Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 441
________________ ४०८ वुड्डी वा हाणी वा जावइया पोरसीए दिठ्ठा उ । तत्तो दिवसगएणं जं लद्धं तं खु अयणगयं ॥ ३७५ ॥ ज्योतिष्करण्डकम् ૩૧ पौरुष्यां यावती वृद्धिर्हानिर्वा दृष्टा ततः सकाशाद्दिवसगतेन प्रवर्द्धमानेन हीयमानेन वा त्रैराशिककर्मानुसरणतो यल्लब्धं तत् अयनगतम् - अयनस्य तावत्प्रमाणं गतं वेदितव्यम्, एष करणगाथाक्षरार्थः, भावना त्वियं-तत्र दक्षिणायने पदद्वयस्योपरि चत्वार्यंगुण्लानि वृद्धौ दृष्टानि, ततः कोऽपि पृच्छति-कियद्गतं दक्षिणायनस्य ? अत्र त्रैराशिककर्मावतारो - यदि चतुर्भिरंगुलस्यैक त्रिसद्भागैरेका तिथिर्लभ्यते ततश्चतुर्भिरंगुलैः कति तिथीर्लभामहे ? राशित्रयस्थापना ४ १-४ अत्रान्त्यो राशिश्चतुरंगुलरूप इत्येकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते, जातं चतुर्विंशत्यधिकं शतं १२४, तेन मध्यो राशिर्गुण्यते जातं तदेव चतुर्विंशत्यदिकं शतम् १२४ तस्य चतुष्करूपेणादिराशिना भागो ह्रियते, लब्धा एकत्रिंशत्तिथयः आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरंगुला पौरुष्यां वृद्धिरिति । तथोत्तरायणे पदचतुष्टयादंगलाष्टकं हीनं पौरुष्या उपलभ्य कोऽपि पृच्छति - किं गतमुत्तरायणस्य ? अत्रापि त्रैराशिकं - यदि चतुर्भिरंगुलस्यैकत्रिंशद्भागैरेका तिथिर्लभ्यते ततोऽष्टभिरंगुलैः कति तिथयो लभ्यन्ते ? राशित्रयस्थापना - १-८ अत्रान्त्यो राशिरेकस्त्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते, जाते द्वे शते अष्टाचत्वारिंशदधिके २४८, ताभ्यां मध्य राशिरेकरूपो गुण्यते, जाते ते एव द्वे शते अष्टाचत्वारिंशदधिके २४८, तयोराद्येन राशिना चतुष्करूपेणभागहरणं, लब्धा द्वाषष्टिः, आगतमुत्तरायणे द्वाषष्टितमायां तिथावष्टावंगुलानि पौरुष्यां हीनानीति ॥ ३७५ ॥ सम्प्रत्युपसंहारमाह ૩૧ कालपणाणसमासो पुव्वायरिएहि आणिओ एसो । दिणकरपण्णत्तीओ सीसजणविबोहणट्ठाए ॥ ३७६ ॥ २ १. एतद्गाथानन्तरं म.वि. संस्करणे उपसंहाररूपं गाथा युगलमेतदपि अस्ति - 'एसो य चंदपव्वे करणविधी ओहिएण कायव्वो । कालन्नाणुद्देसो तस्स निसिद्धो (? तुज्झ मि सिट्ठो) जधुद्दिट्ठो ॥ ४०२ ॥ एवं सोऊण तु सो समणो संजातसमयपत्तट्टो । इच्छामि त्ति उवगतो वाचकवसभस्स उवदेसं ॥ ४०३ ॥ २. म.वि. संस्करणे ज्योतिष्करण्डके पुण्यविजयजीसंपादिते शिवानंदीकृतसटिप्पनिके ग्रंथे इमा समाप्ति गाथाsधिका अस्ति । - 'पुव्वायरियकयाणं करणाणं जोतिसम्मि समयम्मि । पालित्तकेण इणमो रइया गाहाहिं परिवाडी ॥ ४०५ ॥

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466