________________
४६
ज्योतिष्करण्डकम्
रुद्रः ? द्वितीयः श्रेयान् २ तृतीयो मित्रः ३ चतुर्थो वायुः ४ पंचमस्सुपीतः ५ षष्ठोऽभिचन्द्रः ६ सप्तमो माहेन्द्रः ७ अष्टमो बलवान् ८ नवमः पक्ष्मः ९ दशमो बहुसत्यः १० एकादश ऐशानः ११ द्वादशस्त्वष्टा १२ त्रयोदशो भावितात्मा १३ चतुर्दशो वैश्रवणः १४ पंचदशो वारुण १५ षोडश आनन्दः १६ सप्तदशो विजयः १७ अष्टादशो विश्वासनः १८ एकोनविंशतितमः प्राजापत्यः १९ विंशतितम उपशमः २० एकविंशतितमो गान्धर्वः २१ द्वाविंशतितमोऽग्निवैश्यः २२ त्रयोविंशतितमः शतवृषभः २३ चतुर्विंशतितम आतपवान् २४ पंचविंशतितमोऽममः २५ षड्विंशतितम ऋणवान् २६ सप्तविंशतितमो भौमः २७ अष्टाविंशतितमो वृषभः २८ एकोनत्रिंशत्तमः सर्वार्थः २९ त्रिंशत्तमो राक्षस; ३० । उक्तं च जम्बूद्वीपप्रज्ञप्तौ-[सूत्र १५२] "रुद्दे १ सेए २ मित्ते ३ वायू ४ सुपीए ५ तहेव अभिचंदे ६ । माहिद ७ बलवं ८ पम्हे ९ बहुसच्चे १० चेव ईसाणे ११ ॥१॥ तटे १२ व भावियप्पा १३ वेसवणे १४ वारुणे १५ य आणंदे १६ । विजये १७ य वीससेणे १८ पायावच्चे १९ तह य उवसमे २० य ॥२॥गंधव्व २१ अग्गिवेसा २२ सयरिसहे २३ आयवं २४ च अममं २५ च । अणवं २६ भोमे २७ रिसहे २८ सव्वढे २९ रक्खसे ३० ईया ॥ ३ ॥" ततो युगे मुहूर्तानामादि रुद्र एव भवति, तथा च जम्बूद्वीपप्रज्ञप्रप्तावेवोक्तं-[सूत्र १५४] "किमाइया णं भंते ! संवच्छरा ? किमाइया अयणा ? किमाइया उऊ ? किमाइया मासा ? किमाइया पक्खा ? किमाइया अहोरत्ता ? किमाइया मुहुत्ता ? किमाइया करणा? किमाइया नक्खत्ता ? गोयमा ! चंदाइया संवच्छरा दक्खिणाइया अयणा पाउसाइया
ऊ सावणाइया मासा बहुलाइया पक्खा दिवसाइया अहोरत्ता रोद्दाइया मुहुत्ता बवाइया करणा अभिइआइया नक्खत्ता पन्नत्ता समणाउसो !" इति ॥ तदेवं 'राइया महविदेहेसु' (राई य विदेहवासेसु) इत्यनेनावयवेन महाविदेहेषु ॥ अनया गाथया भरतैरावतयोर्युगस्यादिः प्ररूपितः, सम्प्रति भरतैरावतविदेहेषु साधारणं युगस्यादि प्ररूपयति
१. अत्र जम्बूद्वीप प्रज्ञप्ति टीकायां [पत्र ४१३] सूर्यप्रज्ञप्ति टीकायां च [पत्र १४६ ] "नवमो ब्रह्मा" इति दृश्यते ॥ २. जम्बूद्वीपप्र० सूर्यप्रज्ञप्तौ चात्र "पम्ह" स्थाने "बम्भे" इति वर्तते ॥ ३. (छा.) किमादिका भदन्त ! संवत्सराः ? किमादिका अयनाः ? किमादिका ऋतवः ? किमादिका मासाः ? किमादिकाः पक्षाः ? किमादिका अहोरात्राः ? किमादिका मुहूर्ताः ? किमादिकाः करणाः ? किमादिकानि नक्षत्राणि ? गौतम ! चंद्रादिकाः संवत्सराः दक्षिणादिकानि अयनानि, प्रावृडादिका ऋतवः श्रावणादिका मासाः बहुलादिकाः पक्षाः दिवसादिका अहोरात्राः रुद्रादिका मुहूर्ताः बिवादिकानि करणानि, अभिजिदादिकानि नक्षत्राणि प्रज्ञप्तानि श्रमणायुष !" सूर्यप्रज्ञप्तौ पत्र १४६ द्रष्टव्यम् ।