SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ અધિકાર-૨૧: પૌરુષી પરિમાણ तदेवमुक्तं विंशतितमं प्राभृतं, सम्प्रति पौरुषीपरिमाणप्रतिपादकमेकविंशतितमं प्राभृतं विवक्षुराह पव्वे पन्नरसगुणे तिहिसहिए पोरसीए आणयणे । छलसीयसयविभत्ते जं लद्धं तं वियाणाहि ॥ ३६८ ॥ जइ होइ विसमलद्धं दक्खिणमयणं हविज्ज नायव्वं । अह हवइ समं लद्धं नायव्वं उत्तरं अयणं ॥ ३६९ ॥ अयणगए तिहिरासी चउग्गुणे पव्वपायभइयम्मि । जं लद्धमंगुलाणि य खयवुड्डी पोरसीए उ ॥ ३७० ॥ युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्वं युगादित आरभ्य यानि पर्वाण्यतिक्रान्तानि तानि ध्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यते, गुणयित्वा च विवक्षितायास्तिथेः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते, इहैकस्मिन्नयने त्र्यशीत्यधिकमण्डलशतपरिमाणं चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति ततस्तेन भागहरणं, हृते च भागे यल्लब्धं तद् विजानीहि, सम्यगवधारयेत्यर्थः, ॥ २६८ ॥ तत्र यदि लब्धं विषमं भवति यथा एकक स्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्ति दक्षिणमयनं ज्ञातव्यम्, अथ भवति लब्धं सम, तद्यथा-द्विकश्चतुष्को षट्कोऽष्टको दशको वा तदा तत्पर्यन्तवर्त्ति उत्तरायणमवसेयम् ॥ ३६९ ॥ तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः, सम्प्रति षडशीत्यधिकेन शतेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतं विधिमाह
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy