Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 18
________________ टिप्पनक - परागविवृतिसंवलिता । रिन्द्रनीलकर्णाभरणयोरधोमुखपातिभिर्मयूखप्ररोहैः पक्ष्मलित पर्यन्ततया समुपजातश्मश्रुलेखोद्भेदमिव वदनमुद्वहन्, ललाटपट्टच्छलादुपरि संनिविष्टाष्टमी चन्द्रशकलस्य मुखसरोजस्य ग्लानिशङ्कया बालदिनकरेणेत्र संयोजितमात्ममण्डलैकखण्ड मखण्डताम्बूलो पयोगबद्धबहलरागमधरपल्लवं दधानः, धीरदृष्टिविक्षेपक्षोभिताभिमुखतेजस्विराजहंसमण्डलः, शशिबिम्बदर्शनेऽपि मुकुलितान्युपहसन्निवापाङ्गनिर्गतेन क्षीरशुचिना चक्षुपः प्रभापटलेन मार्गवा पिकापुण्डरीकवनानि, पट्टांशुकोष्णीषिणा सदृशवर्णतया कूजितानुमित परिमलालीनषट्पदकुलेन विचकिलमालभारिणा केशभारेण भ्राजमानः [ऊ ], यौवनोपचितसर्वावयवेन प्रांशुना विशदनेपथ्येन सावष्टम्भपदनिक्षेप पिशुनितान्तः पौरुषावलेपेन प्रलघुवेत्रकर ण्डिकाक्रोड निहितकतिपयताम्बूलबीटकसनाथां दक्षिणेतरांसस्रंसिनीमजस्रभुजदण्डदोलन चलाचलामुत्कृष्टकर्पटप्रसेविका मनतिलम्बां बिभ्रता खड्ग ६ टिप्पनकम् - धीरविक्षेपक्षोभिताभिमुखतेजस्विराजहंसमण्डलः एकत्र स्थिरनेत्र प्रेरणात्रासितसम्मुखसतेजोनृपप्रधानसंघातः, अन्यत्र क्षोभितादित्यचन्द्रबिम्बः । उष्णीषः- शिरोवेष्टनम् [ऊ] । पुनः श्रवणपाशप्रणयिनोः शोभनकर्णस्नेहिनोः, इन्द्रनीलकरणाभरणयोः नीलमणिमयकर्णालङ्करणयोः, अधोमुखपातिभिः अधोमुखप्रसर्पिभिः, मयूखप्ररोहैः किरणाङ्कुरैः, पक्ष्मलित पर्यन्ततया व्याप्तप्रान्ततया, समुपजातश्मश्रुलेखोद्भेदमिव समुपजातः - समुत्पन्नः, श्मश्रुलेखायाः- दाढिकाख्यरोमराज्याः, उद्भेदः - उद्गमो यस्मिंस्तादृशमिव, वदनं मुखम्, उद्वहन् धारयन्; पुनः ललाटपट्टच्छलात् पट्टिकाकारललाटव्याजात्, उपरि ऊर्ध्वभागे, सन्निविष्टाष्टमीचन्द्रशकलस्य सन्निविष्टः - संस्थितः, अष्टमीचन्द्रस्य, शकल :- खण्डो यस्य तादृशस्य, मुखसरोजस्य मुखारविन्दस्य, ग्लानिशङ्कया संकोच संशयेन, बालदिनकरेण बालसूर्येण, संयोजितं सन्निवेशितम्, आत्ममण्डलैकखण्डमिव आत्ममण्डलस्य-स्वबिम्बस्य, एकखण्डमिव - एककलामिव, अखण्डताम्बूलोपयोगबद्धबहलरागम् अखण्डस्य - समग्रस्य, ताम्बूलस्य-सोपकरणनागवल्लीदलस्य, उपयोगेन- भक्षणेन, बद्धः - उत्पादितः, बहलः - प्रचुरः, रागः- रक्तता यस्मिंस्तादृशम्, अधरपल्लवम् ओष्ठरूपं