Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 40
________________ २८ टिप्पनक-परागविवृतिसंवलिता। मगादशिशिरगभस्तिः [य] । स्तोकावशेषे च दिवसकरधामनि श्यामायमानेषु दिग्भागेष्वनागमनेन गन्धर्वकस्य किञ्चिन्म्लानमुखकमलशोभो दिवस इव नभसः क्रमेण क्रीडाचलादवततार, जगाम च स्वावासम् । आसीनश्च शयने चिन्तयन् मुहूर्तमात्रेण चेतसा तस्य विलम्बकरणानि कृच्छ्राप्तनिद्रो निशामनयत् । अपरेधुरपि तेनैव क्रमेणोद्यानमगमत् , तेनैव विधिना तत्र सर्वाः क्रियाश्चकार, तथैव तस्यागमनमीक्षमाणो दिवसमनयत् [र]। अकृतागतौ च तत्र क्रमादतिक्रामत्सु दिवसेषु शिथिलीभूततिलकमञ्जरीसमागमाशाबन्धस्य प्रबन्धविस्तारितोदग्रसंतापसंपद् यथोत्तरप्रथितदिवसायामदुस्तरो निरन्तरप्रवर्तितोष्णबाष्पसंततिरपर इव निदाघसमयो जजम्भे जनितनिर्भरव्यथस्तस्य दवथुः । अविरतं सस्मार सस्मरेण चेतसा चित्रपटपुत्रिकानुसारपरिकल्पितस्य चक्रसेनतनयातनुलतालावण्यस्य । सततमन्वचिन्तयच्चारुतामनुदिनोपचीयमानस्य तस्याः टिप्पनकम्-विस्तारितोदग्रतापसम्पत् तापः-संताप उष्णं च, उष्णबाप्पः-नेत्रजलमुष्णोष्मा च, दवथुःउपतापः [ ल]। अस्तशिखरम् अस्ताचलशिखरम् , अगात् गतवान् , अस्तमगादित्यर्थः [य]। च पुनः, दिवसकरधामनि सूर्यकिरणे, स्तोकावशेषे किञ्चिदवशिष्टे सति, पुनः दिग्भागेषु दिशामशेषु, श्यामायमानेषु श्यामतामापाद्यमानेषु, गन्धर्वकस्य, अनागमनेन आगमनाभावेन, किञ्चिन्मलानमुखकमलशोभः किञ्चिन्म्लाना-ईषन्मलिना, मुखरूपकमल स्य शोभा-कान्तिर्यस्य तादृशः, हरिवाहन इति शेषः, नभसः आकाशात् , दिवस इव दिनमिव, क्रीडाचलात् क्रीडापर्वतात, क्रमेण शनैः, अवततार अधस्तादाजगाम । च पुनः, स्ववासं स्ववासभवन, जगाम गतवान् । च पुनः, शयने शय्यायाम् , आसीन: उपविशन , आर्तेन व्यथितेन, चेतसा हृदयेन, तस्य गन्धर्वकस्य, विलम्बकारणानि आगमनविलम्बहेतून् , मुहर्त क्षणं, चिन्तयन् आलोचयन् , कृच्छ्राप्तनिद्रः कृच्छ्रेण- आयासेन, आप्ता-लब्धा, निद्रा येन तादृशः सन् , निशां रात्रिम् , अनयत् व्यतीतवान् । अपरेधुरपि उत्तरदिनेऽपि, तेनैव अनुपदोक्तेनैव, क्रमेण विधिना, उद्यानं क्रीडाकाननम् , अगमत् गतवान् , तत्र तस्मिन्नुद्याने, तेनैव अनुपदवर्णितेनैव, विधिना क्रमेण, सर्वाः समस्ताः, क्रियाः कर्माणि, चकार कृतवान् । तथैव अनुपदोक्तप्रकारेणैव, तस्य गन्धर्वकस्य, आगमनम् आगमनमार्गम् , ईक्षमाणः पश्यन् , दिवसं दिनम् , अनयत् व्यतीतवान् [र]। तत्र तस्मिन् गन्धर्वके, अकृतागतौ अकृतागमने सति, क्रमात् पर्यायेण, दिवसेषु दिनेषु, अतिकामत्सु व्यतिगच्छत्सु, शिथिलीभूततिलकमञ्जरीसमागमाशाबन्धस्य शिथिलीभूतः-शैथिल्यमापन्नः, तिलकमञ्जरीसमागमस्य-तत्सङ्गमस्य, या आशा-सम्भावना, तद्रूपः, बन्धः-प्राणबन्धनं यस्य तादृशस्य, तस्य हरिवाहनस्य, जनितनिर्भरव्यथः उत्पादितातिदुःखः, दवथुः संतापः गात्रादिदाहो वा, अपरः अन्यः, निदाघसमयः ग्रीष्मकाल इव, जज़म्मे प्रादुर्बभूव, कीदृशः प्रबन्धविस्तारितोदग्रसन्तापसम्पत् प्रबन्धेन-सान्द्रभावेन प्रकृष्टाधिना वा, विस्तारिता-वर्धिता, उदग्राणाम्-उत्पन्नानां, सन्तापानां-मदनोद्गमजन्यान्तवराणां, पक्षे बाह्योष्मणां, सम्पत्-समृद्धिर्यन तादृशः, पुनः यथोत्तरप्रथितदिवसायामदुस्तरः यथोत्तरम्-उत्तरोत्तरं, प्रथितेन-विस्तृतेन, दिवसायामेन-दिनदैर्येण प्रातिभासिकेन, पक्षे प्रास्तविकेन, दुस्तरः-दुरतिक्रमः, पुनःनिरन्तरप्रवर्तितोष्णबाष्पसन्ततिः निरन्तरम् -अविरतं, प्रवर्तिता-प्रादुर्भाविता, उष्णबाष्पसन्ततिःउष्णाश्रुजलप्रवाहः, पक्षे उष्णतापपरम्परा येन तादृशः, पुनः सस्मरेण स्मरः-कामः, तत्सहितेन, तदाविष्टेनेत्यर्थः, चेतसा हृदयेन, चित्रपटपुत्रिकानुसारपरिकल्पितस्य चित्रपटचित्रितकन्यकाप्रतिकृत्यनुगुणमुत्प्रेक्षितस्य, चक्रसेनतनयातनुलतालावण्यस्य चक्रसेनाख्यनृपकुमारिकाशरीरलतासौन्दर्यस्य, अविरतं निरन्तरं, सस्मार स्मृतवान् । पुनः अनुदिनोपचीयमानस्य अनुदिन-प्रतिदिनम् , उपचीयमानस्य-वर्धमानस्य, तस्याः तिलकमञ्जर्याः, प्रथमयौवनस्य नवतारुण्यस्य, चारुतां मनोहरताम् , अन्वचिन्तयत् आलोचितवान् । पुनः अनवेदनोच्छेदनायेव कामदेववेदनोत्कर्तनार्थमिव, यौवनोपचय परिमण्डलस्तनं यौवनोपचयेन-यौवनावस्थावृद्धया, परिमण्डलो वर्तुलाकारौ, स्तनौ यस्य तादृशं, तद्रूपं तस्याः-तिलकमञ्जर्याः, रूपम्-आकारं, सर्वदा सर्वकालं, हृदयगतं हृदयस्थितं यथा स्यात् तथा, अधत्त धृतवान् । पुनः आविष्कृतानेकभाव "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202