहंसाः रक्तचञ्चुचरणा हंसावशेषाः,खेचरेन्द्रदुहितुः विद्याधरेन्द्रकुमारिकामपि, तदनुरागं तस्य-हरिवाहनस्य, अनुराग-प्रीतिम्, आख्यातुमिव कथयितुमिव, उत्तरां दिशं मानससरोवरगमनमार्गमित्यर्थः, अभिप्रतस्थिरे तदभिमुख प्रयाताः [व]। पुनः तद्विरहदाहविच्छेदाक्षमण तस्य-हरिवाहनस्य, यः, विरहदाहः-तिलकमजरीविरहज्वरः, तद्विच्छेदाक्षमेण-तनिवर्तनासमर्थन, पत्रखण्डाडम्बरेण पत्रपुजरूपडम्बरेण, विहितापत्रपाणि विहिता-उत्पादिता, अपत्रपा-लजा येषां तादृशानि, इवेत्युत्प्रेक्षा, अम्भोजिनीवनानि कमलिनीकाननानि, वर्षासलिलपूरितासु वर्षासम्बन्धिजलपूर्णासु, विलाससरसीषु केलिकासारेषु, निममज्जुः निमग्नाः । पुनः धनधाराभिवृष्टमूर्तयः घनस्य-मेघस्य, यद्वा घनाभिः सान्द्राभिः, धाराभिः-जलसन्ततिभिः, अभिवृष्टा-अभिषिक्ता, शाः. उपवनदमाः केलिकाननवृक्षाः. तदार्तिदर्शनदाखिता इव तस्य-हरिवाहनस्य, या आर्तिःकामव्यथा, तद्दर्शनेन, दुःखिता इव-व्यथिता इव, दूरविनतैः दूरपर्यन्तमवनतैः, पल्लवेक्षणैः नवदललोचनैः, अम्बुकणिकाश्रु "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202