Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 25
________________ तिलकमञ्जरी शकुनिगणरमणीयरुतेषु सागरकूलकच्छेष्वात्मना समानविभवपरिच्छदाभिः परिवृता विद्याधरेन्द्रकुलकुमारिकाभिरुत्तरकुरुभ्यः समानीतेन कल्पतरुफलरसासवेन पानोत्सवं प्रवर्तयति, स्वभवनगता च सर्वदा सर्वकलाशास्त्रकुशलेन सर्वदेशभाषाविदा सर्वपौराणिकाख्यानकप्रवीगेन स्त्रीजनेन चित्राभिः कथाभिर्विनोद्यमाना दिनान्यतिवाहयति, न तु स्वप्नऽपि पुरुषसंनिधिमभिलषति [क]। प्रवर्त्यमानापि च गुरुभिः, प्रबोध्यमानापि धर्मशास्त्रविद्भिः, प्रलोभ्यमानाप्यनेकधा विद्याधरेन्द्रकुलकुमारैः, प्रसाद्यमानापि प्रियसखीभिः, विक्रियमाणापि प्रकटितालीककोपाभिर्बान्धववृद्धाभिः, न ज्ञायते किमात्मनोऽनुरूपं वरमनीक्षमाणा किं पुरुषपरतत्रतया यहच्छाविहारसुखविच्छेदमाशङ्कमाना किमाद्य एव विद्याग्रहणसमये स्वबुद्धिसंकल्पितस्य पुरुषसंप्रयोगपरिहारव्रतस्य समाप्तिकालं प्रतिपालयन्ती किमन्यजन्मजातसंबन्धपुरुषविशेषप्ररूढगाढप्रेमवासनावशेन पुरुषान्तरेषु चक्षुष्प्रीतिमत्रजन्ती नाभिलषति पाणिग्रहणमङ्गलम् [ख]। दृष्ट्वा च तस्यास्तथाविधां चित्तचेष्टामदृष्टप्रतिविधाना परं विषादमुपगता देवी पत्रलेखा, विधानजप्त टिप्पनकम्-विक्रियमाणा [क] । शृणोति [अ] । पुनः कदाचित् कस्मिंश्चित् काले, अच्छिद्रपुन्नागपादपच्छन्नविपुलवालुकापुलिनेषु अच्छिद्रः-सान्दैः, पुन्नागपादपैः-पुन्नागाख्यवृक्षविशेषैः, छन्नम्-आवृतं, विपुलवालुकापुलिनं--प्रचुरसिकतामयस्थलं येषु ताहशेषु, पुनः अविच्छिन्नसन्ततिश्रूयमाणानेकशकुनिगणरमणीयरुतेषु अविच्छिन्नसन्तत्या-निर्विच्छेदधारया, श्रूयमाणम्, अनेक शकुनिगणाना-नानापक्षिगणानां, रमणीयं-मनोहरं, रुतं-कूजितं येषु तादृशेषु, सागरकूलकच्छेषु समुद्रतटवर्तिजलप्रायप्रदेशेषु, आत्मना खेन, समानविभवपरिच्छदाभिः समानः-तुल्यः, विभवः-धनं, परिच्छदः-परिवारश्च यासां तादृशीभिः, विद्याधरेन्द्रकुलकुमारिकाभिः विद्याधराधिपतिकन्यकाभिः, परित्ता परिवेष्टिता, उत्तरकुरुभ्यः उत्तरकुरुक्षेत्रात्, समानीतेन उपाहृतेन, कल्पतरुफलरसासवेन कल्पवृक्षफलसम्बन्धिमद्येन, पानोत्सवं सुरापानोत्सवं, प्रवर्तयति प्रारभते । च पुनः, स्वभवनगता स्वगृहं गता सती, सर्वदा सर्वस्मिन् काले, सर्वकलाशास्त्रकुशलेन निखिलशिल्पशास्त्रनिपुणेन, सर्वदेशभाषाविदा सकलदेशभाषाऽभिज्ञेन, सर्वपौराणिकाख्यानकप्रवीणेन सकलपौराणिककथाकुशलेन, स्त्रीजनेन, चित्राभिः अपूर्वाभिः, कथाभिः उपाख्यानैः, विनोद्यमाना प्रमोद्यमाना, स्वप्नेऽपि खप्नावस्थायामपि, किमुत जागरणावस्थायां, पुरुषसन्निधिं पुरुषसम्पर्क, न तु नैव, अभिलषति इच्छति [क] | च पुनः, गुरुभिः पित्रादिभिः, प्रवर्त्यमानापि प्रेर्यमाणापि, पुनः धर्मशास्त्रविद्भिः धर्मशास्त्रज्ञैः, प्रबोध्यमानापि निवेद्यमानापि, पुनः विद्याधरेन्द्रकुलकुमारैः विद्याधराधिपतिवंशजयुवराजैः, अनेकधा अनेकप्रकारैः, प्रलोभ्यमानापि अतिलोभ्यमानापि, पुनः प्रियसखीभिः प्रियवयस्याभिः, प्रसाद्यमानापि अनुकूल्यमानापि, पुनः प्रकटितालीककोपाभिः आविष्कृतकृत्रिमक्रोधाभिः, बान्धववृद्धाभिः बन्धुभूतवृद्धस्त्रीभिः, विक्रियमाणापि चित्तविकारमापाद्यमानापि, न ज्ञायते-किम् आत्मनः खस्य, अनुरूपं योग्य, वरं पतिम् , अनीक्षमाणा अपश्यन्ती, किम् उत, पुरुषपरतन्त्रतया पतिपराधीनतया, यदृच्छाविहारसुखविच्छेदं यथेच्छभ्रमणानन्दव्याघातम्, आशङ्कमाना सन्दिहती, किम् आहोस्वित् , आद्य एव प्रथम एव, विद्याग्रहणसमये अध्ययनकाले, स्वबुद्धिसंकल्पितस्य खविचारप्रतिज्ञातस्य, पुरुषसम्प्रयोगपरिहारवतस्य पुरुषसंयोगवर्जनरूपनियमस्य, समाप्तिकालं निस्तारसमयं, प्रति पालयन्ती प्रतीक्षमाणा, किं किं वा, अन्यजन्मजातसम्बन्ध पुरुषविशेषप्ररूढगाढप्रेमवासनावशेन अन्य जन्मनि-प्राग्भवे जातः, सम्बन्धः-दाम्पत्यरूपो येन तादृशे पुरुषविशेष-पुरुषश्रेष्ठे, प्ररूढस्य-जातस्य, गाढस्य-सान्द्रस्य, प्रेम्णः-स्नेहस्य, या वासना-संस्कारः, तदशेन, पुरुषान्तरेषु तदन्यपुरुषेषु, चक्षुष्णीति नेत्रतृप्तिम् , अवजन्ती अप्रा. मुवती, पाणिग्रहणमङ्गलं विवाहोत्सवं, न अभिलषति वाञ्छति [ख]। तस्याः तिलकमञ्जर्याः, तथाविधां तादृशीं, चित्तचेष्टां मनोवृत्तिं, दृष्टा अनुभूय, अदृष्टप्रतिविधाना अदृष्टप्रतिकारा सती, पत्रलेखा तन्नाम्नी, देवी महाराज्ञी, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202