Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
અધિકાર-૨૧: પૌરુષી પરિમાણ
तदेवमुक्तं विंशतितमं प्राभृतं, सम्प्रति पौरुषीपरिमाणप्रतिपादकमेकविंशतितमं प्राभृतं विवक्षुराह
पव्वे पन्नरसगुणे तिहिसहिए पोरसीए आणयणे । छलसीयसयविभत्ते जं लद्धं तं वियाणाहि ॥ ३६८ ॥ जइ होइ विसमलद्धं दक्खिणमयणं हविज्ज नायव्वं । अह हवइ समं लद्धं नायव्वं उत्तरं अयणं ॥ ३६९ ॥ अयणगए तिहिरासी चउग्गुणे पव्वपायभइयम्मि ।
जं लद्धमंगुलाणि य खयवुड्डी पोरसीए उ ॥ ३७० ॥ युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्वं युगादित आरभ्य यानि पर्वाण्यतिक्रान्तानि तानि ध्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यते, गुणयित्वा च विवक्षितायास्तिथेः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते, इहैकस्मिन्नयने त्र्यशीत्यधिकमण्डलशतपरिमाणं चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति ततस्तेन भागहरणं, हृते च भागे यल्लब्धं तद् विजानीहि, सम्यगवधारयेत्यर्थः, ॥ २६८ ॥ तत्र यदि लब्धं विषमं भवति यथा एकक स्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्ति दक्षिणमयनं ज्ञातव्यम्, अथ भवति लब्धं सम, तद्यथा-द्विकश्चतुष्को षट्कोऽष्टको दशको वा तदा तत्पर्यन्तवर्त्ति उत्तरायणमवसेयम् ॥ ३६९ ॥ तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः, सम्प्रति षडशीत्यधिकेन शतेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतं विधिमाह

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466