Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 26
________________ टिप्पनक - परागविवृतिसंवलिता । मत्रया च तया भर्तृदारिकाया वरमुद्दिश्य विज्ञापिता निशि प्रज्ञप्तिविद्या, निवेदितं च भगवत्या स्वप्नान्तरे'वत्से ! मा व्रज विषादम् मा च विद्याधरकुमार कान्वेषणे च कुरु यत्नम् अखिलनृपचक्रचूडारत्नमस्याः पतिः क्षितिगोचरनरेन्द्रदारको भविष्यति । एषा च हिमगिरिशिखरसद्मनः पद्ममहाहृदस्य पद्मवने कृताश्रयायाः श्रियः किमपि मान्या जन्मान्तरसखी सुकृतानुभावात् तव सुताभावेन संजातेति परिभाव्य सादरं द्रष्टव्या [ग] ।' इति नष्टनिद्रया च तया रूपदर्शनेन विना दुहितुरनुरागोत्पादनं रूपदर्शनं च साक्षादशेषभारतवर्षभूपतिकुमाराणामतिमात्र दुष्करमवधारयन्त्या तस्मिन्नेव क्षणे समाहूय सर्वान्तःपुरप्रतिबद्ध सैरन्ध्रीगणप्रष्ठा प्रेष्ठा प्रकृत्यैव जननी मे भर्तृदारिकाया धात्री चित्रलेखा नाम सादरं समादिष्टा - 'सखि ! चित्रलेखे ! त्वं हि चित्रकर्मणि परं प्रवीणा, चित्रदर्शनानुरागिणी च वत्सा तिलकमञ्जरी, अतोऽस्याः सकलनिजपरिवारवाराङ्गनाचित्रकौशलदर्शनव्याजेन दर्शय निसर्गसुन्दराकृतीनामवनिगोचरनरेन्द्रदारकाणां यथास्वमङ्कि wwwwwwww. १४ टिप्पनकम्-सैरन्ध्री - गन्धवर्तिका ( ? ) [ गन्धर्विका, गन्धर्वनर्तिका वा ] मण्डनयित्री वा । प्रष्ठा प्रधाना, प्रेष्ठा प्रियतमा । अतिसुन्दर भावसारं विद्धरूपम् [घ] ] | परम् अत्यन्तं विषादं दुःखम् उपगता प्राप्ता । च पुनः, विधानजप्तमन्त्रया सविधिजप्तमन्त्रया, तया देव्या, भर्तृदारिकायाः राजकन्यकायाः, वरं पतिम्, उद्दिश्य अभिलक्ष्य, निशि रात्रौ प्रज्ञप्तिविद्या विद्याविशेषाधिष्ठात्री देवता, विज्ञापिता आवेदिता, च पुनः, भगवत्या महिमशालिन्या, तया विद्यादेव्या स्वप्नान्तरे स्वप्नमध्ये, निवेदितं सूचितम् किमित्याह - वत्से ! पुत्रि !, विषादं दुःखं, मा व्रज प्राप्नुहि च पुनः, विद्याधरकुमार कान्वेषणे विद्याधरयुवराजान्वेषणे, यत्नम् आयासं, मा कुरु न कुरु । अखिलनृपचक्रचूडारनं समस्तनृपमण्डलशिरोरत्नभूतः, क्षितिगोचरनरेन्द्रदारकः भूमिवासिनरेन्द्रकुमारः अस्याः तिलकमञ्जर्याः पतिः वरः, भविष्यति सम्पत्स्यते । हिमगिरिशिखरसद्मनः हिमालय शिखरवर्तिनः पद्ममहाहृदस्य कमलसंकुल पद्मनामका गाच जलाशयस्य पद्मवने कमलवने, कृताश्रयायाः कृतनिवासायाः श्रियः लक्ष्म्याः, किमपि अनिर्वचनीयं यथा स्यात् तथा, मान्या माननीया, जन्मान्तरसखी प्राग्भवीयसखी, एषा इयं तिलकमञ्जरी, सुकृतानुभावात् पुण्यप्रभावात् तव सुताभावेन पुत्रिकारूपेण, संजाता अवतीर्णा, इति इत्थं, परिभाव्य विचार्य, सादरम् आदरसहितं द्रष्टव्या द्रष्टुमुचिता' इति [ग ] | च पुनः, नष्टनिद्रया भनिद्रया तया देव्या रूपदर्शनेन विशिष्य खप्नोतकुमाराकारदर्शनेन, विना, दुहितुः कन्यकायाः, अनुरागोत्पादनं पतिप्रीतिजननम् च पुनः अशेषभारतवर्षभूपतिकुमाराणाम् अखिलभारतवर्ष सम्बन्धिनृपबालकानां, साक्षाद्रूपदर्शनम्, अतिमात्र दुष्करम् अत्यन्तदुःखेन कर्त्तुं शक्यम्, अवधारयन्त्या निश्चिन्वत्या, सर्वान्तःपुरप्रतिबद्ध सैरन्ध्रीगणप्रष्ठा सर्वासां सकलानाम्, अन्तःपुर प्रतिबद्धानाम् अन्तःपुरावरुद्धानां सैरन्ध्रीणां परगृहवासिनीनां स्ववशानां शिल्पिनीनां, गणे-समूहे, प्रष्ठा-मुख्या, पुनः प्रकृत्यैव खभावेनैव, प्रेष्ठा अतिशयेन प्रिया मे मम, जननी माता, चित्रलेखा नाम तन्नाम्नी, भर्तृदारिकायाः राजकन्यकायाः, तिलकमञ्जर्या इति यावत्, धात्री उपमाता, तस्मिन्नेव क्षणे निद्रानाशोत्तरक्षणे, समाहूय सम्यगाहूय, सादरम् आदरपुरस्सरं समादिष्टा आज्ञप्ता; किमित्याहसखि ! चित्रलेखे !, हि यतः, त्वं, चित्रकर्मणि चित्रकार्ये, परम् अत्यन्तं, प्रवीणा कुशला, असीति शेषः, च पुनः वत्सा प्रियसुता, तिलकमञ्जरी, चित्रदर्शनानुरागिणी चित्रावलोकनप्रीतिमती, अस्तीति शेषः, अतः अस्माद्धेतोः, सकल निजपरिवारवाराङ्गनाचित्र कौशल दर्शनव्याजेन सकलानां सर्वासां निजपरिवारभूतानां वाराङ्गनानां वेश्यानां, चराङ्गनेति पाठे तु श्रेष्ठ नारीणां चित्रकौशलदर्शनव्याजेन चित्रणचातुर्यदर्शनच्छलेन, निसर्गसुन्दराकृतीनां खभावतः सुन्दराकाराणाम्, अवनिगोचरनरेन्द्रदारकाणां भूतलवर्तिनृपतिकुमाराणां यथास्वं यथायथं, नामभिः संज्ञाभिः, अङ्कितानि चिह्नितानि यथावस्थितानि यथावत् स्थितानि, विद्धरूपाणि चित्रिता अतिसुन्दर भावसारा आकृतीः, अस्याः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202