पल्लवं दधानः धारयन्; पुनः धीरदृष्टिविक्षेपक्षोभिताभिमुखतेजखिराजहंसमण्डलः धीरदृष्टिविक्षेपेण-स्थिरलोचनप्रेरणया, क्षोभितं - त्रासमापादितम्, अभिमुखतेजखिनाम्-अभिमुखं तेजः - प्रभावः पराक्रमः कान्तिर्येषां तादृशानां, राजहंसानां - प्रधाननृपाणां मण्डलं- समूहो येन तादृशः, पक्षे धीरदृष्टिविक्षेपेण क्षोभितम् अभिमुखागतं तेजस्विनोः-प्रकाशशालिनोः, राजहंसयोः - चन्द्रसूर्ययोः, मण्डलं-वर्तुलं विमानं येन तादृशः । पुनः शशिबिम्बदर्शनेऽपि चन्द्रबिम्बदर्शनेऽपि, मुकुलितानि संकुचितानि मार्गवापिकापुण्डरीकवनानि मार्गवर्तिदीर्घिकास्थकमलवनानि, अपाङ्गनिर्गतेन नेत्रप्रान्तनिःसृतेन, क्षीरशुचिना दुग्धधवलेन, चक्षुषः नेत्रकमलस्य, प्रभापटलेन कान्तिपुञ्जेन, उपहसन्निव परिहसन्निव पुनः पट्टांशुकोष्णीषिणा पट्टांशुकं - कौशेय सूक्ष्मवस्त्रमेव, उष्णीषं - शिरोवेष्टनं यस्मिंस्तादृशेन, सदृशवर्णतया समानवर्णतया, कूजितानुमित परिमलालीनषट्पदकुलेन कूजितेन - गुञ्जितेन, अनुमितम् - अनुमानविषयीकृतं, परिमलालीनं-परिमलेन - उत्कृष्टसौरभेण, आलीनम् - अन्तर्हितं, षट्पदकुलं-भ्रमरगणो यस्मिंस्तादृशेन, विच किलमालभारिणा विचकिलानाम् - अशोककुसुमानां, या माला तद्धारिणा, केशभारेण केशपुञ्जेन, भ्राजमानः शोभमानः [ऊ ]; पुनः यौवनोपचितसर्वावयवेन यौवनेन तारुण्येन, उपचिताः -पूर्णाः, सर्वे, अवयवानि अङ्गानि यस्य तादृशेन, प्रांशुना उन्नतेन, विशदनेपथ्येन उज्ज्वलवेषेण, सावष्टम्भपदनिक्षेपपिशु निरन्ततः पौरुषावलेपेन सावष्टम्भेनऔद्धत्यपूर्णेन, पदनिक्षेपेण - पादन्यासेन, पिशुनितः - सूचितः, अन्तः पौरुषस्य - आन्तरिकपराक्रमस्य, अवलेपः- गर्वो येन तादृशेन, प्रलघु वेत्रकरण्डिकाक्रोड निहित कतिपय ताम्बूलबीटकसनाथां प्रलघोः - अतिलघोः, वेत्रकर दण्डिकायाः - वेत्रमयपात्रविशेषस्य, क्रोडे – मध्ये, निहितैः - स्थापितैः, कतिपयताम्बूलबीटकैः - कतिपयताम्बूलपुटैः, सनाथां - समन्वितां, दक्षिणेतरांसस्रंसिनीं वामस्कन्धलम्बिनीम्, अजस्रभुजदण्डदोलन चलाचलाम् अनवरतदण्डाकारबाहुदोलनेनोद्वेलन्तीम् - अनतिलम्बाम् अनतिदीर्घाम्, उत्कृष्टकर्पटप्रसेविकाम् उत्तमपटखण्डमयमञ्जूषां, बिभ्रता धारयता, खड्गधेनुका "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 202