Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 19
________________ तिलकमञ्जरी धेनुकामात्रशत्रपरिग्रहेण पुरुषेणानुगम्यमानः, कृतोपसर्पणश्च द्वारभूमावुत्थाय सत्वरमाकारितः प्रतीहार्या प्रविश्य सरभसमभिमुखप्रहितसप्रसाददृष्टेः कुमारस्य प्रकटितादरः प्रणाममकरोत् । आकारसौन्दर्यातिशयदर्शनोपारूढप्रीतेश्च तस्य किञ्चिदुच्चोच्चारिताक्षरमेहीति कृतसंभाषणस्य समीपमुपससर्प []। निर्दिष्टसमुचितासनोपविष्टश्च दृष्ट्वा राजसूनोरधःकृतसकलसुरसिद्धविद्याधररूपमाधुर्यमङ्गसौन्दर्यमुपजातविस्मयः परममन्तःपरितोषमुवहत् । अभिमुखप्रहितसस्पृहेक्षणेन च स्तिमितमवलोकितस्तेन कृतपुण्यमात्मानममन्यत [ऋ]। स्थित्वा च कञ्चित् कालमुपरतवचाश्चित्रपटनिहितनिश्चलनयनमवनिपालतनयं विनयवामनशिराः शनैः पप्रच्छ—'कुमार! अस्ति किञ्चिद् दर्शनयोग्यमत्र चित्रपटे रूपम् ?, उद्भूतरूपः कोऽपि दोषो वा नातिमात्रं प्रतिभाति ?, अद्याप्यनुपजातपरिणतिश्चित्रविद्यायां शिक्षणीयोऽहमखिलकलाशास्त्रपारगेण महाभागेन' इति । हरिवाहनस्तु तं प्रत्युवाच-'बालक! किं शिक्ष्यते तव, स्रष्टा त्वमस्या जगति विद्यायाः, सुजनतेव स्वभावमधुरा जन्मान्तरशताभ्यासादुपागता तवैषा चित्रगतिः, विनीततायामिवास्यामल्पमेव ते यधुपदेष्टा गुरुजनः, मात्रशस्त्रपरिग्रहेण खगधेनुका-असिपुत्रिका, छुरिकेत्यर्थः, तन्मात्रं यत् शस्त्रं-प्रहरणं, तदेव परिग्रहः-उपकरणं यस्य तादृशेन, पुरुषेण, अनुगम्यमानः अनुस्रियमाणः; च पुनः, द्वारभूमौ द्वारदेशे, कृतोपसर्पणः कृतागमनः; पुनः उत्थाय, प्रतीहार्या द्वारपालिकया, सत्वरं शीघ्रम् , आकारितः आहूतः, पुनः सरभसं सत्वरं, प्रविश्य, प्रकटितादरः प्रकाशितादरः सन् , अभिमुखप्रहितसप्रसाददृष्टः अभिमुखं-सम्मुखे, प्रहिता-प्रेरिता, सप्रसादा-प्रसन्ना, दृष्टियन तादृशस्य, कुमारस्य हरिवाहनस्य, प्रणामं नमस्कारम् , अकरोत् कृतवान् । च पुनः, आकारसौन्दर्यातिशयदर्शनोपारूढप्रीतेः आकारसौन्दर्यातिशयस्य-तत्स्वरूपशोभातिशयस्य, दर्शनेन, उपारूढा-उत्पन्ना, प्रीतिः-स्नेहो यस्य तादृशस्य, पुनः किश्चिदुच्चोच्चारिताक्षरं किञ्चिदुच्चं-किञ्चित् तीव्रम् , उच्चारितम्-अभिव्यजितम् , अक्षरं यस्मिंस्तादृशं यथा स्यात् तथा, एहि आगच्छ, इति कृतसम्भाषणस्य कृतालापस्य, तस्य कुमारस्य, समीपं निकटम् , उपससर्प उपजगाम [क]। च पुनः, निर्दिष्टसमुचितासनोपविष्टः दर्शितयोग्यासनोपविष्टः सन् , अधकृतसकलसुरसिद्धविद्याधररूपम् अधःकृत-तिरस्कृत, सकलानां-समस्तानां, सुराणां-देवानां, सिद्धानाम्-अणिमाद्यैश्वयेशालिनां, विद्याधराणां-मन्त्रादिधारकाणां च, रूपं सौन्दर्य येन तादृशं,राजसूनोः प्रकृतकुमारस्य, अङ्गसौन्दर्य देह जाचारुतां, दृष्टा दृष्टिगोचरीकृत्य, उपजातविस्मयः उत्पन्नाश्चर्यः, परममनःपरितोषम् अत्यन्तमन्तःसन्तोषम् , उदवहत् प्राप्तवान् । च पुनः, अभिमुखप्रहितसस्पृहेक्षणेन अभिमुखं-सम्मुखे, प्रहितं-प्रेरितं, सस्पृह-सानुरागम् , ईक्षणं-नयनं येन तादृशेन, तेन प्रकृतकुमारेण, स्तिमितं स्थिरं यथा स्यात् तथा, अवलोकितः दृष्टः सन् , आत्मानं खं, कृतपुण्यं पुण्यशालिनम् , अमन्यत प्रतीतवान् [ऋ]। च पुनः, कश्चित् कालं कियन्तं कालं, स्थित्वा वर्तित्वा, उपरतवचाः निवृत्तवचनः, चित्रपटनिहितनिश्चलनयनं चित्रपटनिवेशितस्थिरदृष्टिम् , अवनिपालतनयं नृपकुमार, हरिवाहनमिति यावत् , विनयवामन शिराः विनयावनतमस्तकः सन् , शनैः मन्दं, पप्रच्छ पृष्टवान् , किमित्याह - 'कुमार! अत्र अस्मिन् , चित्रपटे, दर्शनयोग्य दर्शनीयं, किञ्चित् किमपि, रूपम् , अस्ति वर्तते, वा अथवा, उद्भतरूपः प्रकटरूपः, कोऽपि. दोषः चित्रणत्रुटिः, अतिमात्रम् अत्यन्तं, न प्रतिभाति प्रतीतिपथमवतरति, अद्यापि अधुनापि, चित्रविद्यायां चित्रणकलायाम् , अनुपजातपरिणतिः अप्ररूढपरिपाकः, अनिपुण इति यावत् , अहम् , अखिलकलाशास्त्रपारगेण समग्रशिल्पशास्त्रपारंगतेन, महाभागेन महानुभावेन, भवतेत्यर्थः, शिक्षणीयः शिक्षयितुं योग्यः, अस्मीति शेष इति । हरिवाहनस्तु तं प्रकृतं बालक, प्रत्युवाच प्रत्युक्तवान् , किमित्याह-बालक ! तव किं शिक्ष्यते शिक्षयिष्यते, यतः जगति लोके, अस्याः विद्यायाः शिल्पविद्यायाः स्रष्टा सृष्टिकर्ता, असीति शेषः, सुजनतेव सौजन्यमिव, स्वभावमधुरा प्रकृतिमनोहरा, जन्मान्तरशताभ्यासात् प्राग्भवीयतीवाभ्यासात्, उपागता प्राप्ता, तव एषा चित्रगतिः चित्रकलाभिज्ञता । विनीततायामिव नम्रतायामिव, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 202