Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 29
________________ तिलकमञ्जरी स्यति समस्तबान्धववर्गदत्तदुःसहोद्वेगः पुरुषद्वेषविषवेगः' [छ]। इत्युदीर्य जिगमिषुः पुनरुवाच–'कुमार! दूरे मया गन्तव्यम् , अनुमोदस्व माम् , आदिश च किमपि प्रयोजनं निजमुद्दिश्य यन्मया विधेयम् , प्रहिणु कुशलोदन्तमादेशं लेखं वा कस्यापि योऽस्यां दिशि मया गन्तुमिष्टायामिष्टस्तवास्ते, वस्तु च व्यक्तीकुरु वचनवृत्त्या यदानेतव्यमेतद्देशदुर्लभं ततः' इति ब्रुवाणं च तमासन्नसमुपनततद्विरहचिन्तासंतप्तमानसः सुचिरमवलोक्य स्नेहगर्भया दृष्टया स्पृष्ट्वा च पाणिना प्रणतशिरसमंसदेशे हरिवाहनः प्रतिव्याहरत्-'गन्धर्वक ! किमहमत्र ब्रवीमि [ज], सर्वात्मना हृदि निविष्टैर्विनयवैदग्ध्यमधुरवादितादिभिस्तव गुणैर्गुणैरिव गाढमस्वतन्त्रतामुपनीतया बुद्ध्या प्रवर्तयितुमपार्यमाणा न मे वाणी जिह्वाग्रमवतरति । कथं गच्छेति भद्रमनुजानामि, किं करोमि ? प्रकृतिरेषा-प्राकृतस्यापि जनस्य जातपरिचयस्य विप्रयोगं न सहते मच्चित्तवृत्तिः, किं पुनस्त्वादशस्य येन च संनिधानवर्तिना प्रवर्तते सुभाषितगोष्ठी, प्रवर्तन्ते विचित्राः कथालापाः, जायते गीतनृत्तचित्रादिषु कलासु व्युत्पत्तिः, आस्वाद्यते नर्मवादश्रवणेन श्रुतिसुखम् , अतिवाह्यते सर्वदा निरातङ्क टिप्पनकम्–अपार्यमाणा अशक्यमाना । [झ] । दृष्टमात्रेण अवलोकितमात्रेण, चित्रपटवर्तिना चित्राधारपटस्थेन, तेन रूपेण, सिद्धगारुडमन्त्रेणेव सिद्धगारुडसम्बन्धिमन्त्रेणेव, समस्तबान्धववर्गदत्तदुःसहोद्वेगः समस्ते-समग्रे, बान्धववर्गे-बन्धुगणे, दत्तः-सम्पादितः, दुःसहः-दुःखेन सहनीयः, उद्वेगः-मनोव्यग्रता येन तादृशः, भर्तृदारिकायाः राजकुमार्याः, तिलकमञ्जर्याः, पुरुषद्वेषविषवेगः पुरुषाप्रीतिरूपविषज्वाला, प्रशमं प्रशान्तिम् , उपयास्यति प्राप्स्यति [छ] । इत्युदीर्य इत्युक्त्वा, जिगमिषुः प्रयातुमिच्छुः, स बालक इति शेषः, पुनः उवाच उक्तवान्, किमित्याहे-कुमार! युवराज! मया दूरे दूरदेशे, गन्तव्यं प्रस्थातव्यं, माम , अनुमोदयस्व प्रयातुमनुमन्यव । च पुनः, किमपि, निजं वकीयं, प्रयोजनम् , आदिश अज्ञापय, यदुद्दिश्य यलक्ष्यीकृत्य, मया विधेयं चेष्टनीयम् । कुशलोदन्तं कुशलवार्ताम् , आदेशम आज्ञां, लेखं पत्रं वा, कस्यापि कस्यचित् पार्श्वे, प्रहिणु मां द्वारीकृत्य प्रेषय, यः, मया गन्तुं प्रस्थातुम् , इष्टायाम् अभिप्रेतायाम् , अस्यां दक्षिणस्यां, दिशि, तव इष्टः अपेक्षितः, आस्ते वर्तते । च पुनः, वचनवृत्त्या वचनद्वारा, व्यक्तीकुरु प्रकटीकुरु, एतद्देशदुर्लभं भवदीयदेशे दुष्प्रापं, यत् वस्तु, ततः, आनेतव्यम् आनेतुं योग्यं, स्यादिति शेषः । इति ब्रुवाणं कथयन्तं, तं बालकम् , आसन्नसमुपनततद्विरहचिन्तासन्तप्तमानसः आसन्न-निकटं यथा स्यात् तथा, समुपनतस्य-समुपस्थास्यमानस्य, यद्वा समुपनतया-समुपस्थास्यमानयेति चिन्ताविशेषणम् , तद्विरहस्य -तद्विश्लेषस्य, चिन्तया सन्तप्त-व्यथितं, मानसं-हृदयं यस्य तादृशः, हरिवाहनः, स्नेहगर्भया प्रीतिपूर्णया, दृष्ट्या चक्षुषा, सुचिरम अतिदीर्घकालम् , अवलोक्य दृष्ट्वा, च पुनः, प्रणतशिरसम् अवनतमस्तकं, तं पाणिना हस्तेन, अंसदेशे स्कन्धदेशे, स्पृष्टा संश्लिष्य, प्रतिव्याहरत् प्रत्युक्तवान् । किमित्याह-अहम्, अत्र अस्मिन् विषये, किं ब्रवीमि कथयामि [जी, सर्वात्मना सर्वांशेन, हृदि मनसि, निविष्टैः प्रविष्टः, विनयवैदग्ध्यमधुरवादितादिभिः नम्रत्व नैपुण्य-प्रियंवदत्वादिभिः, तव गुणैः, गुणैरिव रज्जुभिरिव, गाढम् अत्यन्तम् , अस्वतन्त्रतां परतन्त्रताम् , अधीनतामित्यर्थः, उपनीतया आपादितया, बुद्धया, प्रवर्तयितुं प्रेरयितुम् , अपार्यमाणा अशक्यमाना, मे मम, वाणी, जिह्वाग्रं जिह्वान्तभागं, न अवतरति आरोहति । भद्रं कल्याणवन्तं, भवन्तमित्यर्थः, गच्छेति इतः प्रयाहीति, कथं केन प्रकारेण, अनुजानामि अनुमन्ये । किं करोमि, एषा इयं, प्रकृतिः मम स्वभावः, मच्चित्तवृत्तिः मदीयमनोवृत्तिः, जातपरिचयस्य परिचितस्य, प्राकृतस्यापि तुच्छस्यापि, जनस्य, विप्रयोगं विश्लेषदुःखं, न सहते सोढुं न शक्नोति, किं पुनः किमुत, त्वादशस्य भवादृशस्य, येन सन्निधानवर्तिना निकटवर्तिना सता, सुभाषितगोष्ठी सूक्तिसभा, प्रवर्तते जायते; पुनः विचित्राः ः, कथालापाः प्रबन्धालापाः, प्रवतन्ते भवन्ति; पुनः गीतनृत्तचित्रादिषु गान नर्तन चित्रणादिषु, कलासु शिल्पेषु, व्युत्पत्तिः कौशलं, जायते, पुनः नर्मवादश्रवणेन परीहासोक्तिश्रवणेन, श्रवणसुखं कर्णयोराहादः, ३ तिलक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202