Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 39
________________ २७ तिलकमञ्जरी स्पर्शसंवेदनानन्दमन्दीकृतभुजपरिस्पन्दाभिरविरतस्यन्दमानहस्तारविन्दसंपादितान्तःप्रीतिभिः प्रसाधिकाभिरधिगात्रमतिचिरेण निर्वर्तितकुङ्कामोद्वर्तनक्रमः शिरसि घटितपाटलाकुसुमसारस्मेरमल्लिकामुकुलमुण्डमालो यथासन्नमुपनीतताम्बूलकुसुममालानुलेपनैः प्रणयिलोकैः सहारब्धविविधसंकथस्तस्थौ काञ्चिदपि वेलाम् । गते च विरलतां विलीनतापे तपनतेजसि तरलितस्तिलकमञ्जरीसंगमाभिलाषेण तत्काल समुपस्थितावधेर्गन्धर्वकस्यागमनमार्गमवलोकयितुमभ्यग्रवर्तिनः शिखाप्रचुम्बिताम्बरकोडमाक्रीडशैलस्य शिखरमारुरोह [म]। ___ तत्र चोर्ध्वस्थितः पुरस्तादवस्थितस्य प्रेयसोऽन्यतमभृत्यस्य प्रत्यंसमर्पिताङ्गभारो निवारितातपः त्र्यस्रीकृतातपत्रेण छत्रधारेण तत्काललब्धावसरैरवारितैः प्रतीहारलोकेन प्रविश्य पार्श्वतः स्थितैः प्रणयवाचालैरुद्यानपालैरावेद्यमानरामणीयकेषु लतामण्डपेषु तरुखण्डेषु सारणिस्रोतस्सु कृत्रिमनदीसेतुबन्धेषु केलिवापीकूलजलयात्रेषु चाभिनवकृतसंस्कारेष्वन्तरान्तरानिक्षिप्तचक्षुरीक्षमाणो दक्षिणाशां तावदास्त यावदस्तशिखर www उद्वर्तितवदनकरतलः उद्वर्तितं-विलेपनेन सुगन्धीकृतं, वदन-मुखं करतलं च येन तादृशः, पुनः प्रसाधिकाभिः अङ्गालङ्कारिकाभिः स्त्रीभिः, अधिगात्रं शरीरे, अतिचिरेण अतिदीर्घकालेन, निर्वर्तितकुङ्कुमोद्वर्तनक्रमः निर्वर्तितः-सम्पादितः, कुङ्कुमेन-कुङ्कुमद्रवेण, उद्धर्तनक्रमः-विलेपनविधिर्यस्य तादृशः, कीदृशीभिः? स्पर्शसंवेदनानन्दमन्दीकृतभुजपरिस्पन्दाभिः स्पर्शसंवेदनानन्देन-दरीरस्पर्शानुभवजन्यानन्देन, मन्दीकृतः-शिथिलीकृतः, भुजपरिस्पन्दः-बाहुसञ्चारो याभिस्तादृशीभिः, पुनः अविरतस्यन्दमानहस्तारविन्दसंपादितान्तःप्रीतिभिः अविरतं-सन्ततं, स्यन्दमानेन-खेदमानेन, हस्तारविन्देन-करकमलेन, जनिता-उत्पादिता, अन्तःप्रीतिः-तत्स्यन्दनसूचितमदनोद्गमेनान्तःप्रसादो याभिस्तादृशीभिः, पुनः कीदृशः ? शिरसि मस्तके, घटितपाटलाकुसुमसारस्मेरमल्लिकामुकुलमुण्डमालः घटिता-ताभिनिवेशिता, पाटलाकुसुमैः पाटलासंज्ञकलतापुष्पैः, साराणा-शबलवर्णानां, स्मेरमल्लिकामुकुलानां-किचिद्विकसितमल्लीकुड्मलानां, मुण्डमाला-शिरोमाला यस्य तादृशः, पुनः यथाऽऽसन्नं यथानिकटम् , उपनीतताम्बूलकुसुममाल्यानुलेपनैः उपनीतानि-उपस्थापितानि, ताम्बूलानि-सोपकरणानि नागवल्लीदलानि, कुसुममालाः-पुष्पमालाः, अनुलेपनानि-चन्दनादिविलेपनानि यैस्तादृशैः, प्रणयिलोकैः सुहृजनैः सह, आरब्धविविधसंकथः प्रवर्तितनानाप्रकारकालापः, काश्चिदपि कतिपयामपि, वेलां कालं, तस्थौ स्थितवान्।