Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 24
________________ १२ टिप्पनक-परागविवृतिसंवलिता । कुर्वाणा, क्रमेण कुसुमबाणकेलिकाननं यौवनमनुप्राप्ता, संप्रति च दृष्टविनयदाक्षिण्यशीलत्रपादिस्टेणगुणगगद्विगुणितापत्यप्रीतिना जनकेन योग्या इति भाजनीकृता समग्राया अपि निजविभूतेः [अं], अनुमोदिता च खेच्छाविहाराय धृतविदग्धवेषविद्याधरीवृन्दपरिवृता पुरः प्रधावता प्रान्तचलितानेकरूपचिह्नकापद्भुततपनमण्ड. लेन मायूरातपत्रवनेन कुलिशत्राससंकुचितसुरशैलशिखराकारं कनकमयं विमानमारूढा गत्वा सत्वरं गगनमार्गेण कदाचिद् दक्षिणार्णवतरङ्गताडिततरुणताडीतरुषु संभोगलालसभुजङ्गललनासततसंकुलतमाललवलीलतागुल्मेषु मलयतटवनेषु विचरनि, कदाचिदासक्तकनकाम्बुजरजोराजिपिञ्जरपलायमानकलहंसकुलेषु मानससर:सलिलेषु कूलासीनसकुतूहलकुबेरकुलकुमारावलोकिता मजनकेलिमनुभवति, कदाचिदितस्ततः प्रवृत्तप्रतनुसुरनिम्नगास्रोतःसूत्रसीमन्तितशिखरेषु नीहारगिरिशिखरेषु वनविहारखिन्ना सुखनिषण्णानां किन्नरकुलानां काकलीगीतमाकर्णयति [अ], कदाचिदच्छिद्रपुन्नागपादपच्छन्नविपुलवालुकापुलिनेष्वविच्छिन्नसंततिश्रूयमाणानेक टिप्पनकम्-सीमन्तितं-द्विधाकृतम् [अ] । कलासु शिल्पेषु विज्ञानेषु वा, पक्षे षोडशांशेषु, परिचयं नैपुण्यं, पक्षे वृद्धिं, कुर्वाणा सम्पादयन्ती, क्रमेण शनैः, कुसुमबाणकेलिकाननं कामदेवक्रीडाकाननभूतं, यौवनं युवत्वावस्थाम् , अनुप्राप्ता प्राप्तवती। च पुनः, सम्प्रति इदानीं, दृष्टविनयदाक्षिण्यशीलत्रपादिस्त्रैणगुणगणद्विगुणितापत्यप्रीतिना दृष्टेन-अनुभूतेन, विनयः-नम्रभावः, दाक्षिण्यंचातुर्य, शीलं-सुन्दरखभावः सदाचारो वा, त्रपा-लज्जा, तत्प्रभृतिना, स्त्रैणगुणगणेन-स्त्रीसम्बन्धिगुणगणेन, द्विगुणिताद्विगुणीकृना, अपत्यप्रीतिः-सन्तानोचितवात्सल्यं येन तादृशेन, जनकेन पित्रा, योग्या ऐश्वर्यरक्षणकुशला, इति अस्माद्धेतोः, समनाया अपि सम्पूर्णाया अपि, निजविभूतेः खकीयैश्वर्यस्य, भाजनीकृता पात्रीकृता [अं]; च पुनः, स्वेच्छाविहाराय यथेच्छपरिभ्रमणाय, अनुमोदिता अनुज्ञाता सती, धृतविदग्धवेषविद्याधरीवृन्दपरिवृता धृतविदग्धवेषाभिःगृहीतमनोहरवेषाभिः, विद्याधरी वृन्दैः-विद्याधरजातीयस्त्रीसमूहैः, परिवृता-परिवेष्टिता, पुरः अग्रे, प्रधावता अतित्वरित. मुद्बलता, प्रान्तचलितानेकरूपचिह्नकापह्नततपनमण्डलेन प्रान्ते-पर्यन्ते, चलितैः-दोलितैः, अनेकरूपैः-नानावर्णकैः, चिह्नकैः-हस्वचिह्नः, अपहृतम्-अपलपितम् , तपनमण्डल-सूर्यबिम्बो येन तादृशेन, मायरातपत्रवनेन मयूरपिच्छमयच्छत्रगणेन, कुलिशत्राससंकुचितसुरशैलशिखराकारं कुलिशत्रासेन-वज्रभयेन, संकुचितस्य, सुरशैलस्य-सुमेरुपर्वतस्य, यच्छिखरं-शृङ्ग, तदाकारं तत्सदृशाकार, कनकमयं सुवर्णमयं; विमानम् - आकाशयानम् , आरूढा कृतारोहणा सती, गगनमार्गेण आकाशमार्गेग, सत्वरं शीघ्रं, गत्वा, कदाचित् कस्मिंश्चित् काले, दक्षिणार्णवतरङ्गताडिततरुणताडीतरुषु दक्षिणार्णवस्य-दक्षिणसागरस्य, तरङ्गैः,ताडिताः-आहताः, तरुगाः-परिणताः, ताडीतरवः-तालवृक्षा येषु तादृशेषु, पुनः सम्भोगलालसभुजङ्गललनासततसङ्कलतमाललवलीलतागुल्मेषु संभोगलालसाभिः-सम्भोगविषयकात्यन्ताभिलाषवतीभिः, भुजङ्गललनाभिः-सर्पस्त्रीभिः, सततसंकुलाः-अनवरतव्याप्ताः, तमाललवलीलताः-तदाख्यलताः, गुल्माःस्कन्धरहितवृक्षाश्च येषु तादृशेषु, मलयतटवनेषु मलयपर्वतपर्यन्तवर्तिवनेषु, विचरति विहरति । पुनः कदाचित् कस्मिंश्चित काले, आसक्तकनकाम्बुजरजोराजिपिञ्जरपलायमानकलहंसकुलेषु आसक्ताभिः-आश्लिष्टाभिः, कनकाम्बुजरजोराजिभिः-कनककमलपरागपुजैः, पिअर-पीतं, पलायमानं-तत्रासादुड्डीयमानं, कलहंसाना-कादम्बानां, कुलं-समूहो येषु तादशेषु, मानससरःसलिलेषु मानसाख्यसरोवरजलेषु, कूलासीनसकुतूहलकुबेरकुलकुमारावलोकिता कूले-तटे, आसीनैः-वर्तमानैः, सकुतूहले:-कौतुकान्वितैः, कुबेरकुलकुमारैः-कुबेरवंशजबालकैः, अवलोकिता-दृष्टा सती, मजनकेलिं स्नानक्रीडाम् , अनुभवति करोति। पुनः कदाचित् कस्मिंश्चित् समये, इतस्ततः अत्र तत्र, प्रवृत्तप्रतनुसुरनिम्नगास्रोतःसूत्रसीमन्तितशिखरेषु प्रवृत्तैः-स्यन्दितैः, प्रतनुभिः-हस्वैः,-सुरनिम्नगास्रोतःसूत्रः-गङ्गाप्रवाहसूत्रैः, सीमन्तितंद्विधाकृतं,-शिखरं-चूडा उपरिभाग इति यावत् येषु तादृशेषु, नीहारगिरिशिखरेषु हिमालयमस्तकेषु, वनविहारखिन्ना वनभ्रमणश्रान्ता सती, किन्नरकुलानां देवविशेषजातीयगणानां, काकलीगीतं सूक्ष्ममधुरस्वरेण गानम् , आकर्णयति "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202