Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 447
________________ परिशिष्ट-२ [६२] (सू०) से कि तं उवणिहिआ कालाणुपुव्वी ? २ तिविहा पण्णत्ता, तं जहा-पुव्वाणु० पच्छाणु० अणाणु० - से किं तं पुव्वाणु० ?, २ समए आवलिआ आण पाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससए वास सहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुअंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे णलिणंगे णलिणे अत्थनिऊरंगे अत्थनिऊरे अउअंगे अउए नउअंगे नउए पउअंगे पउए चूलिअंगे चूलिआ सीसपहेलिअंगे सीसपहेलिआ पलिओवमे सागरोवमे ओसप्पिणी उसप्पिणी पोग्गल परिअढे अतीतद्धा अणागतद्धा सव्वद्धा से तं पुव्वाणु० ॥ अनुयोगद्वार ॥ सू० ११४ ॥ (टि०) एकः समयः स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येयाः समयाः स्थितिर्यस्य स तथेति पूर्वानुपूर्वी, शेष भावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचारस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वादनुषङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच्च तद्विषयत्वेनैव प्राकारान्तरेण तमाह-'अहवे' त्यादि, तत्र समयो-वक्ष्यमाण स्वरूपः सर्व-सूक्ष्मः कालांशः, स च सर्वप्रमाणानां प्रभवत्वात्, प्रथमं निर्दिष्टः १, तैरसङ्ख्येयै निष्पन्ना आवलिका २, सङ्ख्येया आवलिकाः 'आण' त्ति आणः एक उच्छ्वास इत्यर्थः ३, ता एव सङ्ख्येया निःश्वासः, अयं च सूत्रेऽनुक्तोऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ४, द्वयोरपि कालः 'पाणु'त्ति एकः प्राणुरित्यर्थः ५, सप्तभिः प्राणुभिः स्तोकः ६, सप्तभिः स्तोकैर्लवः ७, सप्तसप्तत्या लवानां मुहूर्तः ८, त्रिंशता मुहूर्तेरहोरात्रं ९, तैः पञ्चदशभिः पक्षः १०, ताभ्यां द्वाभ्यां मासः, ११, मासद्वयेन ऋतुः १२, ऋतुत्रयमानमयनम् १३, अयनद्वयेन संवत्सरः १४, पञ्चभिस्तैर्युगं १५, विंशत्या युगैर्वर्षशतं १६, तैर्दशभिर्वर्षसहस्रं १७, तेषां शतेन वर्षशतसहस्र, लक्षमित्यर्थः १८, चतुरशीत्या च लक्षैः पूर्वाङ्गं भवति १९, तदपि चतुरशीत्या लौ गुणितं पूर्वं भवति २०, तच्च सप्तति कोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च-"पुव्वस्स उ परिमाणं सयरी खलु हुंति कोडिलक्खाउ । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं ॥ १ ॥" स्थापना ७०५६००००००००००, इदमपि चतुरशीत्या लक्षैर्गुणितं त्रुटिताङ्गं भवति २१, एतदपि चतुरशीत्या लक्षैर्गुणितं त्रुटितं भवति २२, तदपि चतुरशीत्या

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466