Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४१६
ज्योतिष्करण्डकम्
[६४] 'से णं भंते ! वावहारिए परमाणू असिधारं वा खुरधारं वा ओगाहिज्जा ? हंता ओगाहिज्जा, से णं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ?, नो इणढे समढे, नो खलु तत्थ सत्थं संकमइ । से णं भंते ! अगणिकायस्स मज्झंमज्झेणं विइवइज्जा ? हंता, विइवइज्जा, से णं तत्थ डज्झिज्जा ? नो इणढे समढे, नो खलु तत्थ सत्थं संकमइ । से णं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झमज्झेणं विइवइज्जा ? हंता विइवइज्जा, से णं तत्थ उदयल्ले सिया ? नो इणढे समढे, नो खलु तत्थ सत्थं संकमइ, से णं भंते ! गंगाए महानईए पडिसोयं हव्वमागच्छेज्जा ? हंता हव्वे आगच्छेज्जा, से णं तत्थ विनिघायमावज्जेज्जा ? नो इणढे समढे, नो खलु तत्थ सत्थं संकमइ, से णं भंते ! उदकावत्ते उदगबिंदु वा ओगाहेज्जा ? हंता ओगाहेज्जा, से णं तत्थ विकुत्थेज्ज वा परियावज्जेज्ज वा ? नो इणढे समढे, नो खलुतत्थ सत्थं संकमइ । (अनु. सू. १३४) (गा. १००)
‘से णं भंते !' इत्यादि स भदन्त ! व्यावहारिकपरमाणुः कदाचिद् असिःखङ्गं तद्धारां वा क्षुरोनापितोपकरणं तद्धारां वा अवगाहेत-आक्रामेद् ? अत्रोत्तरं - 'हन्तावगाहेतेति' हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनं पुनः पृच्छति - स तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत भिद्येत वा - अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ? उत्तरमाह - नायमर्थः समर्थः, नैतदेवमिति भावः, अत्रोपपत्तिमाह- न खलु तत्र शस्त्रं क्रामति, इदमुक्तं भवतियद्यप्यनन्तेः परमाणुभिनिष्पन्नाः काष्टादयः शस्त्र च्छेदादि विषया द्दष्टास्तथाप्यनन्तकस्याप्यनन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिकः परमाणुाह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह- स भदन्ताग्निकायस्यवोर्मध्यंमध्येनअन्तरे व्यतिव्रजेद्- गच्छेत् ? हन्तेत्याधुत्तरं पूर्ववत्, नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यं, पुनः पृच्छति - ‘से णं भंते ! पुक्खले 'त्यादि इदमपि सूत्रं पूर्ववद्भावनीयं, नवरं पुष्कर संवर्तस्यमहामेघस्येयं प्ररूपणा-इहोत्सर्पिण्यामेकविंशतिवर्षसहस्रमाने दुष्षमदुष्षमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघाः प्रादुर्भविष्यन्ति, तद्यथा-पुष्कलसंवर्तक उदकरसः प्रथमः द्वितीयः क्षीरोदस्तृतीयो धृतोदश्चतुर्थोऽमृतोदः पञ्चमो रसोदः, तत्र पुष्कलसंवर्गोऽस्य भरतक्षेत्रस्य पुष्कलं-पचुरमपि सर्वमशुभानुभावं भूमिरुक्षतादाहादिकं प्रशस्तोदकेन संवर्तयति-नाशयति, एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्यः, 'उदउल्लेसिय'त्ति उदकेनाः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया, 'से णं भंते ! गंगाए' इत्यादि, गङ्गाया महानद्याः प्रतिश्रोतो हव्वं-शीध्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति, पश्चिमाद्यभिमुख: स आगच्छेत् तन्मध्येनेति भावः 'विणिहाय' मित्यादि, विनिघातः-तत्स्रोतसि प्रतिस्खलनं तमापद्येत-प्राप्नुयात्, शेषं पूर्ववत्, ‘से णं भंते ! उदगावत्त' मित्यादि, उदकावर्तोदकबिन्दोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः ?, स च तत्रोदकसम्पर्कात् कुथ्येद्वा-पूतिभावं यायात् पर्यापद्येत् वा-जलरुपतया परिणमेदित्यर्थः शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपतः प्राह'सत्येण' गाहा गतार्थाः नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुमारभते इत्येतत् किलशब्देन सूचयति ।

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466