च पुनः, विलीनतापे निवृत्ततापे, तपनतेजसि सूर्यप्रभायां, विरलताम् अल्पता, गते प्राप्ते सति, तिलकमञ्जरीसङ्गमाभिलाषण तत्सम्मेलनकुतूहलेन, तरलितः चपलितः, तत्कालं तत्क्षणम् , समुपस्थितावधेः प्राप्तागमनावधेः, गन्धर्वकस्य तत्संज्ञकस्य प्रकृतविद्याधरकुमारस्य, आगमनमार्गम् , अवलोकयितुं द्रष्टुम् , अभ्यग्रवर्तिनः अभिमुखम् अग्रं यस्य तदभ्यग्रं-समीपं, तत्र स्थितस्य, आक्रीडशैलस्य उद्यानगिरेः, शिखाग्रचुम्बिताम्बरकोडं शिखाग्रेण-चूडाण, चुम्बितं-स्पृष्टम् , अम्बरकोडं-गगनमध्यं येन तादृशं, शिखरम् उपरिभागम् , आरुरोह आरूढ़वान् [म] | च पुनः, तत्र तस्मिन् शिखरे, ऊर्ध्वस्थितः उपरिस्थितः सन् , पुरस्तात् अग्रे, अवस्थितस्य वर्तमानस्य, प्रेयसः अतिप्रियस्य, अन्यतमभृत्यस्य बहूनां मध्ये एकस्य किङ्करस्य, प्रत्यंसं प्रतिस्कन्धप्रदेशम् , अर्पिताङ्गभारः आरोपितस्वशरीरभारः, पुन: व्यस्त्रीकृतातपत्रेण व्यस्रीकृतं-त्रिकोणीकृतम् , आतपत्रं-छत्रं येन तादृशेन, छत्रधारेण छत्रग्राहिणा, निवारितातपः निवारितः-निवर्तितः, आतपः- सूर्यतेजो यस्मात् तादृशः, पुनः तत्काललब्धावसरैः तस्मिन् काले प्राप्तावसरैः, पुनः प्रतीहारलोकेन द्वारपालजनेन, अवारितैः अनवरुद्धैः, पुनः प्रविश्य तत्सविधे प्रवेशं कृत्वा, पार्श्वतः पार्श्व, स्थितैः, पुनः प्रणयवाचालैः प्रणयेन-प्रीत्या, वाचालैः-कुत्सिताधिकवक्तृभिः, उद्यानपालैः उद्यानरक्षाधिकृतपुरुषैः, आवेद्यमानरामणीयकेषु वर्ण्यमानचारुताकेषु, पुनः अभिनवकृतसंस्कारेषु अचिरसंस्कृतेषु, पुनः लतामण्डपेषु लतापिहितोदरगृहेषु, पुनः तरुखण्डेषु वृक्षपङ्क्तिषु, पुनः सारणिस्रोतस्सु क्षुद्नदीप्रवाहेषु, पुनः कृत्रिमनदीसेतुबन्धेषु क्रियया खननात्मिकया, निर्वृत्ताः कृत्रिमाः, तादृशीनां नदीनां, सेतुबन्धेषु-सेतुसङ्घटनेषु, च पुनः केलिवापीकूलजलयन्त्रेषु क्रीडार्थवापीतटवर्तिजलोद्धाटनयन्त्रेषु, अन्तरा अन्तरा मध्ये मध्ये, निक्षिप्तचक्षुः प्रेरितदृष्टिः, दक्षिणाशां दक्षिणदिशं, तस्या दिशो गन्धर्वकागमनमार्गमित्यर्थः, ईक्षमाणः अवलोकमानः, तावत् तावत्कालपर्यन्तम् , आस्त उपविष्टवान् , यावत् यावत्कालम् , अशिशिरगभस्तिः अशिशिराः-उष्णाः, गभस्तयः-किरणा यस्य स सूर्यः, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202