Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
परिशिष्ट-२
४१९
[८७] (सू०) कइविहे णं भंते ! राहू पन्नत्ते ? गोयमा ! दुविहे राहू पन्नत्ते, तं जहा-धुवराहू पव्वराहू य तत्थ णं जे से धुवराहू से णं बहुलवक्खस्स पडिवए आरब्भ पन्नरसइ भागेणं पन्नरसभागमावरे माणे चिट्ठइ, तं जहा-पढमाए पढमं भागे बिइयाए बिइयं भागं जाव पन्नरसीए पन्नरसं भागं, तं चेव सुक्कपक्कखे उवदंसेमाणे उवचिट्ठइ, तं जहा-पढमाए पढमाए पढमं भागं बिइयाए बिइयं भागं जाव पनरसं भागं । (क्षेत्रसमास)
[४१] (सू०) 'पंचसंवच्छरिए णं भंते ! जुगे केवइया अयणा ? केवइया उऊ ? केवइया मासा ? केवइया पक्खा ? केवइया अहोरत्ता? केवइया मुहुत्ता पन्नत्ता ? गोयमा ! पंचसंवच्छरिए णं जुगे दस अयणा तीसं उऊ सढेि मासा एगे वीसुत्तरे पक्खसए अट्ठारस तीसा अहोरत्तसया चउपण्णं मुहुत्तसहस्सा नव सया पन्नत्ता" ।
(टि०) 'पंचसंवच्छरिए णं भन्ते ! जुगे' इत्यादि, पञ्च संवत्सरा सौरा मानमस्येति पञ्चसंवत्सरिकं युगं, अनेन नोत्तर सूत्रेण दश अयना इत्यादिकेन विरोधः, चन्द्र संवत्सरोपयोगिनां चन्द्रायणानां तु चतुस्त्रिंशदधिक शतस्य सम्भवात्, तत्र भदन्त ! कत्ययनानि प्रज्ञप्तानि ?, कियन्त ऋतवः, एवमिति सौत्रं पदं एवं सर्वत्र योजना कार्येत्यर्थाभिव्यञ्जकं, तेन कियन्तो मासाः पक्षाः अहोरात्राः कियन्तो मुर्खता प्रज्ञप्ताः ? भगवानाह - गौतम ! पञ्च संवत्सरिके युगे दश अयनानि, प्रतिवर्षमयनद्वयसम्भवात्, एवं त्रिंशतवः, प्रत्ययनं ऋतुत्रय सम्भवात्, अत्र सूर्य संवत्सरषष्ठाशं एक षष्टि दिनमानः सूर्यतुरेव', न तु ऋतुसंवत्सरषष्ठांशः षष्ठि दिन प्रमाणो लौकिकर्तुः तथा च सति षष्टिर्मासा इत्युत्तर सूत्रं विरुणद्धि, तथा षष्टिर्मासाः सौराः प्रतिऋतु मासद्वय सम्भवात्, एकविंशत्युत्तरं पक्षशतं, प्रतिमासं पक्षद्वयसम्भवात्, अष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां प्रत्ययनं १८३ अहोरात्रा स्ते च दशगुणाः १८३०, मुहूर्ताश्च चतुष्पञ्चाशत्सहस्राणि नव च शतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता इति युगाहोरात्राणां १८३० सङ्ख्याङ्कानां त्रिशता गुणने उक्त संख्यासम्भवात् ॥
[७०] (सू०)।
(टि०) एकैकस्य भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ताः ? गौतम ! द्वादश मासाः प्रज्ञप्ताः, तेषां द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथा-लौकिकानि लोकोत्तराणि च, तत्र लोकः - प्रवचनबाह्यो जनस्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लौकिकानि लोकः प्रागुक्त एव तस्मात्सम्यग्ज्ञानादिगुणयुक्तत्वेन उत्तराः-प्रधानाः लोकोत्तराः - जैना स्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लोकोत्तराणि, अत्र वृद्धि-विधानस्य वैकल्पिकत्वेन यथाश्रुतरुपसिद्धिः, तत्र लौकिकानि नामान्यमूनि तद्यथा-श्रावणो भाद्रपदः यावत्करणात् आश्वयुजः कार्तिको मार्गशीर्षः पौषो माधः फाल्गुनश्चैत्रः वैशाखो ज्येष्ट आषाढ इति, लोकोत्तराणि नामान्यमूनि, तद्यथा- प्रथमः श्रावणोऽभिनन्दितो द्वितीयः प्रतिष्ठित स्तृतीयो विजयः चतुर्थः प्रीतिवर्धनः पञ्चमः श्रेयान् षष्ठः शिवः सप्तमः शिशिरोऽष्टमोहिमवान्, सूत्रे च पदपूरणाय सह शब्देन समासः तेन हिमवता सह शिशिर इत्यागतं शिशिरः हिमवांश्चेति नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466